✍प्रस्तावविषयः– उत्कोचः❌

6 views
Skip to first unread message

Suneesh Namboodiri

unread,
Jan 11, 2018, 8:22:17 AM1/11/18
to संस्कृते संवदेम

स्वर्वाणीप्रकाशः
(वाट्साप्प् सदः)
🚫बुधवासरः (10-01-18) 🙄
✍प्रस्तावविषयः– उत्कोचः❌

उद्योगस्थानां कर्तव्याधीनस्य
कार्यनिर्वहणार्थम् अविहितधनस्य वा उपायनस्य वा प्रत्युपकारस्य वा याचनं अथवा स्वीकरणम् उत्कोच इत्युच्यते।यथा विविधदेशेषु तथा अस्माकं देशेऽपि बहुविधसमस्याः वर्तन्ते तेषु एषा मुख्यसमस्या।सर्वत्र उद्योगस्थवृन्दानाम् अपथसञ्चारेण जनाः पीडिताः सन्ति । प्रायः सर्वकारकर्मकराः सर्वे एवं न सन्ति तथापि अल्पप्रतिशतजना अधार्मिका इति कारणेन कुपुत्रेण यथा सम्पूर्णकुलनाशः तथा एतादृशानाम् उद्वेगस्थानां भ्रष्टाचारेण समग्रव्यवस्थाया अपगतिरेव जायमाना अस्ति।।

उत्कोचस्वीकरणस्य कारणानि बहूनि सन्ति जनानां धार्मिकमूल्यच्युतिरेव तत्र प्रथमं कारणम् । सेवाभावं सत्यं धर्मं सदाचारं कर्मणः महत्त्वम् एतत् सर्वं विस्मृत्यैव तादृशा उत्कोचं स्वीकुर्वन्ति। मनुष्याणां अन्तरङ्गे स्वाभाविकतया धर्मबोधः भवति किन्तु निरन्तरम् अन्तरङ्गबोधनं तिरस्कृत्य असत्यकार्यं कुर्वन्तिश्चेत् तेषां लज्जा एव अपगच्छति ननु।
नियमानाम् अभावो देशे कदापि नास्त्येव तथापि बहुधा नियमानां प्रभावो न दृश्यते सा एव समस्या।सत्यं यद् भ्रष्टाचारनिवारणे देशवासीनां सर्वेषां सहयोगोऽनिवार्यः।विषयेऽस्मिन्
जनजागरणम् अत्यावश्यकम्। नियमानां पालनं प्रथमं कार्यम्। वैयक्तिकसंस्थासु प्रायः भ्रष्टाचारोऽधिको न दृश्यते सर्वकारेणाऽपि तथा निरन्तरनिरीक्षणं करणीयम्। उद्योगस्थाः स्वस्य कर्मानुसारमेव प्रवृद्धिं लभेत् । तदर्थम् वार्षिकावलोकना भवेत्। यः कोऽपि भ्रष्टाचारग्रहीतो भवतिश्चेत् तस्य दण्डनं शीघ्रमेव भवेत्। नतु नाममात्रं दण्डनम् अपिच आदर्शदण्डनं भवेत्। कार्यालयेषु जनानां बोधनार्थं पद्धतयः भवेयुः। कर्मकराणाम् उपरि प्रतिक्रियां दातुं ग्राहकानां कृते व्यवस्था कल्पनीया। उद्योगस्तरानुगुणम् उत्तरदायित्वं भ्रष्टाचारविषये इतोऽपि दृढतया भवेत्।
एवं निरन्तरं परिश्रमेण परिष्कारेण च अस्याः दुरवस्थायाः परिवर्तनं शक्नुमः।।

Reply all
Reply to author
Forward
0 new messages