8. विषयः -- दूरदर्शिनी
आधुनिकसमये दूरदर्शिनीरहितं गृहं वा आवासक्षेत्रं वा ऊहितुमपि न शक्नुमः। दृश्य-श्रव्ययोगेन वक्तव्यं वस्तु सुस्पष्टं जनानां मानसानि यथा प्रविशेत् तथा प्रदर्शनाय व्यवस्थां करोति एषा मायापेटिका। दूरदर्शिनी-स्थानके निर्मितानां कार्यक्रमाणाम् अदृष्टाः तरङ्गाः वायौ प्रक्षेपिताः (प्रसारिताः) भूत्वा दूरदर्शिनीयन्त्रं प्रविश्य दृश्यश्रव्यचित्ररूपेण चक्षुगोचराः भवन्ति। दूरदर्शिनी पूर्वं श्वेतश्याम-इति द्विवर्णकमात्रं भवति स्म। इदानीं तद्यन्त्रं सर्ववर्णकं भवति यत्र चलचित्राणि नानाविधवर्णेषु दृश्यन्ते। वैज्ञानिकविषयानां, सामाजिकोपयोगिविषयानां, शिक्षा-प्रशिक्षणवस्तूनां नैके समाचाराः अनेन माध्यमेन काठिन्यं विना प्रसार्यन्ते। एकत्र चित्रनिर्माणं कृत्वा सर्वत्र तस्य प्रसारणं कर्तुं शक्यते। देशः विदेशः इति अवधिरपि अत्र नास्ति। बालानां, वृद्धानां, स्त्रीणां, विविधवृत्तिवर्गकार्यकर्तॄणां सामान्यजनानां कृते एषा विश्वदर्शिनी भूत्वा गृहे एव सर्वं जगत् दर्शयति। समीचीनोपयोगेन तद्वस्तु महोपकारं कुर्यात्, परन्तु आधुनिककाले तस्य हानिकारकप्रयोगेण महान् प्रलयः सम्भविष्येत् इव दृश्यते। युवजनाः, बालाश्च मानवमेधसे, हृदयाय च विनाशकारकभावानां पङ्के मज्जन्ते। नेदं हर्षास्पदम्।
--------------
9. विषयः -- दूरध्वनिः
दूरध्वनिः ध्वनिरूपेण गीत-प्रवचन-वार्ता-नाटक-सम्मुखादि-नानाविध-कार्याक्रमाणि प्रसारयति। अनेन यन्त्रेण दूरध्वनि-स्थानकात् प्रसारितानि कार्यक्रमाणि विद्युत्-अयस्कान्तीय-तरङ्गैः वायौ प्रक्षेपितानि भूत्वा अस्माभिः गृहे स्थित्वा श्रव्यरूपेण श्रूयन्ते। आकाशवाणीति नाम्ना प्रसिद्धमिदं साधनं दृश्येन विनापि साधारणजनानां कृते वरमिव वर्तते, यतो हि तत्र चक्षुर्भ्यां दर्शनस्यावश्यकता नास्ति। कार्यं कुर्वन्तोऽपि जनाः तत् विनाक्लेशं श्रोतुं शक्नुवन्ति येन कार्याणि स्थगितानि न भवन्ति। दूरदर्शन्याः अत्यन्तं विस्तृततया प्रवृत्तेः पश्चाद् अधुनापि महता आनन्देन दूरध्वनिप्रेमिणः दूरध्वनिं शृण्वन्ति। तत्र सर्वं ध्वनिरेव भवति। अतः दूरदर्शिन्यां दुष्टकार्यक्रमाणां दर्शनेन या हानिः घटते, सात्र न सम्भवति।
--------------
मेघशब्दश्रवणेन झटिति वयं धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः—इति कालिदासोक्तिं स्मरामः। मेहति सिञ्चतीति मेघः। मेघेन विना जलं, जलेन विना सस्यं, सस्येन विना अन्नं च न सम्भवन्ति। अतः मेघः एव अन्नस्योत्पादने प्रधानकारणम्। मेघाः नानाविधाकृतीः धृत्वा, कुत्रचित् गच्छन्तः यात्रिका इव, आकाशे विहरन्तः नित्यपथिका इव अत्यन्तं शोभन्ते। ते वायुना नीताः कुत्रचित् विहारयात्रां कर्तुं याता इव शनैः चरन्ति। सायंकालेषु, प्रातःसमयेषु च नैके मेघाः सम्मेलित्वा वायोः दिशि प्रयाताः, परस्परं सँल्लपन्तः इव दृश्यन्ते। नभसि क्षणं क्षणं रूपं परिवर्तयन्तस्ते, भगवता विश्वकर्त्रा क्षेपिताः तूलराशय इव दृश्यमानाः मोदयन्ति पश्यकान्। मेघान् दृष्ट्वा कवयः कवित्वं लिखन्ति, चित्रकाराः वर्णचित्राणि रचयन्ति, गीतकाराश्च गीतानि गायन्ति। न केवलं मानवाः अपि तु पक्षिणः, पशवोऽपि मेघगर्जनेन नन्दन्ति। वर्षागमनं सूचयत् मेघनादं श्रुत्वा मयूराः यन्नृत्यं कुर्वन्ति, तत् दृष्ट्वा कश्चित् चलचित्रगीतकविः एवं ऊहते- “मम कामना भवति, मयूरस्य पादयोः नूपुराणि धारयेयम्” इति।
--------------
धर्मार्थकाममोक्षाः चतुर्विधपुरुषार्थाः। तत्र धर्मसाधनाय विविधाः यज्ञ-होम-दान-व्रत-तपः-सेवादिमार्गाः उक्ताः सनातनधर्मग्रन्थेषु। ते सर्वे प्रयास-धनव्ययादिविविधैः क्लेशैः साध्याः। अतः प्रधानतया सर्वत्र सौलभ्यं, सौकर्यम्, अक्लिष्टसाध्यतामिच्छन्तः मानवाः धर्मार्जनाय तीर्थक्षेत्रसन्दर्शनमार्गमनुसरन्ति। तीर्थक्षेत्रं नाम अत्यन्तं पवित्रं स्थलम्। तीर्थमिति क्लीबशब्दः ‘तरति पापादिकं यस्मात्’ इति पुण्यस्थानादिं वाचयति। तीर्थतोयस्य स्नानेन पुण्यं वर्धते। तीर्थजलस्पर्शनमात्रेणापि पापक्षयो भवति। शरीरं, प्राणाः, मनश्च तीर्थसन्दर्शनेन शुद्धीभवन्ति। मनः परिशुद्धिं विना भक्तिः, ज्ञानं, योगो वा न साध्यन्ते। गङ्गातीर्थं सर्वस्मात् उत्तमं तीर्थम्। ‘तीर्थतोयं ततः पुण्यं गङ्गातोयं ततोऽधिकम्’ ॥ इत्याद्ये वह्निपुराणे स्नानविधिर्नामाध्याये उक्तम्। तीर्थं नाम प्रधानतया जलमेव। नदीपरिसरप्रान्तः समस्तः परमपावनो भवति। तीर्थक्षेत्रेषु देवालयाः वर्तन्ते, यत्र महाभाक्तानामुद्भवः समये समये भवति। ते तीर्थस्थाने लब्धजन्मानः भगवच्चिन्तने मग्नाः च जन्म सार्थकं कृत्वा तरन्ति, अन्यान् तारयन्ति च। तीर्थक्षेत्रवासस्तु महापुण्यफलरूपेण प्राप्यते।
--------------
सङ्गणकं यन्त्रम् आधुनिककाले महोपयोगि भवति। नैकानां कार्याणां साधकोऽयं यन्त्राणां राजा अद्य सर्वं जगत् सञ्चालयतीव दृश्यते। सम्यक् गणयतीति सङ्गणकमिति अस्य निर्माणकाले उच्येत स्म। साम्प्रतं तु न केवलं गणनाय, सङ्गणकोपयोगः बहुधा विस्तृतः। पुस्तकादि-लेखनाय, अनेकविध-गणनकार्याणां सम्पादनाय, चित्राणां चलचित्राणां च सन्दर्शनाय, गीतानां श्रवणार्थं, टङ्कितस्य वस्तुनः मुद्रणाय—इत्येवं अनेककार्याणां निर्वहणाय सङ्गणकम् उपयुज्यते। प्रभूतानि कार्याणि सङ्गणकेन साध्यन्ते। सर्वयोजन्याः आगमनसमनन्तरं अस्य यन्त्रस्य उपयोगः परमविस्तृतः अभवत्।
--------------
मनुष्यः पृथिव्यां सृष्टेषु समस्तप्राणिषु विशिष्टः। सः नैकेषु अंशेषु अन्यजन्तून् अतिरिच्य वरीवर्ति। तस्य शरीरनिर्माणमत्र प्रधानकारणम्। मानवशरीरं स्थूलसूक्ष्मकारणेति भेदेन त्रिविधमस्ति। स्थूलशरीरं शिरो-नेत्र-करचरणादिभिः अवयवैः सहितं चक्षुर्गोचरमस्ति। तत् स्प्रष्टुमपि शक्नुमः। तस्य पोषणं अन्नेन, जलेन, दुग्धेन, फलाहारादिना च भवति। किन्तु सूक्ष्मकारणशरीरे न तथा। सूक्ष्मशरीरं नाम, पञ्चकर्मेन्द्रियैः, पञ्चज्ञानेन्द्रियैः, मनोबुद्ध्यादि-अन्तःकरणचतुष्टयेन च संयुक्तं रूपम्। मनसः पोषणं च ध्यानादिना भवति इति सन्तः कथयन्ति। मातृपितृसंयोगेन प्राप्तमिदं नरस्य देहं भक्ति-ज्ञान-कर्म-योगादिभिः मार्गैः धर्मार्थकाममोक्ष-चतुर्विधपुरुषार्थानां साधनाय उपयुक्तं भवति। मानवमेधा अतीवसङ्क्लिष्टं वस्तु वर्तते लोके। तस्याः कार्याचरणविधानं विशिष्टं, असमानं च।
पुण्यकर्माचरणेन शरीरे अदृष्टा शक्तिः वर्धते। योगिनः प्राणायाम-ध्यानादिकर्मभिः परिपुष्य कायस्यास्य उत्कृष्टतमाम् उपयोगितास्थतिं साधयन्ति। तया स्थित्या ते लोकस्योपकारं कुर्वन्ति। मद्यपानादिसेवनेन केचन मन्दबुद्धयः महोत्कृष्टस्यास्य धर्मपरिकरस्य दुरुपयोगं कुर्वन्ति। तैः दुष्टाचरणैः, पापाचरणैश्च अस्य देहस्य शक्तिः क्रमेण क्षीणा भवति।
नदतीति नदी। आपः पवित्रं परमं पृथिव्यामिति किलार्योक्तिः। नित्यप्रवाहशीला सा तोयवाहिनी समस्तपरिसरप्रदेशान् पवित्रीकरोति। सा क्षेत्रेषु सस्यसंवर्धनार्थं भूमिसिञ्चनाय उपयुक्ता सती सर्वजीवेभ्यः अन्नप्रदात्री राराजते। वारिसमृद्ध्या दाहतापादिभ्यः उपशमनं ददती, सा दर्शनमात्रेण हृदयशान्तिं, चित्तशुद्धिं च प्रददाति। किं पुनः तस्यां मज्जनस्य, स्नानादीनां च महत्त्वस्य पृथक्कथनेन? गङ्गा-यमुना-नर्मदा-गोदावर्यादिनद्यः उत्तरदक्षिण-पूर्व-पश्चिमभारतस्य भूमिं पुनीतां कुर्वन्त्यः प्रवहन्ति। पुराणेषु बहुत्र नदीनां महत्त्वं, स्नानफलितं च नैकवारमुक्तम्। नद्यः कलकलनादेन श्रोत्रानन्दं, स्वच्छजलदर्शनेन नेत्रानन्दं, मधुरजलपाने रसानन्दं, उपस्पर्शनेन स्पर्शानन्दं, सिञ्चितायाः धरायाः मृत्तिकायाः सुगन्धेन घ्राणानन्दं चानुददति। पौर्णमास्यादि-पुण्यदिवसेषु जनाः नदीस्नानं कुर्वन्ति, शरीरस्य, मनसः च तापोपशमनं प्राप्य स्वजीवनं धन्यं कुर्वन्ति।
15. विषयः -- जनकः
जनयतीति जनकः। पिता जन्मप्रभृति सन्तानस्य संरक्षकः, परिपोषकश्च भवति। सः
पुत्रादीनां शरीरपोषणाय, आवासादिकल्पनाय धनमर्जति। बालकस्य गुरुतुल्यः सः। बाल्ये
गुरुकुलगमनात् पूर्वं विद्यां बोधयति। तस्य मनसि पुत्राय सहजं प्रेम उपजायते।
स्वक्लेशमविगणय्य सः नानाविधपीडीभ्यः बालं रक्षति। पितुः संरक्षणे स्थितः बालः
आत्मानं समस्तजगति सम्पद्वान्, बलवान्, शक्तिशाली च मन्यते। माता पिता च जगतीतले
भगवत्समानौ। पितृतुल्याः जनाः अन्ये चत्वारः जनाः सन्तीति श्लोकेऽस्मिन् उक्तम्।
जनिता चोपनेता च यश्च विद्यां प्रयच्छति ।
अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥
-------------------
16. विषयः -- पाठशाला
पाठशाला नाम यत्र विद्यां शिक्षां च प्राप्नुमः तत् स्थानम्। यः कश्चन सौधः, यत्किञ्चित्
निर्माणं वा पाठशाला न भवितुमर्हति। यत्र विद्यार्थिनः कृते भाविजीवनायोपयोगि
सर्वमावश्यकं वस्तुविज्ञानं प्रदीयते, यत्र शिक्षकाः विज्ञाने रताः बोधने आसक्ताः विद्यन्ते,
पठनपाठनादिभ्यः उपयुक्तं वस्तुसामग्री वर्तते, सुष्ठु अनाशासनं, साधुरूपेण सर्वा च
व्यवस्था भवति सैव पाठशालेति कथितुं शक्यते। विद्यार्थिनः पठनम्, अध्यापकाः पाठनम्,
अन्ये प्राशासानिक-कर्मचारिणः निर्वहणं, सेवकाः मार्जनादिकर्म- इत्येवं रीत्या
सर्वे जनाः पाठशालायां स्वस्वकर्म आचरन्ति। पाठशाला प्रतिदिनं प्रातःकाले
सुनिश्चितसमये घण्टानादेन आरभ्यते। ततः सभाप्राङ्गणे प्रार्थना, समाचारपठनं च
भवति। अथ सर्वे बालबालिकाः स्वस्वकक्ष्याः प्रविशन्ति। तत्र निर्दिष्टस्थलेषु
उपविश्य प्रत्येकं विषयमनुसृत्य प्रायः एकहोरामितकालं वा पादोनघण्टामितकालं वा
अध्यापकैः पाठितान् पाठान् पठन्ति। अध्यापकाः नीतिबोधनं, समाजशिक्षां, गणितं,
भाषाशिक्षणं, विज्ञानं च बोधयन्ति। मध्ये अर्धघण्टामितकालः भोजनविरामः भवति।
कदाचित् अध्यापकस्यानुपस्थितौ बालाः क्रीडाङ्गणे खेलन्ति। क्वचिच्च
गीतनृत्यादिशिक्षणमपि दीयते। प्रतिवर्षं वार्षिकोत्सवमपि पाठशालायां निर्वहन्ति।
कदाचित् विद्यार्थिनः कुत्रचित् पर्यटनायापि नयन्ति। एवं बाल्यकाले पाठशालायाः
प्रामुख्यं महद्भवति।
-------------------
17. विषयः -- पुष्पाणि
पुष्प्यति विकसति यत् तत् पुष्पम्। पुष्पमस्यां सृष्टौ समस्तवस्तुषु
सर्वसुन्दरं, सुकोमलं च वस्तुजातम्। अस्य रचनेन विधाता साक्षाद् आनन्दस्य
रूपकल्पनं कृतवानिव भाति। पुष्पदर्शनेन सर्वे मानवाः प्रायः तुष्यन्ति। तानि
नानावर्णकानि, विभिन्नरूपाकृतिकानि, विविधप्रकारकसुगन्धयुक्तानि च भवन्ति।
भ्रमराणां जीवभूतानि तरुप्रजातानि मृदूनीमानि वस्तूनि
प्रसून-कुसुम-सुम-इत्यादिनामभिः अभिधीयन्ते। एषां दर्शनेन, स्पर्शनेन वा
मानसोल्लासो जायते। देवानां षोडशोपचारपूजने, नित्यपूजायाम्, अतिथिसेवायां, महापुषाणां
साधुसज्जनानां चार्चन-पूजनादिषु पुष्पाणां मुख्यं कार्यं वर्तते। अलङ्करणाय,
प्रकोष्ठेषु, विवाहादिषु पुष्पाणि उपयुज्यन्ते। पुष्पप्रदानेन बालाः, युवतयः,
मातरः सर्वाः च तुष्यन्ति। स्वागत-सत्कारादि-कार्यक्रमेषु, सभासु गोष्ठीषु च पुरुषस्य
गौरवसम्पादनाय पुष्पगुच्छाः अनुदीयन्ते। कविभिः वर्णनपरैः च सौन्दर्यवर्णनं प्रायः
पुष्पानामुपामानेनैव क्रियते। पुष्पैः विना सृष्टिरियं वर्णविहीना अभविष्यत्।
-------------------
18. विषयः -- विवेकानन्दः
सनातनधर्मप्रचारकेषु, भारतीयतायाः प्रसारकेषु देशविदेशेषु विख्यातं नाम विवेकानन्दस्य। अयं पुरुषसिंहः रामकृष्णपरमहंसम् उपगम्य, भगवद्दर्शनप्राप्त्या तुष्टः सन् तस्य शिष्यत्वं स्वीकृतवान्। बाल्ये नरेन्द्रनाम्ना अभिहितोऽयं आगामिनिकाले विवेकानन्द इति अखिलविश्वस्मिन् प्रसिद्धो जातः। साधुपुङ्गवोऽयं वेदान्तदर्शनस्य, योग-भक्ति-कर्मादिमार्गानां च सुष्टु व्याख्यानं कृतवान्। अस्य प्रवचनैः युवजनानां हृदयानि अद्यापि उल्लासेन, उत्साहेन च परिपुष्टाः भवन्ति। ये निःस्पृहया, निरीहतया च दुःखभाजनाः भूत्वा मनःपीडामनुभवन्ति, तेऽपि अस्य वाणीं श्रुत्वा पुनः नूतनोत्तेजसा सम्पन्नाः भूत्वा जीवनसमराङ्गणाय सन्नद्धाः भवन्ति। देशसेवायै, धर्मसेवायै चायं महात्मा अविवाहितः अतिष्ठत्। अन्नपानादिरहितः, रोगादिना पीडितोऽपि क्लेशान् सहमानः अनेकान् त्यागान् कृतवान्। अस्य शिष्याः, अनुगामिनश्च बहुषु देशेषु सन्ति। अयमेव रामकृष्णामिशन्-इति गुरोः नाम्ना संस्थामेकामारब्धवान्। युगपुरुषस्यास्य महात्मनः विवेकानन्दस्योक्तीः, प्रवचनानि च अनेकपुस्तकेषु प्रकाशिताः सन्ति। अस्य जीवनकथामधिकृत्य काव्यान्यपि रचितानि।
-------------------
19. विषयः -- गुरुः
गुरुः
गृणाति उपदिशति वेदादिशास्त्राणि इन्द्रादि-देवेभ्यः इति, यद्वा गीर्यते स्तूयते देव-गन्धर्वमनुष्यादिभिः इति गुरुः। सत्सु गुरुशब्देनाभिहितेषु बहुष्वपि प्रायः सामान्यतया गुरुशब्देन ज्ञानप्रदाता आचार्य एव मनसि स्फुरति। देवेभ्योऽप्यतिरिच्य यः तिष्ठति, भुवौ सन्मार्गदर्शनेन नरमुत्तमलोकान् प्रापयति यः, सः गुरुः ब्रह्माविष्णुमहेश्वरतुल्य इति गुरुगीतायामुच्यते। गुरुपरम्परायां स्थित्वा सच्चिदानन्दचिन्तने निरन्तरं मग्नं गुरु समुपगम्य ज्ञानग्रहणेन यः जनः स्वजन्म सार्थकं करोति, सः पुनः संसारसागरे न पतति। गुरुसेवया महापुण्यं प्राप्यते। सनातनधर्मग्रन्थाः सर्वे गुरोः महिमानं वर्णयन्ति। सद्गुरुसन्निधिः कोटिजन्मनां पुण्येनैव लभ्यते। भगवान् बादरायणः, शङ्कराचार्यः इत्यादिनः बहवो आचार्यः सद्गुरवः सन्तः समुल्लसन्ति भारतभुवौ। न गुरोरधिकं तत्त्वं, न गुरोरधिकं तपः- इति उक्तिः सत्यमेव भाति। येषां गुरुः नास्ति, ते भगवन्तमेव गुरुरिति मत्वा पूजयन्ति। स्वप्नेपि कदापि विनोदायापि गुरुनिन्दा न कर्तव्या। यत्र गुरोः निन्दनं भवति ततः झटिति बहिः गन्तव्यम्। कदापि गुरोः अवमाननं न कर्तव्यम्। गुरौ कुप्यति देवोऽपि न रक्षति। वन्दे गुरुपरम्पराम्।
-------------------
20. विषयः -- चन्द्रः
चन्द्रः
चन्दयति आह्लादयति चन्दति दीप्यते इति वा चन्द्रः। नवग्रहेष्वन्यतमोऽयं ग्रहः शीतत्वप्रसादनाह्लादजननादिगुणैः लोके सुप्रख्यातः। रात्रौ राजा भूत्वा सूर्याभावे कान्तिं प्रसारयति। एषः नक्षत्राणां पतिरिति, सुन्दरः, नित्यधवलवस्त्रधारीति वर्णितः। शशचिह्नभृदयं शृङ्गाररसे मुख्यतमः उद्दीपनविभावः विराजते। नानाभाषासु, विविधप्रदेशेषु च, प्राचीनकालिकैः आधुनिकैश्च रचयितृभिः एषः विविधसंयोगविप्रयोगादिसन्दर्भेषु नैकेषु स्थलेषु उपमानरूपेण वर्णितः। साहित्यवाङ्मये, शास्त्रीये च, नानाविधनृत्यगीतादिषु कलासु, ज्योतिःशास्त्रेऽपि स्वर्लोकदेवानामन्यतमस्यास्य महान् उल्लेखो वर्तते। चन्द्रकान्तिः पूर्णिमायामतिशयेन प्रतिभाति, अमावास्यां च नितरां क्षीणा भवति। पार्वतीपतेः जटाजूटे अलङ्कृतस्यास्य षोडशकलाः सन्ति। प्रतिपदा-द्वितीयेत्यारभ्य पौर्णमीपर्यन्तमेकः पञ्चदशदिवसीयः पक्षः, पुनः तस्मिन्नेव क्रमे अमावास्यान्तः अपरः पक्षः च भवतः। पुराणेषु मनःकारकमिमधिकृत्य नैकाः कथाः उपवर्णिताः सन्ति। उत्पलानामानन्दकारकमिमं दर्शयित्वा मातरः शिशून् अन्नं खादयन्ति स्म। यन्त्रादिभिः परिवृताः साम्प्रतिकाः चन्द्रदर्शनसौख्यं, आह्लादभावं च विस्मृतवन्तः दृश्यन्ते।
21. प्रस्तावविषयः -- भाषा
भाषा
भाष्यते शास्त्रव्यवहारादिना प्रयुज्यते इति भाषा। भाषा एव मानवस्य पशोः च मध्ये भेदकः विषयः वर्तते। पुरुषाणां परस्परं सँल्लापाय, हृद्गतभावानां ज्ञापनाय, सम्भाषणाय, ज्ञानादान-प्रदानाय च भाषोपयुज्यते। भाषा लिखितरूपा, वचनरूपा चेति द्विविधा। लिखितरूपा पठ्यते, उक्तरूपा च श्रूयते। उक्तरूपायाः श्रवणेन वचनशक्तिर्वर्धते, लिखितरूपायाः पठनेन लेखनशक्तिश्च। भाषाव्यवहारेणैव मनुष्याणां अन्तःप्रकृतिः ज्ञायते। भाषया कस्यचित् पुरुषस्य प्रदेशः, सामाजिकस्तरः, विद्यावत्त्वं, जातीत्यादयः ज्ञायन्ते। रूपपरिवर्तनेन मानवः अन्यान् वञ्चितुं शक्नोति। परन्तु भाषया न कदापि तथा कर्तुं पारयति। बालः ज्येष्ठान् दृष्ट्वा, व्यवहारं पश्यन् भाषां क्रमेण गृह्णाति। लोकेऽस्मिन् विविधाः भाषाः सन्ति। संस्कृतं, प्राकृतमित्यादिभाषाः प्राचीनाः। तेलुगु-मराठी-तमिलादिभाषेत्यादयः आधुनिकाः।
-----------
22. प्रस्तावविषयः -- कृषिः
कृषिः नाम भूम्याः कर्षणेन कृषकैः क्रियमाणः सस्योत्पादनप्रयासः। कृषिकार्यमेव सर्वविधवाणिज्य-व्यापारादीनाम् आधारभूता वृत्तिः वर्तते। भूमिः हलेन खनिता बीजवपनाय संसिद्धा कार्यते। ततः उत्पादने सक्षमानि बीजानि भूमौ उप्यन्ते, सिच्यन्ते च। सिञ्चनेन जलं प्राप्य मृत्तिकायाः अधः स्थितं बीजं द्विपत्रात्मकं अङ्कुरं धारयति। अङ्कुरः धरायाः बहिरागत्य शनैः शनैः सूर्यप्रकाशं प्राप्य संवर्धते। अङ्कुरस्य तस्य क्रमेण ततोऽधिकानि पत्राणि जायन्ते। पत्राणां वर्धनेन अङ्कुरः वृक्षरूपं प्राप्नोति। ततः पुष्पाणि, ततश्च फलानि जायन्ते। प्रदेशमनुसृत्य, भूम्याः गुणमधिकृत्य, कालमाधृत्य च सस्यानि उत्पद्यन्ते। कृषेरेव सर्वप्रकारकं खाद्यं धान्यं, पुष्पाणि, फलानि, कार्पासः, तैलं, इक्षु इत्यादिसर्वमुत्पाद्यते। विविधवर्णपुपाणि, फलानि, धान्यं वा धारयन्तः समानपरमाणे लसन्तः लघुवृक्षाः दूरतः दृश्यमानाः महतीं शोभां भजन्ते। कृषकाः अहोरात्रं स्वसन्तानमिव भावयन्तः सस्यानां वर्धनं, रक्षणं च कुर्वन्ति। कृषिः प्रधानतया वर्षाधारिताः वृत्तिरस्ति। अतस्ते कृषकाः वरुणानुग्रहाय सम्प्रार्थ्य स्वप्रयत्नं कुर्वन्ति। अन्ते च फले प्राप्ते सस्यस्य विक्रयणेन धनं प्राप्यते। तदानीं ते महतानन्देन वैशाख्यादीन् उत्सवान् कुर्वन्ति। कृषितः नास्ति दुर्भिक्षमिति ह्यार्योक्तिः।
-----------
23. प्रस्तावविषयः -- जलम्
जलम्
अन्नेन विना पुरुषः जीवेत् कस्मैचित् कालाय, परन्तु जलं विना नातिदीर्घकालं सः प्राणैः युक्तो भवेत्। पृथ्व्यापस्तेजोवायुराकाशेति-भूतपञ्चके अन्यतमं जलमस्ति। वापी-कूप-तटाक-नदी-समुद्रादिः, वर्षञ्च अपां प्राप्तये स्थानानि सन्ति। समुद्रतोयं क्षारं भवति। नद्यादीनां तु नीरं मधुरम्। स्नानादिना शरीरशुद्धये, आरोग्यरक्षणाय, पानाय, पाकाय, सस्यानां संवर्धनाय, पूजनयजनोपासनादिकर्मभिः धर्मसाधनाय, नित्यजीवने अनेकानेक कार्येभ्यः च वारि उपयुक्तं भवति। आधुनिककाले भूगर्भस्थिताः आपः यन्त्रसाहाय्येन नालेन भूम्याः उपर्यानीयते।
-----------
24. प्रस्तावविषयः -- वायुः
वायुः
“वातीति वायुः। सः
पञ्चभूतान्तर्गतभूतविशेषः। स च सृष्टिकाले आकाशाज्जातः।” पञ्चभूतेष्वन्यतमः वायुः स्वर्लोकवासिषु
अन्यतमश्च। भीमः, हनूमान् च वायोः पुत्रः। वायुरेव प्राणः। सः प्राणापान-व्यानोदान-समान-रूपेण
पञ्चधा विभक्तः शरीरेषु सञ्चरति। तेन विना देहधारिणः कायानि धर्तुं न शक्नुवन्ति।
शरीरसञ्चालने अनिलस्य पात्रत्वमधिकं भवति। अन्नपाचनादिकार्येषु वातस्योपयोगोऽस्ति।
पवनः सर्वत्र वहति । तस्य स्पर्श एवास्ति, न किमपि रूपं, न कोऽपि गन्धो वा। सः तत्तत्प्रान्ते
स्थितानां वस्तूनां गन्धैः युक्तः सन् वहति। कदाचित् उपवनादिषु सञ्चरन् पुष्पादिभिः
सुगन्धैः युक्तः सौरभं वहन्, कदाचित् च पङ्कादिषु सञ्चरन् दुर्गन्धं च वहति।
परन्तु पुनः अग्रे सृत्वा गन्धहीनः निर्लिप्तश्च सञ्चरति। कदाचित् समीरः शनैः शनैः
सञ्चरति, कदाचिच्च झञ्झावातो भूत्वा अस्ताव्यस्तत्वं सर्वत्र प्रसरति। ग्रीष्मर्तौ
घर्मकाले मारुतसञ्चारेणैव जनाः उपशमनमनुभवन्ति। पवमानेन विना जीवलोकः जीवनं असाध्यम्।
-----------
25. प्रस्तावविषयः -- नृपः
नृपः
नृपः नाम नॄणां पालकः, राजा। राज्ये स्थितानां जनानां शत्रुजनैः रक्षणं, विद्या-आरोग्यादि-सेवाभिः तेषां पालनं च तस्य कार्यम्। धरणीपः भुवि साक्षात् इन्द्रस्यावतारः इति मन्यते। मनुः सर्वप्रथमः राजा भवति। प्रजा राज्ञा सन्तानमिव पालनीया वर्तते। भूपतिना प्रजाभ्यः करः स्वीकृत्य तेन धनेन तेषामुपयोगकारीणि कार्याणि क्रियन्ते। अधिपः सर्वप्रयत्नैः धर्मरक्षणं कुर्यात्। प्राचीनकाले भारते सूर्यचन्द्रादिवंशीयाः बहवो महान्तः महीपतयः धर्मानुशासनप्रियाः, लोकप्रियाः चावर्तन्त। ते स्वर्गमपि गन्तुं शक्नुवन्ति स्मेति कथाभिः ज्ञायते यथा दशरथः। राज्यशासनसमये अनुशासनविषये नराधिपेन काठिन्यतया व्यवहर्तव्यम्। अन्ये अधिकारिणः, मन्त्रिणः, सचिवाश्च तस्य प्रशासने साहाय्यं कुर्वन्ति, किन्तु निर्णयस्तु तेनैव स्वीकर्तव्यः। अतः धर्मः, शास्त्रं च तेन अवश्यं सम्यज्ज्ञातव्यम्। नरेशः दीनजनानां, कवि-पण्डित-शास्त्रज्ञ-कलाकाराणां च पोषकोऽपि भवेत्। न्यायप्रियः अवनीपतिः प्रजानां इष्टतमः। न्यायपालने स्वस्य पुत्रेणापि यदि अपराधः क्रियते, तर्हि तस्यापि दण्डनं निर्द्वन्द्वतया विहितव्यमेव। सिंहासने स्थितः सः सर्वैः आराधनभावनया दृश्यते, किन्तु राज्यधुरीं निर्वोढुं नृपतिना कियत् कष्टमनुभूयते इति स्वल्पा एव जनाः जानन्ति।
-----------
26. प्रस्तावविषयः -- धर्मः
धर्मः
“यतो धर्मस्ततो जयः” इति शास्त्रैः उद्घुष्यते। धारणाद्धर्म उच्यते। धर्मेण एव जगति सर्वं प्रचलति। धर्मः लोकेऽस्मिन् न केवलं मनुष्यानां अपि तु समस्तजीवजातानां सुखमयजीवनाय नियमनं करोति। धर्मेण विना अत्र किमपि न चलति। यत् तवेष्टं, तत् कुर्मः; नो चेत् यन्ममेष्टं तत् कुर्मः—इति चिन्तनेन सदा असन्तुलनं भवति। इष्टतायाः देश-काल-परिस्थिति-विभेदेन परिवर्तनशीलत्वात्। परिमितायुष्मता मानवेन केनचित् धर्मनियमनं न कृतम्। सर्वजनेभ्यः हितकारी शाश्वतकालाय अनुष्ठानयोग्यः धर्मः सनातनैः उक्तपूर्वः अद्यापि अस्माभिः अविच्छिन्नम् आचर्यते। साधारण-विशेष-आपद्धर्मरूपेण धर्मः अपि भिद्यते। कश्चन धर्मः साधारणपरिस्थितौ आचर्यते। पर्व-तीर्थादिविशेषस्थलेषु धर्मः विशिष्यते। आपत्काले धर्मगतिः स्थितिमनुसृत्य चलति। शास्त्राणि एव धर्मे प्रमाणम्।
------------------
27. प्रस्तावविषयः-- गङ्गा
गङ्गा
अस्यां भूमौ स्थितेषु सर्वतीर्थेषु गङ्गा पवित्रतमा। अत्र स्नात्वा यः कोऽपि न
केवलं पापैः विमुच्यते, अपि तु पुरुषस्य चित्तं शुद्धं, निर्मलं च भवति। निर्मले
मनसि भगवतः दर्शनं सम्भवति। भागीरथी, जाह्नवी इत्याद्यपरनामा एषा जीवनदी हिमालयात्
प्रभवति। ततः निःसृत्य सा यत्र यत्र प्रवहति तत्र भूमिं सुसम्पन्नां सुक्षेत्रवतीं
कुर्वती अग्रे सरति, अन्ते च समुद्रं सङ्गच्छति। सूर्यवंशीयो राजा भगीरथः पितॄणां
तर्पणाय सद्गतिप्राप्तये च महत् तपः कृत्वा, महता प्रयत्नेन च गङ्गां भूमाववातरत्।
त्रिषु लोकेषु प्रवहन्त्याः गङ्गायाः महिमा इतिहासपुराणेषु नैकधा उक्तः।
------------------
28. प्रस्तावविषयः-- वैद्यः
वैद्यः प्राणरक्षकः, आरोग्यस्य रक्षकः, स्वस्थतायाः पुनःप्रतिष्ठापकः च। रोगापकरणाय सः निरन्तरप्रयत्नशीलो वर्तते। वैद्यशास्त्रं सुलभं नास्ति। मानवकाये अनेकप्रकाराः अवयवाः सन्ति। शिरः आरभ्य पादपर्यन्तं नेत्रादयो सङ्क्लिष्टाः अवयवाः सन्ति। तेषां कार्यपद्धतिमाश्रित्य, निर्माणमाश्रित्य, रोगाणां आगमनेन तत्र जातो विघातः किंविधः इति ज्ञात्वा वैद्यः औषधं दत्त्वा, चिकित्सां कृत्वा तस्य अवयवस्य पुनःक्रियाशीलतां सम्पादयति। शरीरस्य स्वस्थता-संस्थापनाय साहाय्यं करोति। वैद्येन विना लोके जीवनमेव असाध्यम्। तस्याभावे शिशुजननादिकार्याण्यपि कठिनानि सञ्जायन्ते। सः आजीवनं स्वस्य सुखं परित्यज्य मानवसेवायामेव मग्नो भवति। वैद्यः स्वार्थी, लोभी, धनमत्तः, गर्विष्ठो वा न भवेत्। सः मृदुभाषी, क्षमावान्, परपीडा-संवेदनशीलश्च भवेत्। पुरा वैद्यशास्त्रेण सह सहनशीलत्वमपि बोधयन्ति स्म। आधुनिककाले धनलाभाय एव आङ्ग्लेय्य-वैद्यशास्त्राध्ययनं क्रियते इति महाखेदास्पदम्। आधुनिकवैद्याः केवलं प्रतिफलाकाङ्क्षिणः सहजमेव यमराजसहोदरत्वं निर्वहन्तः दृश्यन्ते।
------------------
29. प्रस्तावविषयः-- क्रीडा
आरोग्यरक्षणं व्यायाम-योगासनादिभिः साध्यते, किन्तु प्रौढानाम्। बालानां तु क्रीडामाध्यमेन तत् साध्यते। खेलनेन तेषामारोग्यं सुरक्षितं भवति। आदिनं क्रीडासु एव बालानां दृष्टिः भवति। ते हसन्तः, क्रीडन्तः, इतस्ततः धावन्तः नन्दन्ति। परस्परं सहकारेण खेलनसमये युक्तियुक्ताः भवन्ति। क्रीडनकैः खेलन्तस्ते जीवननिर्वाहाय आवश्यकं विज्ञानं प्राप्नुवन्ति। यावती सृजनशीला, रचनात्मिका, परिणता च मानवमेधा, तावत्यः क्रीडाः सन्ति लोके। विविधदेशेषु नानाविधाः क्रीडाः प्रचारे सन्ति। आधुनिककाले सङ्गणकक्रीडा अपि सन्ति, किन्तु तत्र शरीरव्यायामो न भवति।
------------------
30. प्रस्तावविषयः-- नाटकम्
नाटकम्
“नाटयतीति नाटकम्” यन्नाम पात्राणां माध्यमेन शृङ्गारादिरसभरितं किञ्चित्
प्रसिद्धं कथावस्तु वेदिकायां दृश्यश्रव्यमाध्यमेन साक्षात् दर्शकानां पुरतः
प्रदर्श्यते। तत्र न कोऽपि कथकः कथां पठति, कथयति वा, अपि तु केचन जनाः पात्राणि धृत्वा
सर्वं नाटयन्ति। ते परस्परं सँल्लपन्तः, घटनाक्रमं कञ्चित् निरूपयन्तः कथामग्रे
नयन्ति। कस्यचित् नाटककारेण विरचितां गद्य-पद्य-द्वयाकृतिकां कृतिमाश्रित्य तत्र
नायिका-नायकौ अथवा प्रधानपात्राणि, केचन अप्रधानपात्राणि च सन्ति। कथावस्तु
अनुसृत्य, सङ्घटनेषु स्वीयपात्रस्य निरूपणसमयञ्चानुसृत्य प्रत्येकं पात्रं वेदिकां
प्रविशति, अन्यैः संवादं कृत्वा, अथवा रचयित्रा यथा निर्दिष्टं तत्कार्यं कृत्वा
निर्गच्छति च। नाटकेषु नानाविधपात्राणि भवन्ति। हास्यपात्राणि, राजानः-राज्ञ्यः, सामाजिकाः,
सामान्यपुरुषाः स्त्रियः, बालाश्च पात्राणि भवन्ति। नाटके इतिवृत्तं कदाचित्
चारित्रकं, कल्पितं, कुटुम्बकथाचित्रणं, सामाजिकघटनाप्रधानं, सत्यघटनाधारितं,
सन्देशात्मकं, वा भवितुमर्हति। तत्र गीतं, नृत्यमपि भवितुमर्हति। अश्लीलं,
मनःक्लेशकरं, दर्शकानां चित्तघाटकं वा दृश्यं नाटके कदापि न भवेत्। “दुःखार्तानां
श्रमार्तानां शोकार्तानां तपस्विनाम् । विश्रान्तिजननं काले नाट्यमेतद्भविष्यति ॥
(१.११४. नाट्यशास्त्रम्)” इति वचनात् ज्ञायते इदं यत् नाटकं जनानां विनोदनाय
भवतीति। प्राचीननाटकानां आधुनिकनाटकानां च मध्ये महान् भेदोऽस्ति। कदाचित्
दूरध्वनौ श्रव्यनाटकान्यपि भवन्ति।