अनया उक्त्या वीरेन्द्रसिहस्य मुखमप्रसन्नं जातम्। शनैः शनैः अक्षिणी रक्तवर्णे जाते। तस्य भावभंगं दृष्ट्वा अभिरामस्वामी उक्तवान् – “वीरेन्द्र, मा क्रुध्य। त्वामहं दिल्लीश्वरस्य पक्षं स्वीकर्तुं वदामि, न मानसिंहस्य।”
वीरेन्द्रसिहः परमहंसं प्रति दक्षिणहस्तं प्रसार्य प्रादर्शयत्। दक्षिणहस्ते वामहस्तस्य तर्जन्या संकेतं कृत्वा उवाच– “भवच्चरणकमलयोरनुग्रहेण अनेनैव हस्तेन मानसिंहस्य रुधिरं वाहयिष्यामि।” इति।
अभिरामस्वामी– “स्थिरो भव। क्रोधवशात् कार्यं न विकुरु/नाशय। मानसिंहः तत्पूर्वापराधाय अवश्यदण्ड्यः। किन्तु अकबरशाहेन युद्धेन किं वा प्रयोजनम्?”
वीरेन्द्रसिहः क्रोधाविष्टः अवदत्– “अकबरशाहपक्षं नीत्वा कस्य सेनापतेरधीनं युद्धं करणीयमापतेत्? कस्य पक्षपातः करणीयः? सः मानसिंहः एव भविष्यति। गुरुदेव, शरीरेस्मिन् जीवति वीरेन्द्रसिंहेन कार्यमेतत् असम्भवम्।”
अभिरामस्वामी दुःखितः, मौनी अभवत्। कंचित् कालानन्तरं अपृच्छत्– “तर्हि किं पठानानां साहाय्ये तव श्रेयः?”
वीरेन्द्रसिहः– “पक्षापक्षनिर्णयः किमावश्यकः?”
अभिरामस्वामी– “आम्, प्रभेदः श्रेयः।”
वीरेन्द्रसिहः– “तदानीं पठानानां सहाकारितायां मम श्रेयः।”
अभिरामस्वामी दीर्घं निःश्वस्य तूष्णीमतिष्ठत्। तस्याक्षिणी अश्रुपूर्णे। इदं दृष्ट्वा विस्मयाविष्टः वीरेन्द्रसिहः उवाच– “गुरो, क्षम्यताम्। किं मया अज्ञानेन अपराधः कोपि आचरितः? अधुना भवानेव आज्ञापयतु।”
अभिरामस्वामी अङ्गवस्त्रेण अश्रूणि विमृज्यावदत्– “श्रुणु, बहुदिनेभ्यः अहं ज्योतिषगणनाया लग्नः। त्वयातिरिच्य तव कन्या मम स्नेहपात्रम्— त्वमिदं जानासि। स्वभावतः तामधिकृत्यैवाहं बहुधा गणनां कृतवान्।”
वीरेन्द्रसिहस्य मुखं म्लानम् जातम्। सः आग्रहेण परमहंसं अपृच्छत्– “किं दृष्टं गणनायाम्?”
परमहंसः अवदत्– “मुलगसेनापतेः तिलोत्तमायाः महदमङ्गलं घटिष्टतीति अपश्यम्।”
वीरेन्द्रसिहस्य मुखे कालिमा प्रासरत्।
अभिरामस्वामी अवदत्– “मुगलाः यावान् कालः विपक्षे तिष्ठन्ति, तावानेव तेभ्यः तिलोत्तमायाः अमङ्गलं सम्भवति। अत एव मुगलानां पक्षं ग्रहीतुमहं वदामि स्म। सर्वमेतदुक्त्वा तव मनः दावयितुं(?) (दूङ्-तुमुन्) नेच्छामि। मनुष्यस्य यत्नं विफलमेव, भाग्यलेखः अनिष्टकरः भवेत्; नो चेत् कुतो तव हठः भवेत्?”
वीरेन्द्रसिहः तूष्णीमभवत्। अभिरामस्वामी अवदत्– “वीरेन्द्र, द्वारे कल्लूखानस्य दूतः तिष्ठति। तं दृष्ट्वैवाहं त्वत्समीपमागतोऽस्मि। मम वारणेनैव द्वारपालाः अद्यावधि तं तवान्तिकं न प्रैषयन्। मम वक्तव्यमत्र समाप्यते। दूतमाहूय तं समाधत्स्व।”
वीरेन्द्रसिहः निःश्वस्य शिरः उत्थाय अवदत्– “गुरुदेव, यावदहं तिलोत्तमां नापश्यं, तावत् पुत्रीभावनया तां न स्मरामि स्म। अधुना तां विहाय मम लोके कोऽपि नास्ति। भवदाज्ञामहं शिरसि धारयामि– इतः पूर्वं उक्तानि वचनानि विसृजामि। मानसिंहस्य सहकारी भविष्यामि। दूतं प्रेषयत्विति द्वारपालं वदतु।”
आज्ञां प्राप्य द्वारपालः दूतं आह्वयत्। दूतः कल्लूखानस्य पत्रं अददात्। पत्रे लिखितमासीत्—वीरेन्द्रसिंहः सहस्रसंख्यकान् अश्वारूढान्, पञ्चसहस्रस्वर्णमुद्रान् च पठानस्य शिबिरं प्रापयतु, नो चेत् कल्लूखानः विंशतिसहस्रमितां सेनां गढमान्दारणं प्रेषयिष्यति इति।
वीरेन्द्रसिहः पत्रं पठित्वा उवाच– “दूत, तव प्रभुं प्रति वद- सेनां प्रेषयत्विति।” दूतः शिरः अवनमय्य प्रस्थितः।
पार्श्वे निलीय विमला आद्योपान्तं तं वार्तालापं अशृणोत्।
-----------------
दुर्गस्य भागे यत्र दुर्गमूलं क्षालयन्ती आमोदरनदी कलरवेण वहति, तत्र कस्यांचित् कक्ष्यायां गवाक्षे उपविश्य तिलोत्तमा नद्याः जले लघु-आवर्तान् (लघुतरङ्गान्) पश्यति स्म। सन्ध्यासमयः आसीत्। पश्चिमाकाशे अस्ताचलगामिनः सूर्यस्य म्लानकिरणैः काञ्चनकान्तिं धृतवद्भिः मेघैः सह, नीलाम्बरस्य प्रतिबिम्बः नदीजले प्रकम्पते स्म। नद्याः पारे स्थिताः अट्टालिकाः, महावृक्षाश्च तिलोत्तमायाः(यै?) आकाशचित्राणीव दृश्यन्ते स्म। दुर्गे मयूरसारिकादिपक्षिगणः प्रफुल्लतया कलरवं कुर्वन्ति स्म। क्वचित् रात्र्यागमात् स्वनीडान् अन्वेषयन्तः विहंगमाः नीलाम्बराधः निःशब्दं डयन्ते स्म। अमरोईग्रामं कल्लोलयन् आमोदरस्य स्पर्शेन शीतलितः ग्रीष्मवायुः तिलोत्तमायाः अलकान्, कुन्तलान्, वस्त्रान् च प्रकम्पयन्ति स्म।
तिलोत्तमा सुन्दरी। हे पाठक, अपि भवान् कौमार्ये शान्त-धीर-कोमल-प्रकृतिकायाः कन्यायाः नवसञ्चारितं लावण्यं प्रेमपूरिताभ्यां अक्षिभ्यां दृष्टवान्? सकृत् दृष्ट्वा चिरजीवने यस्याः माधुर्यं न विस्मरणं गच्छेत्; कौमारे, यौवने प्रगल्भवयसि वा, कार्यं कुर्वन्, विश्रान्तौ, जागरितः, शयानः, वा वारं वारं या मनमोहनमूर्तिः स्मरणपथि स्वप्नवदायाति याति च, तथापि तां प्रति यथा लेशमात्रेणापि चित्तमालिन्यजन्या लालसा नोत्पद्येत, तद्विधां तरुणीं किं भवान् अपश्यत्? यदि अपश्यत्, तर्हि एव तिलोत्तमायाः अवयवस्वरूपं मनसि अनुभवतात्। या मूर्तिः सौन्दर्याराधकस्य मनः उत्तेजयति, या च लीलालावण्यादिना हृदये विषधरदन्तान् रोपयति, नैषा सा मूर्तिः। या मूर्तिः कोमलत्वमाधुर्यादिगुणैः चित्ते सन्तुष्टिमुत्पादयति- सैषा मूर्तिः। या मूर्तिः सन्ध्यासमीरणेन कम्पिता वसन्तलतेव स्मृत्यां तिष्ठति, सैषा मूर्तिः।
तिलोत्तमा एकाकिनी कक्ष्यायां गवाक्षसमीपे स्थित्वा कि करोति स्म? अपि सान्ध्यगगनशोभां पश्यति? एवं सति तस्य अक्षिणी भूमिं कुतः पश्यतः? अपि नद्यास्तीरे पुष्पेषु विहरन्तं वायुं सेवते? यद्येवं तर्हि तस्य ललाटे कुतः स्वेदबिन्दवः दृश्यन्ते? केवलं मुखपार्श्वे कुत्रचित् वायुः प्रसरति स्म। किं तर्हि सा गोचारणं पश्यति? न तच्च। गावस्तु शनैः शनैः सर्वे गृहं गताः। तदा किं पिककूजनस्वरं श्रुणोति? एवं तर्हि, तस्य मखे म्लानता कुतः? तिलोत्तमा न किमपि श्रुणोति, न किमपि पश्यति। केवलं चिन्तयति स्म।
दासी प्रदीपं प्रज्वाल्य आनयत्। तिलोत्तमायाः अक्षरज्ञानमासीत्/ तिलोत्तमा विद्यावती। सा अभिरामस्वामिनः संस्कृतं अशिक्षत। इदानीं ‘कादम्बरीं’ पठितुं प्रयतते स्म। किंचित् कालं पठित्वा विरक्ता पार्श्वे अस्थापयत्। अन्यत् पुस्तकं आनयत्– सुबन्धुकृता वासवदत्तेति। कदाचित् पठति, कदाचित् विचारयति, पुनः पठति, पुनः विचारे मज्जति। वासवदत्ता अपि तस्यै नारोचत। तत् प्रस्थाप्य गीतगोविन्दं पठितुमारभत। गीतगोविन्दं किञ्चित् अरोचत। तत् पठन्ती किञ्चित् विहस्य पुनः अस्थापयत्। ततः निष्क्रिया भूत्वा शय्यायां उपविशति स्म। पुरतः लेखिनी, मसिः (पत्राञ्जनं) च स्तः। अन्यमनस्का तया लेखिन्या शय्यामञ्चस्य पार्श्वकाष्ठफलके क, ल, म, गृहं, द्वारः, वृक्षः, मनुष्यः इत्यादि लिखितुमारभत। शनैः शनैः मञ्चस्य पार्श्वः मसेः अक्षरैः पूर्णः /व्याप्नोत्। यदा तत्र लिखितुं स्थलं न शिष्टं तदा चैतन्यवत्यभवत्। स्वस्य कार्यं दृष्ट्वा किञ्चित् विहस्य, पुनः यल्लिखितं तत् विहसन्ती अपठत्– वासवदत्ता, महाश्वेता, क, ई, इ, प, एकः वृक्षः, शिवः, गीतगोविन्दं, विमला, लता-पत्रं, सर्वनामः... अग्रे किमलिखत्?
कुमारः जगत्सिंहः
लज्जया तिलोत्तमायाः मखे रक्तवर्णः आश्नुत। बुद्धिहीने, कक्ष्यायां कः अस्ति, यस्य पुरतः लज्जा भवेत्?
“कुमारः जगत्सिंहः” –तिलोत्तमा द्विवारं, त्रिवारं, बहुधा अपठत्। द्वारं पश्यति स्म, पुनः पठति स्म। पश्यति, पठति च। यथा चोरः किञ्चित् चोरयतीव।
चिरं पठितुं धैर्यं नासीत्। सा तूर्णं जलेन लिखितं सर्वं अक्षालयत्। क्षालनेन असन्तुष्टा पुनः सर्वं वस्त्रेण सम्यक् अमार्जयत्। ततः पर्यैक्षत, कुत्रचित् मसेः कालिका नावशिष्येत् इति। तथापि एवं आभाति स्म, यथा अद्यापि पठितुं शक्यते इति। पुनः जलेन अक्षालयत्, वस्त्रेण अमार्जयत्.. तथापि भाति स्म, यथा लिखितमस्ति-
कुमारः जगत्सिंहः
-----------------
विमला अभिरामस्वामिनः कक्ष्यायां अतिष्ठत्। अभिरामस्वामी भूमौ समुचितासने उपाविशत्। जगत्सिंहेन सह यथा विमलायाः तिलत्तमायाश्च मेलनमभवत्, तत्सर्वं आद्योपान्तं विमला अभिरामस्वामिनं श्रावयति स्म। सर्वं कथयित्वा सा अवदत्– “अद्य चतुर्दशतमदिवसः। श्वः पक्षकालः समाप्तिमेष्यति।” इति।
अभिरामस्वामी उवाच– “किं त्वया निश्चितमिदानीम्?”
विमला समाधत्त– “समुचितपरामर्शनाय एव भवत्समीपमायाम्।”
अभिरामस्वामी उवाच– “बाढम्। तदानीं, अस्य विषयस्य मनसि स्थानं मा भवत्विति मे परमर्शः।”
विमला बहुदुःखिता भूत्वा तूष्णीं स्थिता।
अभिरामस्वामी अपृच्छत्– “कुतो दुःखिता?”
विमला समाधत्त– “तिलोत्तमायाः किं वा भविष्यति?”
अभिरामस्वामी सविस्मयमपृच्छत्– “किं तिलोत्तमायाः मनसि अनुरागः सञ्जनितः?”
विमला कंचित् कालपर्यन्तं मौनेन स्थित्वा पुनरवदत्– “किमहं वदेयं त्वाम्? अद्यावधि चतुर्दशदिनानि यावदहं तिलोत्तमायाः भावगतिं वीक्षे। तिलोत्तमायाः मनसि प्रगाढ अनुरागः सञ्जनितः इति मे भाति।”
परमहंसः किञ्चिद्विहस्य उवाच– “भवत्यः स्त्रियः। मनसि अनुरागलक्षणमात्रं दृष्ट्वा प्रगाढानुराग इति चिन्तयन्ति। विमले, तिलोत्तमायाः मनःसन्तोषाय चिन्ता मास्तु। बाल्यचापल्येन प्रथमदर्शनेनैव मनः चञ्चलं जातम्। अमुं प्रसङ्गं न कदापि प्रस्तौतु। तेन सा शीघ्रमेव जगत्सिंहं विस्मरिष्यति।”
विमला अवदत्– “नैव नहि। न तथा प्रभो, तल्लक्षणं नास्ति। पक्षकालेनैव तिलोत्तमायाः स्वभावः परिवर्तितः। सम्प्रति तिलोत्तमा मया, सखिभिश्च सह पूर्ववत् सपरिहासं न भाषते। नाधिकं वदत्यपि। तस्याः पुस्तकानि पर्यङ्कस्याधः पतितानि सन्ति। तस्याः पुष्पवाटिका (पुष्पवृक्षाः?) जलाभावात् शुष्का। अपि च सा चटकैः सह न पूर्वमिव सँल्लपते। सा स्वयं न भुङ्क्ते, न च रात्रौ निद्रामेति। सा शृङ्गार-सज्जादिकं न करोति। इतः पूर्वं न कदाचित् सा चिन्तिता भवति स्म। साम्प्रतं न जाने, कस्यां चिन्तायां मज्जति सा। तस्य मुखे चिन्तारेखाः व्यापृताः।”
कथांशावलिः-30
तच्छ्रुत्वा अभिरामस्वामी तूष्मीमभवत्। बहुकालानन्तरं सोऽवदत्– “केवलं दर्शनमात्रेण प्रगाढानुरागो नोत्पद्यते इति भावयामि स्म। तथापि स्त्रीचरित्रं, तत्रापि बालाचरित्रं विशेषतः ईश्वरो जानातु। किन्त्वहं किं करवाणि? वीरेन्द्रः नाङ्गीकरिष्यति।”
विमला अवदत्– “अनेनैवाशङ्किताहं नाद्य यावत् किञ्चिदवदम्। मन्दिरेऽपि जगत्सिंहं अस्याः परिचयं नावदम्। यदि सम्प्रति सिंहमहाशयो...” इति वदन्त्या विमलायाः मुखभावः परिवर्तितः। “..यदि सिंहमहाशयो मानसिंहेन मित्रत्वं कुर्यात्, तदा जगत्सिंहं जामातरं कर्तुं न काप्यापत्तिः।”
अभिरामस्वामी– “मानसिंहः कुतः सन्धिमिच्छेत्?”
विमला– “तदा, यवराजः स्वाधीनः।”
अभिरामस्वामी– “जगत्सिंहः कुतो वीरेन्द्रसिंहस्य कन्यां उद्वहेत्?”
विमला– “जात्याः कुलस्य वा दोषः द्वयोः पक्षयोः नास्ति। जयधरसिंहस्य पूर्वपुरुषा अपि यदुवंशीयाः आसन्।”
अभिरामस्वामी– “यदुवंशीयानां कन्या मुसलमानस्य श्यालस्य पुत्रेण कथं विवाहयोग्या?”
विमला उदासीनेव स्थिरदृष्ट्या उवाच– “कुतो न? यदुवंशीयानां कुलं कमुपेक्षायोग्यम्?”
उक्त्यानया क्रोधितस्य परमहंसस्य अक्षिभ्यां अग्निकणानि प्रास्फुटन् । सः कठिनस्वरेणाकथयत्– “पापिनि, स्वस्याभाग्यं त्वया किं न विस्मृतम्? निर्गच्छातः!”
-----------------
पितृसकाशात् ससैन्यं निर्गमनानन्तरं जगत्सिंहः यद्यत्कार्यमकरोत्, तेन पठानसेनासु महाभयः सञ्चारितः। कुमारः एवं प्रत्यजानत्- पञ्चसहस्रमितां सेनां नीत्वा कल्लूखानस्य पञ्चाशत्सहस्रमितसैनिकान् सुवर्णरेखां पारयिष्यामीति। किन्तु अद्यावधि सफलतायाः सम्भावना न तेन दर्शिता। तथापि सैन्यावासात् (=छावनी) निर्गत्य सप्ताहद्वये यद्वीरत्वं तेन प्रदर्शितं, तद्दृष्ट्वा मानसिंहः अवादीत्– “मत्कुमारेण राजपुत्राणां पूर्वयशः पुनरुद्दीप्यते।” इति।
जगत्सिंहः निश्चयेन जानाति स्म– पञ्चसहस्रमितसेनया पञ्चाशत्सहस्रमितसेनायाः पराजयः सङ्ग्रामे कथंचिदपि असाध्य इति, स्वस्य अपजयो वा मृत्युर्वा निश्चित इति। अतः सः तथा व्यूहमरचयत्, यथा साक्षात् सम्मुखेन सङ्ग्रामो नाभविष्यत्। सः स्वस्य सेनां सर्वदा गोपयित्वा स्थापयति स्म। कदाचित् घने वने, कदाचिच्च असमतलभूमौ, यत्र समुद्रतरङ्गा इव कुत्रचित् भूमिः निम्ना, कुत्रचिच्च उत्तुङ्गा भवति। तेन कोऽपि बहिष्टात् तस्य सेनां लक्षयितुं न पारयति स्म। एवं प्रच्छद्य यदा कदाचित् पठानानां सेनायाः संकेतमधिगच्छति, तस्यां विद्युद्पातवत् सवेगं पतित्वा तां आन्तं व्यापादयति स्म। तस्य बहवो गूढचारिण आसन्। ते सर्वे फल-कन्द-मूल-मत्स्यादि विक्रयणव्याजेन वा, भिक्षुक-वैरागी-ब्राह्मण-वैद्यादीनां वेषे नैकस्थानेषु भ्रमणं कुर्वन्तः पठानसेनायाः गतिविधेः भेदान् सञ्चिन्वन्ति स्म। समाचरं प्राप्य सपद्येव जगत्सिंहः बहुसावधानतया क्षिप्रं /द्रुतं (=फुर्ती से) सेनां तत्स्थाने छादयति स्म, यत्र सा सेना स्वस्मिन् आक्रामयतां (आक्रमणकाराणां) पठानानां सदक्षं आक्रान्तुं शक्नुयुः। यदि पठानसेना सङ्खायामधिका भवेत्, तदा जगत्सिंहः तस्यां प्रत्यक्षमाक्रमणं कर्तुं न प्रयतते स्म। यतो हि स जानाति, वर्तमानस्थितौ सकृदपि युद्धे पराजिते सति सर्वं नश्येत्। तदा पठानसेनायाः निर्गतौ, सा सेना सावधानं तमनुगत्य (पृष्ठे चलित्वा) तेषां आवश्यकीं सामग्रीं– अश्वान्, प्रक्षेपण्यः इत्यादिं– हृत्वा प्रत्यागच्छति स्म। यदि पठानसेना नाधिका, निर्बला च भवेत्, यावत्पर्यन्तं सा सेना जगत्सिंहस्य सैनिकानां लक्ष्यं नाप्नुयात्, तावत् ते स्वयं गुप्तस्थाने तिष्ठन्ति स्म। ततः अवसरं प्राप्य बुभुक्षिता सिंहा इव वैरिसेनां आक्रम्य, निर्भाग्यान् पठानान् खण्डशः भञ्जयन्ति स्म। तदा पठानाः, ‘शत्रवः समीपे स्थिताः’ इति न जानन्ति स्म। अतः ते युद्धाय सन्नद्धा अभूत्वा निश्चिन्ताः तिष्ठन्ति स्म। एवं सहसा मारणेन अरिवर्गः विना युद्धं प्राणान् मुञ्चन्ति स्म।
एवं भूयिष्ठा पठानसेना व्यापादिता। पठानाः बहुसम्भ्रान्ताः बभूवुः। ते सर्वे सम्मुखे सङ्ग्रामे जगत्सिंहस्य सेनां विनाशयितुं यत्नानि कारयामासुः। किन्तु कोऽपि न जानाति स्म– सा सेना कुत्रास्ति इति। केवलं यमदूता इव ते सैनिकाः पठानसेनायाः मृत्युसमये सकृदेव दृश्यन्ते, पुनः मारणकर्मानन्तरं अन्तर्दधते च। जगत्सिंहः रणे कुशलः। सः पञ्चसहस्रान् सैनिकान् कदाचित् एकत्र न वासयति स्म। क्वचित् सहस्रं, कुत्रचित् पञ्चशतं, क्वचित् द्विशतं, कुत्रचित् द्विसहस्रं– तथा खण्डशः यत्रकुत्रचित् आसयति स्म। शत्रूणां वासस्थानं प्राप्य सपदि तत्र यथावश्यकं सेनां प्रेषयति स्म। कार्यसमाप्तौ तत्र सेनां न वासयति स्म। राजपुत्राः कुत्र सन्तीति पठानाः न किमपि अवबुध्यन्ति स्म। कल्लूखानस्यान्तिकं तस्य सेनायाः नाशसमाचारः आयाति स्म। प्रातः, मध्याह्मे, सायंकाले सर्वदा– अमङ्गलकरः समाचारः एव आयाति। परिणामतः यस्मै कस्मै अपि कार्याय पठानसेनायाः दुर्गात् बहिर्गमनं दुर्गममभवत्। लुण्ठनं-आच्छिन्दनं ? (धनादीनां बलात्ग्रहणं) स्थगितम्। पठानसेना दुर्गे अचलस्थितिं प्राप्नोत्। आहारसङ्ग्रहणायापि काठिन्यमापतितम्। शत्रुपीडितस्य प्रदेशस्य सुशासितत्वसमाचारं प्राप्य महाराजः मानसिंहः पुत्रमलिखत्–
“कुलतिलक, पठानेभ्यः त्वया राज्याधिकारः निर्ह्रियते इति जानामि। अतः त्वत्साहाय्यार्थं दशसहस्रसैनिकान् प्रेषयामि।” इति।
युवराजः प्रत्यवदत्– “यथा महाराजस्येच्छा। यदि सेना अतिरिच्य भवति, तदा बाढम्। नो चेत्, पितृचरणानामाशीर्भिः दश-पञ्च-सहस्रमितसैनिकैरेव सेवकोऽयं क्षत्रियकुलोचितां प्रतिज्ञां पालयिष्यति।” इति।
कुमारः वीरभद्र (रुद्रस्य गणाध्यक्ष) इव मत्तः विनारोधं रणे विजयति स्म। शैलेश्वर, तव मन्दिरे यस्याः सुन्दर्याः सरलदृष्ट्या योद्धायं पराजितः, तां सुन्दरीं अस्मिन् सेनासम्भ्रमेऽपि (कल्लोले) सकृदपि विस्मृतः? यदि स्थानं न स्मरति, तर्हि जगत्सिंहः त्वादृशः अश्मा एव।
-----------------
यस्मिन् दिने अभिरामस्वामी विमलायै अभिक्रुध्य तां गृहात् व्यवासयत्, तत्परस्मिन् दिने सन्ध्यायां विमला कक्ष्यायामुपविश्य शृङ्गारं कुर्वन्ती स्थिता। (अत्र द्वयोः परिच्छेदयोः विमलायाः सौन्दर्यविलासादीनां वर्णनं वर्तते। कथागमने अनावश्यकत्वात् त्यज्यते स भागः।)
विमला अलङ्कृत्य तिलोत्तमायाः कक्ष्यायां प्राविशत्। तिलोत्तमा सविस्मयं हसित्वा अपृच्छत्– “अयि विमले, कुतोऽयं शृङ्गारः?”
विमला उवाच– “किं तवानेन?”
तिलोत्तमा– “सत्यं वद, कुत्र गन्तासि?”
विमला– “कुतोऽहं त्वां वक्ष्ये, यत्रकुत्रचित् गच्छेयम्”।
तिलोत्तमा निरुत्तराभवत्। विमला तस्याः लज्जां दृष्ट्वा सकरुणं हसित्वा अवदत– “बहुदूरं गच्छमायहम्”।
तिलोत्तमायाः मुखं विफुल्लपद्ममिव प्रसन्नतया व्यकसत्। सा मृदुनि स्वरे अपृच्छत्– “कुत्र गच्छसि?”
विमला तथैव मुखं संयम्य सहासमवदत्– “ननु वदामि बाले..” इति। तिलोत्तमा तन्मुखं पश्यन्ती अतिष्ठत्। विमला तस्याः हस्त गृहीत्वा “श्रुणु” इति तां गवाक्षस्य समीपं अनयत्। तत्र सा तस्याः कर्णौ मन्दमवदत्– “शैलेश्वरमन्दिरं गच्छाम्यहम्। तत्र केनचित् राजपुत्रेण समासदोऽस्ति।
तिलोत्तमायाः शरीरं रामोञ्चितमभवत्। सा किमपि न अवदत्।
विमला उवाच– “अभिरामस्वामिना मद्वार्तालापो जातः। स्वामिनः मते जगत्सिंहेन सह तव विवाह असम्भवः। तव पिता कथंचिदपि नाङ्गीकरिष्यति। तत्सम्मुखे इमां वार्तां प्रस्तुमः चेद् ताडनं भविष्यति।”
“कुतस्तर्हि?” तिलोत्तमा शिरः अवनमय्य अस्फुटस्वरेण भूमिं पश्यन्ती अपृच्छत्– “कुतस्तर्हि?”
विमला– “गच्छाम्यहम्। यावन्नागमिष्यामि, तावन्मा शेष्व।... तं राजपुत्रमहं वाग्दानं कृतवती। अद्य रात्रौ समागत्य परिचयं दास्यामीति। किं परिचयमात्रेण? किञ्चित् परिचयं ददानि, तदा कर्तव्याकर्तव्यं तेन निश्चीयते। यदि राजपुत्रः त्वय्यनुरक्तः... तर्हि..”
तिलोत्तमा तन्मुखं स्वस्याञ्चलेन पिधायावदत्– “त्वद्वचनेन लज्जामनुभवामि। यत्रकुत्रचित्तवेच्छा, गच्छ। मद्विषयं न कुत्रचित् वक्तव्यम्। अपि च मत्पुरतः न कस्यापि विषये वद।”
विमला– “तर्हि कुतस्त्वं अल्पे वयसि समुद्रेऽस्मिन् प्लविता?”
तिलोत्तमा– “किञ्चिदन्यत् नाहं श्रोष्यामि। गच्छ त्वम्।”
विमला– “गच्छानि मन्दिरम् तर्हि।”
तिलोत्तमा– “किमहं त्वां अवरुन्धे? गच्छ यथेष्टम्।”
विमला किञ्चित् विहस्य– “तर्हि मन्दिरमहं न गच्छामि।”
तिलोत्तमा पुनः मस्तकं नत्वा उवाच– “ननु याहि..”
विमला भूयः हसित्वा कञ्चित् कालानन्तरं प्रत्यवदत्– “यामि किल। यावन्न प्रत्यागमिष्यामि तावन्मा स्वपिहि।”
तिलोत्तमा ईषदहसत्। तदर्थः ‘निद्रा कुतः?’ इति। विमला तदवागच्छत्। गमनसमये विमला तस्य शिरसि हस्तं निधाय, अन्येन हस्तेन चिबुकं गृहीत्वा किञ्चित् सप्रेम दृष्ट्वा तन्मुखं चुचुम्ब। तिलोत्तमा यानसमये तस्याः अक्ष्णोः अश्रूणि अपश्यत्।
कक्ष्यायाः द्वारसमीपमागत्य आसमानी विमलामवदत्– “स्वामी त्वामाह्वयति।”
इत्थं श्रुत्वा तिलोत्तमा विमलां उपसृत्यावदत् रहसि, तस्याः कर्णौ– “वेशं परिवर्त्य गच्छ।”
इति।
विमला प्रत्यवादीत्– “मास्तु भयः”।
विमला वीरेन्द्रसिंहस्य शयनागारं अयात्। तत्र वीरेन्द्रसिंहः शयितः। काचित् दासी पादं संवाहयन्ती, अन्या पवनं वीजयन्ती आस्ताम्। उपपर्यङ्कं गत्वा विमलोवाच– “का मे आज्ञा?”
वीरेन्द्रसिंहः मूर्धानमुत्थाय आश्चर्योपहतः अपृच्छत् – “विमले, किं केनापि कार्येण बहिर्गच्छसि?”
विमला– “आम्। का मे आज्ञा?”
वीरेन्द्रसिंहः– “तिलोत्तमा कथमस्ति? सा अस्वस्था आसीत्। अप्यद्य स्वस्था जाता?”
विमला– “आम्। स्वस्थास्ति।”
वीरेन्द्रसिंहः– “त्वं तावत् मे वीजनं विधूनुहि(?)। आसमानी तिलोत्तमां मत्समीपं आनीयताम्। वीजनं विधुवन्ती दासी वीजनं स्थापयित्वा निरयात्।
विमला आसमानीं किञ्चित् बहिः तिष्ठेति संकेतमकरोत्। वीरेन्द्रः अन्यां दासीमवोचत्– “लछमनि, त्वं मदर्थं ताम्बूलं सिद्धं कुरु।” ततः पादं संवाहयन्ती दास्यपि निर्गता।
वीरेन्द्रसिंहः– “विमले, तवाद्यायं वेशः कुतः?”
विमला– “आवश्यकम् मे।”
वीरेन्द्रसिंहः– “तावदहमपि श्रुणवानि, केयमावश्यकातेति।”
विमला– “श्रुणोतु।” इति शंसन्ती विमला स्वस्य मन्मथशय्यावत् यदक्षिद्वयं तेन वीरेन्द्रं पश्यन्त्यवदत्– “श्रुणोतु। अहमिदानीं अभिसर्तुं यास्यामि।”
वीरेन्द्रसिंहः– “अपि यमेन सह?”
विमला– “कुतः? किं मनुष्येन सहासम्भवः?”
वीरेन्द्रसिंहः– “स अद्यावधि नोत्पन्नः।”
विमला–
“एकं विहाय।” इत्थं वदन्ती विमला सवेगं निरगच्छत्।
अथ विमलायाः संकेतं प्राप्य आसमानी बहिः प्रतीक्षते स्म। विमला आगत्य तामवदत्– “आसमानि, त्वय किञ्चित् रहः वक्तव्यम्।”
आसमानी– “तव वेशमलङ्करणं च लक्षयित्वा विचारयामि, कोऽद्य विशेषः? इति।”
विमला– “अद्याहं किञ्चित्कार्यवशात् दूराधिक्यं यास्यामि। रात्रौ एकाकिनी गन्तुं न पारयामि। त्वां विहाय नान्यान् विश्वसितुं, मया सह नेतुं वा न शक्नोमि। त्वया, मया सहागन्तव्यम्।”
आसमानी– “कुत्र यास्यसि?”
विमला– “आसमानि, त्वं इतः पूर्वं नैवं प्रश्नान् करोषि स्म।”
आसमानी निश्चेष्टा (अप्रतिभा) भूत्वा अवदत्– “तर्हि तिष्ठ, किञ्चित् कार्यं समाप्यागमिष्यामि।”
विमला– “अन्यच्चास्ति किचित्। यद्यद्य केनचित् दृष्टपूर्वेण (पूर्वमेलितेन, अतीतकाल-सम्बन्धिना) पुरुषेण समागमिष्यसि, तर्हि किं सः त्वां अभिज्ञास्यति?”
आसमानी सविस्मयं अपृच्छत्– “कुत इदम् (पृच्छसि)?”
विमला– “कुतः किम्? विचारय, यदि कुमारेण जगत्सिंहेन समागमिष्यसि, तर्हि किं सः त्वामभिज्ञास्यति?”
कंचित् कालं आसमानी तूष्णीं स्थिता। किञ्चित् विचार्यावदत्– “कुतो नाभिज्ञास्यति? परंतु, किं सौभाग्यमिदं प्राप्नवम्?”
विमला गम्भीरस्वरेणावदत्– “तर्हि त्वां न नेष्यामि। तथापि नाहमेकाकिनी गन्तुं पारयामि। अतः कंचिदन्यं मया सह नेष्यामि।”
आसमानी परिहासाय मुखं म्लानं कृत्वा, जगत्सिंहं द्रष्टुमिच्छामीति अवदत्, उक्त्वा अहसच्च। एवं तां हसन्तीं दृष्ट्वा क्रोधं रूपयन्ती भ्रुवौ वक्रीकृत्योवाच– “द्रष्टुमिच्छा चेदहं किं करिष्ये? चपले, व्यर्थं हससि।”
आसमानी– “अस्तु, दिग्गजं त्वया सह गमयिष्यामि। यदि स मूर्खः सहितो भवति, तेन न कापि हानिः।”
विमला अवदत्– “आम्, साध्विदम्। रसिकराजं सह नेष्यामि। तस्मिन् अहं विश्वसिमि ।”