✍प्रस्तावविषयः-- गीतासारः🌷
प्रस्थानत्रयेष्वन्यतमो गीताग्रन्थः वेदान्तविज्ञानप्रदाता, ब्रह्मज्ञानदाता च राराजते। ‘गीता मे परमा विद्या ब्रह्मरूपा न संशयः’। इति गीतामाहात्म्ये उक्तिरस्ति। गीतामातुः सन्देशः सुस्पष्टः। गीतामाहात्म्यकथनसन्दर्भे स ग्रन्थः पारमार्थिकप्रयोजनवानिति निरूपितं च। अथापि बहवः मूर्खाः मोक्षदायिनीं परमां विद्यां तां लौकिकदृष्ट्या पश्यन्ति, तत्र हिंसाभावः प्रेरितः इति वदन्ति। अर्जुनः यदा समराङ्गणे बन्धुप्रेम्णाभिभूतः सन् युद्धविमुखः जातः, तदा तस्य कर्तव्यबोधनाय स्वधर्मपालनाय च श्रीकृष्णेनमुखोद्गीता ज्ञानसरिदियम्। दुष्टानां नाशः एव कर्तव्यः, न तेषामुपेक्षेति श्रीरामस्य, श्रीकृष्णस्य चाचरणेन वयं जानीमः। अहिंसा परमो धर्मः, सत्यम्। किन्तु यत्र धर्मरक्षणं विषयः, तत्र अधर्मपराणां हननमेव उपायः, नान्यः मार्गः सनातनधर्मोद्दिष्टः।
किमर्थं व्यर्थं चिन्तयसि, कः त्वां नाशयितुं शक्नोति, परिवर्तनं संसारनियमश्चेत्यादिकं किञ्चित् हिन्दीभाषायां गीतासाररूपेण प्रचलति देशे। भारतदेशस्य दुर्भागयमिदं, महान् क्लेशश्चायं सन्दर्भः यत् साक्षात् गीताग्रन्थं हस्ते निधायापि न किञ्चिदवगच्छन्ति जनाः। येन केनापि अवगतिरहितेन यत्किञ्चदुक्तं तदेव ग्रन्थे आरोप्य तस्मिन्नेव महतीं श्रद्धां कुर्वन्ति सामान्याः। गृहेषु भित्तिषु सर्वत्र गीतासारनाम्ना अवलम्बते कश्चित् पत्रविशेषः यद् दृष्ट्वा वयं तद्गृहं आध्यात्मिकमिति मन्यामहे। किन्तु नैतत् सत्यम्।
गीतासारस्तु निष्पक्षपातपूर्वकं कर्तव्याचरणे, धर्माधर्मज्ञानावबोधने, आत्मानात्मविवेके, भक्ति-योग-साङ्ख्यादि-दर्शनविज्ञाने चास्ति। गुरुमुखतः श्रवणेन, तदर्थमननेन च गीताचार्यस्योक्तयः जीवने उपयोगकारकाः भवन्ति॥