हितोपदेश-सुभाषित-श्लोकाः

1,020 views
Skip to first unread message

उषा सङ्का

unread,
Nov 27, 2015, 3:40:45 AM11/27/15
to संस्कृते संवदेम
नमांसि
अत्र हितोपदेशस्य सुभाषितश्लोकाः सान्वय-प्रतिपदार्थ-तात्पर्याः दीयन्ते। 
गुरुप्रसादशास्त्रिणा कृतां व्याख्यां आधृत्य क्रियते अयं प्रयासः। अनुगृह्णन्तु। 
------------------------------------------------------------ 
हितोपदेश-सुभाषित-श्लोकाः - 1
अथ मङ्गलाचरणम्
सिद्धिः साध्ये सतामस्तु प्रसादात् तस्य धूर्जटेः ।
जाह्नवीफेनलेखेव यन्मूर्ध्नि शशिनः कला॥१॥
पदविभागः-...
सिद्धिः साध्ये सताम् अस्तु प्रसादात् तस्य धूर्जटेः । जाह्नवी-फेन-लेखा इव यत्-मूर्ध्नि शशिनः कला॥१॥
अन्वयः-
तस्य धूर्जटेः प्रसादात् सतां साध्ये सिद्धिः अस्तु। यत्-(यस्य =धूर्जटेः) मूर्ध्नि शशिनः कला जाह्नवी-फेन-लेखा इव (शोभते)॥१॥
प्रतिपदार्थः-
तस्य धूर्जटेः =शिवस्य; प्रसादात् = कृपया; सतां = सज्जनानाम्; साध्ये = कर्तव्ये कर्मणि; सिद्धिः = अभीष्टलाभः; अस्तु। यत्-(यस्य =धूर्जटेः) मूर्ध्नि शशिनः कला जाह्नवी-फेन-लेखा इव ~ जाह्नव्याः फेनाः तेषां लेखाः। = गङ्गायाः वारिकफाः तेषां पङ्क्तिः इव (शोभते)॥१॥
अर्थः-
यः शिवः शिरसि गङ्गाफेनपङ्किरिव चन्द्रकलां धरति, तस्य शिवस्य कृपया सज्जनानां क्रियासु सिद्धिः भवतु।

उषा सङ्का

unread,
Nov 28, 2015, 2:49:38 AM11/28/15
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः - 2
श्रुतो हितोपदेशोऽयं पाटवं संस्कृतोक्तिषु ।
वाचां सर्वत्र वैचित्र्यं नीतिविद्यां ददाति च॥२॥
पदविभागः-
श्रुतः हितोपदेशः अयं पाटवं संस्कृत-उक्तिषु । वाचां सर्वत्र वैचित्र्यं नीति-विद्यां ददाति च॥२॥
अन्वयः-
अयं हितोपदेशः श्रुतः। संस्कृत-उक्तिषु पाटवं च सर्वत्र वाचां वैचित्र्यं ददाति। नीति-विद्यां च (ददाति)॥२॥
प्रतिपदार्थः-
अयं = मया वक्ष्यमाणः; श्रुतः हितोपदेशः = ग्रन्थविशेषः; संस्कृत-उक्तिषु = संस्कृतभाषणादिषु; पाटवं = कौशलम्; सर्वत्र = सर्वविषयेषु; वाचां वैचित्र्यं = नानाविधोक्ति-चातुर्यम्; नीति-विद्यां = राजनीतिं, व्यवहारकौशलं च; ददाति = (अत्र) शिक्षयति॥२॥
तात्पर्यम्
मया वक्ष्यमाणः हितोपदेशः संस्कृतभाषाप्रावीण्यं, सर्वविषयेषु चातुर्यं, राजनीतिं व्यवहारज्ञानं च ददाति।

उषा सङ्का

unread,
Nov 30, 2015, 5:50:48 AM11/30/15
to संस्कृते संवदेम

हितोपदेश-सुभाषित-श्लोकाः - 3

विद्याप्रशंसा

मूलम्-

अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् ।

गृहीत इव केशेषु मृत्युना धर्ममाचरेत्॥३॥

पदविभागः-

अजर-अमर-वत् प्राज्ञः विद्याम् अर्थं च चिन्तयेत् । गृहीतः इव केशेषु मृत्युना धर्मम् आचरेत्॥३॥

अन्वयः-

प्राज्ञः अजर-अमर-वत् विद्याम् अर्थं च चिन्तयेत्। मृत्युना केशेषु गृहीतः इव धर्मम् आचरेत्॥३॥

प्रतिपदार्थः-

प्राज्ञः = विद्वान्; अजर-अमर-वत् = जरा-मरण-वर्जितम् आत्मानं मन्यमान इव; विद्याम् = धर्मशास्त्रादिकं, कलाकलापविज्ञानं, ज्ञानं च; अर्थं च = धनं च; चिन्तयेत् = अभ्यसेत्, उपार्जयेत् च; मृत्युना केशेषु गृहीतः इव = कालकवलितम् इव आत्मानं  पश्यन्; धर्मम्; आचरेत् = सेवेत, पालयेत् च॥३॥

तात्पर्यम्-

विद्वान् जरामरणरहितः इव शास्त्रविद्यामभ्यसेत्। (आजीवनं शास्त्राध्ययनं कुर्यात्।) मृत्युदेवः केशान् गृहीत्व तिष्ठति (मरणकालः आसन्नः, अत्यन्तं निकटे अस्ति) इति मत्वा धर्माचरणं कुर्यात्।

उषा सङ्का

unread,
Dec 1, 2015, 4:49:05 AM12/1/15
to संस्कृते संवदेम

हितोपदेश-सुभाषित-श्लोकाः-4

मूलम्-

सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् ।

अहार्यत्वाद् अनर्घत्वाद् अक्षयत्वाच्च सर्वदा॥४॥

पदविभागः-

सर्व-द्रव्येषु विद्या एव द्रव्यम् आहुः अनुत्तमम् । अहार्यत्वाद् अनर्घत्वाद् अक्षयत्वात् च सर्वदा॥४॥

अन्वयः-

सर्वदा (अन्येन केनापि) अहार्यत्वाद्, अनर्घत्वाद्, अक्षयत्वात् च सर्व-द्रव्येषु विद्या एव अनुत्तमम् द्रव्यम् (इति विद्वांसः) आहुः ॥४॥

प्रतिपदार्थः-

सर्वदा; (अन्येन केनापि) अहार्यत्वाद् = हर्तुम् अशक्यत्वात्; अनर्घत्वाद् = बहुमूल्यत्वात्; अक्षयत्वात् च = दानादिना अपि अक्षीयमाणत्वात्; सर्व-द्रव्येषु = सर्वसाधनोपेक्षया; विद्या एव; अनुत्तमम् = सर्वश्रेष्ठम्; द्रव्यम् = धनं; आहुः ॥४॥

तात्पर्यम्-

सर्वकालेषु सर्वधनेषु विद्या एव सर्वश्रेष्ठं धनम् इति विद्वद्वचनम्। यतः तत् अन्यैः हर्तुं न शक्यते। बहुमूल्या वर्तते। कदापि क्षयं न याति।

उषा सङ्का

unread,
Dec 3, 2015, 5:47:43 AM12/3/15
to संस्कृते संवदेम

हितोपदेश-सुभाषित-श्लोकाः-6

मूलम्-

विद्या ददाति विनयं विनयाद् याति पात्रताम् ।

पात्रत्वात् धनमाप्नोति धनाद् धर्मं ततः सुखम्॥६॥

पदविभागः-

विद्या ददाति विनयं विनयाद् याति पात्रताम् । पात्रत्वात् धनम् आप्नोति धनाद् धर्मं ततः सुखम्॥६॥

अन्वयः-

विद्या विनयं ददाति। विनयाद् पात्रताम् याति । पात्रत्वात् धनम् आप्नोति। धनाद् धर्मं (आप्नोति) ततः सुखम् (आप्नोति)॥६॥

प्रतिपदार्थः-

विद्या; विनयं = सौजन्यं; ददाति; विनयाद्; पात्रताम् = योग्यताम्; याति = तत्स्थितिं लभते; पात्रत्वात्; धनम्; आप्नोति; धनाद्; धर्मं; ततः; सुखम्; (चाप्नोति)॥६॥

तात्पर्यम्-

विद्यैव सर्वसुखसाधनमित्याशयः। विद्यावान् विनयं प्राप्य, तेन पात्रत्वं लभते। पात्रभूतः सज्जनो धनं लभते, धनात् धर्मोपार्जनं शक्यं कर्तुम्। ततः सुखं प्राप्नोति।

उषा सङ्का

unread,
Dec 4, 2015, 3:47:53 AM12/4/15
to संस्कृते संवदेम

हितोपदेश-सुभाषित-श्लोकाः-7

मूलम्-

विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये ।

आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा॥७॥

पदविभागः-

विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये । आद्या हास्याय वृद्धत्वे द्वितीया आद्रियते सदा॥७॥

अन्वयः-

(मनुष्यस्य) प्रतिपत्तये, शस्त्रं विद्या च शास्त्रं (विद्या) च द्वे विद्ये (प्रसिद्धे)। आद्या वृद्धत्वे हास्याय। द्वितीया (लोके) सदा आद्रियते ॥७॥

प्रतिपदार्थः-

प्रतिपत्तये = ज्ञानाय, यशोलाभाय च; शस्त्रं विद्या = धनुर्वेदादि; शास्त्रं (विद्याच द्वे विद्येआद्या; वृद्धत्वे = वृद्धावस्थायां, बलक्षये; हास्याय = उपहासप्रदा; द्वितीया शास्त्रविद्या(लोके) सदा; आद्रियते = पूज्यते॥७॥

तात्पर्यम्-

मनुष्यस्य ज्ञानार्जनाय, यशसे च द्वे विद्ये स्तः। शस्त्रविद्या, शास्त्रविद्या चेति। शस्त्रविद्यया गते वयसि न कोऽपि लाभः (शारीरिक-बलाभावात्)। किन्तु शास्त्रविद्यया जनः आजीवनं पूज्यते लोके (वृद्धोऽपि विद्यां न त्यजति)।

उषा सङ्का

unread,
Dec 5, 2015, 7:50:47 AM12/5/15
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-8
मूलम्-
यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत् ।
कथाच्छलेन बालानां नीतिस्तदिह कथ्यते॥८॥
पदविभागः-
यत् नवे भाजने लग्नः संस्कारः न अन्यथा भवेत् । कथा-छलेन बालानां नीतिः तद् इह कथ्यते॥८॥
अन्वयः-
यत्, नवे भाजने लग्नः संस्कारः अन्यथा न भवेत्, तद् इह कथा-छलेन बालानां नीतिः (मया) कथ्यते॥८॥
प्रतिपदार्थः-
यत् = यस्मात् कारणात्; नवे = नवीने, अपक्वे बाले; भाजने = शरावादौ पात्रे, पुंसि च; लग्नः = संसक्तः; संस्कारः = गुणाधानम्; अन्यथा न भवेत् = दूरीभवेत्; तद् = तस्मात् कारणात्; इह = हितोपदेशे; कथा-छलेन = काककूर्मादि-कथाव्याजेन; बालानां = बालोपदेशार्थं; नीतिः = राजनीतिः व्यवहारनीतिश्च; कथ्यते = मया निबध्यते ॥८॥
तात्पर्यम्-
नवीने पात्रे परिवेषितं (?) भोजनं यथा न नश्यति, तथैव नववयस्केषु बालकेषु निक्षिप्तः संस्कारः नैव विनश्यति। अतः (हितोपदेश)कथामाध्यमेन नीतिव्यवहारादीनां ज्ञानं बालकान् उपदिशामि ।

उषा सङ्का

unread,
Dec 7, 2015, 5:57:17 AM12/7/15
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-10🌹

मूलम्-🌻
अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः॥१०॥🌷

पदविभागः-🌸
अनेक-संशय-उच्छेदि परोक्ष-अर्थस्य दर्शकम् । सर्वस्य लोचनं शास्त्रं यस्य नास्ति अन्धः एव सः॥१०॥🍁

अन्वयः-🍀
अनेक-संशय-उच्छेदि, परोक्ष-अर्थस्य दर्शकम्, सर्वस्य लोचनं शास्त्रं यस्य (पुंसः) नास्ति, सः अन्धः एव ॥१०॥🌹

प्रतिपदार्थः-💝
अनेक-संशय-उच्छेदि ~ अनेकान् संशयान् उच्छिनत्ति तच्छीलम् = नाना-वितर्क-विनाशकम्; परोक्ष-अर्थस्य = अतीत-अनागतादि-अर्थस्य; दर्शकम् = बोधकम्; सर्वस्य लोचनं = लोचनम् इव मार्गदर्शकम्; शास्त्रं यस्य (पुंसः) नास्ति, सः; अन्धः = लोचनविकलः; एव;॥१०॥🌹

तात्पर्यम्-✨
सकलान् सन्देहान् अपाकुर्वत्, अप्रत्यक्षस्य, निगूढस्यार्थस्य च दर्शकं यत् शास्त्रं, तत् सर्वेषां नयनमिव विलसति। यस्य मनुष्यस्य शास्त्रज्ञानं नास्ति, सः अन्ध एव।🌺

उषा सङ्का

unread,
Dec 8, 2015, 8:49:40 AM12/8/15
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-11🌺
मूलम्🍁
यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता ।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम्॥११॥🌻

पदविभागः-🌷
यौवनं धन-सम्पत्तिः प्रभुत्वम् अविवेकिता । एकैकम् अपि अनर्थाय किमु यत्र चतुष्टयम्॥११॥🌻

अन्वयः-🌹
यौवनं, धन-सम्पत्तिः, प्रभुत्वम्, अविवेकिता - (अत्र) एकैकम् अपि (पुंसां) अनर्थाय (भवति)। यत्र चतुष्टयम् (तत्र) किमु (अनर्थस्य विषये वक्तव्यम्?)॥११॥💝

प्रतिपदार्थः-🌿
यौवनं = युवावस्था; धन-सम्पत्तिः = वित्तसमृद्धिः; प्रभुत्वम् = ऐश्वर्यम्, अधिकारः; अविवेकिता = विचार-वैकल्यम्, मूढता; एकैकम् अपि (पुंसां); अनर्थाय = विपत्कारकं भवति; यत्र = यस्मिन् पुंसि; चतुष्टयम् (तत्र); किमु = किं वा वक्तव्यम्; ॥११॥🍀

तात्पर्यम्-🌸
युवावस्था, वित्तसमृद्धिः, अधिकारस्थानं, अविवेकः इत्येतेषु गुणस्थितिषु प्रत्येकं (अन्यजनेभ्यः) आपत्करं भवति। यदि कस्मिंश्चित् पुरुषे सर्वाणि मिलित्वा विद्यन्ते, तर्हि अनर्थकत्वस्य किं विशेषतया वक्तव्यं भवति? तदवश्यमेव आपत्स्थानं भवति।✨

उषा सङ्का

unread,
Dec 9, 2015, 10:15:55 AM12/9/15
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-12🎀

हितोपदेश-सुभाषित-श्लोकाः-12🌺
🌹मूलम्-
कोऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः ।
काणेन चक्षुषा किं वा चक्षुः पीडैव केवलम्॥१२॥🌿

पदविभागः-🌺
कः अर्थः पुत्रेण जातेन यः न विद्वान् न धार्मिकः । काणेन चक्षुषा किं वा चक्षुः पीडा एव केवलम्॥१२॥🌸

अन्वयः-🌿
यः (पुत्रः) न विद्वान् न (च) धार्मिकः (तेन) पुत्रेण जातेन कः अर्थः? काणेन चक्षुषा किं वा चक्षुः पीडा एव केवलम्॥१२॥🍀

प्रतिपदार्थः-🌸
यः = पुत्रः; न विद्वान् न धार्मिकः = धर्माचरणप्रवणः; (तेन) पुत्रेण जातेन = उत्पन्नेनापि; कः अर्थः = किं प्रयोजनम्?; काणेन = दर्शनशक्तिशून्येन; एकचक्षुर्युक्तः (काणत्वञ्च चक्षुरिन्द्रियशून्यैकगोलकवत्त्वम्); चक्षुषा = नेत्रेण; किं वा = किं नु फलं, न किमपि फलं; चक्षुः-पीडा एव = शारीरिकव्यथा; केवलम् = मात्रम्;॥१२॥🍁

तात्पर्यम्-💝
यः सुतः विद्वत्त्वं वा न धारयति, धर्मं वा नाचरति, सः सम्भूयापि न कस्यापि प्रयोजनं कारयति। अस्योदाहरणमेवम्– दर्शनशक्तिहीन-गोलरूपेणाक्ष्णा वस्तुदर्शनं न शक्यते। केवलं तत्व्यथां कारयति, न कस्याप्युपयोगाय भवति।🍀🌷

उषा सङ्का

unread,
Dec 10, 2015, 8:03:37 AM12/10/15
to संस्कृते संवदेम



(पञ्चमश्लोकः त्रुट्या न प्रेषितः। अत इदं प्रेष्यते।)

हितोपदेश-सुभाषित-श्लोकाः-5

मूलम्-

संयोजयति विद्यैव नीचगापि नरं सरित् ।

समुद्रमिव दुर्घर्षं नृपं भाग्यमतः परम्॥५॥

पदविभागः-

संयोजयति विद्या एव नीचगा अपि नरं सरित् । समुद्रम् इव दुर्घर्षं नृपं भाग्यम् अतः परम्॥५॥

अन्वयः-

नीचगा अपि सरित् समुद्रम् इव विद्या एव (नीचगा अपि) दुर्धर्षं नरं नृपं संयोजयति। अतः परं भाग्यम् (प्रमाणम्) ॥५॥

प्रतिपदार्थः-

नीचगा अपि = निम्नगा अपि; सरित् = नदी; समुद्रम् इव; विद्या; एव = केवलं; (नीचगा अपि = नीचजनस्था अपि) दुर्धर्षं = दुरासदं, दुष्प्रापं, दुर्लभदर्शनं; नृपं = राजानं; नरं संयोजयति = तेन सह पुरुषं सङ्गमयति। अतः परं = तेन सह समागमानन्तरं; भाग्यम् = भाग्यानुसारेण ततो धनरत्नादीनां लाभः॥५॥

तात्पर्यम्-

नदी यथा निम्नस्थानात् गच्छन्ती अपि समुद्रं गच्छति, तथैव विद्या नीचजनमपि- राजानं संगतिं नयति।

उषा सङ्का

unread,
Dec 11, 2015, 3:20:09 AM12/11/15
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-13🌺
🌷मूलम्-
अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः ।
सकृद्दुःखकरावाद्यावन्तिमस्तु पदे पदे॥१३॥✨

पदविभागः-🌸
अजात-मृत-मूर्खाणां वरम् आद्यौ न च अन्तिमः । सकृद्-दुःख-करौ आद्यौ अन्तिमः तु पदे पदे॥१३॥🌻

अन्वयः-🎀
अजात-मृत-मूर्खाणां (इति त्रिविधानां पुत्राणां मध्ये) वरम् आद्यौ (द्वौ) न च अन्तिमः (मूर्खः)। सकृद् दुःख-करौ आद्यौ अन्तिमः तु पदे पदे (दुःख-करः)॥१३॥🌹

प्रतिपदार्थः-🍁
अजातः = अनुत्पन्नः; मृतः = उत्पन्नोऽपि विगतप्राणः; मूर्खः = मूढः, जडः; वरम् = श्रेष्ठौ; आद्यौ = अजात-मृतौ; न च अन्तिमः = न मूर्खः; सकृद्-दुःख-करौ = एकवारमेव दुःखं दत्तः; आद्यौ = अजात-मृतौ; अन्तिमः = मूर्खः; तु पदे पदे = सर्वदा, यावज्जीवम्॥१३॥🌻

तात्पर्यम्-🍀
अनुत्पन्न-मृत-पुत्रौ एकवारमेव दुःखं ददाति। मूर्खस्तु आजन्ममरणं दुःखयति। अतः अनुत्पन्न-मृत-पुत्रौ मूर्खपुत्रात् वरम्।💝
(त्रुट्या 13पद्यं न प्रेषितम्। अतः संख्यापि परिवृता। 14पद्यं 13 इति, 15 पद्यं 14 इति क्रमः भग्नः। अग्रे सर्वं परिष्क्रियते। क्षन्तव्या।)

उषा सङ्का

unread,
Dec 11, 2015, 3:35:11 AM12/11/15
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-14🌿

मूलम्-🌺
वरं गर्भस्रावो वरमृतुषु नैवाभिगमनं
वरं जातः प्रेतो वरमपि च कन्यैव जनिता ।
वरं वन्ध्या भार्या वरमपि च गर्भेषु वसति-
र्न वाविद्वान् रूपद्रविणगुणयुक्तोऽपि तनयः॥१४॥🍀

पदविभागः-🎀
वरं गर्भ-स्रावः। वरम् ऋतुषु न एव अभिगमनम्। वरं जातः प्रेतः। वरम् अपि च कन्या एव जनिता । वरं वन्ध्या भार्या। वरम् अपि च गर्भेषु वसतिः। न वा अविद्वान् रूप-द्रविण-गुण-युक्तः अपि तनयः॥१४॥🍁

अन्वयः-🌷
गर्भ-स्रावः वरम्। ऋतुषु न एव अभिगमनम् वरम् । जातः प्रेतः वरम्। अपि च कन्या एव जनिता वरम्। वन्ध्या भार्या वरम् । अपि च गर्भेषु वसतिः वरम् । अविद्वान् रूप-द्रविण-गुण-युक्तः अपि तनयः न वा (वरम्)॥१४॥🍁

प्रतिपदार्थः-🌻
किं च–गर्भ-स्रावः =गर्भपातः; वरम् = ईषत् श्रेष्ठः; ऋतुषु = भार्यायाः ऋतुकाले; न एव; अभिगमनम् = उपसर्पणम्; वरम् । जातः प्रेतः = मृतः; वरम्। अपि च; कन्या एव जनिता वरम्। वन्ध्या = सन्तानजनने असमर्था; भार्या वरम् । अपि च; गर्भेषु = कुक्षौ एव; वसतिः = निवासः; वरम् । अविद्वान् = मूर्खः; रूप-द्रविण-गुण-युक्तः = सुन्दरः, धनवान्, सकलसद्गुणयुक्तः; अपि तनयः = पुत्रः; न वा (वरम्)॥१४॥ ✨

तात्पर्यम्-💝
रूपसद्गुणयुक्तोपि सन् मूर्खपुत्रः यदि जायते, तत्तुलनायां किं किं श्रेष्ठमिति वदति– गर्भपातः, भार्यासङ्गमवर्जनं, मृतशिशुजननं, कन्याजननं, पत्न्याः शिशुजननाशक्तता, कुक्षावेव पिण्डस्य वासः–एतानि सर्वाणि श्रेष्ठानि मूर्खसुतस्य जननात् इति।🌸

उषा सङ्का

unread,
Dec 11, 2015, 3:35:30 AM12/11/15
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-15🌷

मूलम्-🌿
स जातो येन जातेन याति वंशः समुन्नतिम् ।
परिवर्तिनि संसारे मृतः को वा न जायते॥१५॥🎀

पदविभागः-🌹
सः जातः येन जातेन याति वंशः समुन्नतिम् । परिवर्तिनि संसारे मृतः कः वा न जायते॥१५॥💝

अन्वयः-🍀
येन जातेन वंशः समुन्नतिं याति सः जातः। परिवर्तिनि संसारे कः वा मृतः, (कः च) न जायते॥१५॥🍁

प्रतिपदार्थः-🎊
येन जातेन = यस्य जन्मना; वंशः = आत्मकुलं; समुन्नतिं = ख्यातिं, औन्नत्यं च; याति = भजते, प्राप्नोति; सः; जातः = सुजातः; परिवर्तिनि = परिवर्तनशीले; संसारे = अनादावस्मिन् जगति; को वा न मृतः? को वा न जायते?॥१५॥ ✨

तात्पर्यम्-🌷
यस्य जन्मना कुलं (कुटुम्बः) आन्नत्यं प्राप्नोति, सः पुत्रः जातः इति वक्तुं शक्यते। अन्ये जीवाः बहवो संसारेऽस्मिन् जीवन्ति, म्रियन्ते च। 🌺
कोटिशो जीवाः अस्मिन् जगति प्रत्यहमुद्यन्ते, विलीयन्ते च, स एव तु सुजन्मा धन्यजीवितो यस्य जन्मना स्वकुलं महीयते इत्याशयः।🌸

उषा सङ्का

unread,
Dec 12, 2015, 5:02:55 AM12/12/15
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-16🌺

मूलम्-🌷
गुणिगणगणनाऽरम्भे न पतति कठिनी ससम्भ्रमाद् यस्य ।
तेनाम्बा यदि सुतिनी वद वन्ध्या कीदृशी भवति ?॥१६॥🍀

पदविभागः-🌿
गुणि-गण-गणना आरम्भे न पतति कठिनी ससम्भ्रमाद् यस्य । तेन अम्बा यदि सुतिनी वद वन्ध्या कीदृशी भवति ?॥१६॥🌹

अन्वयः-🎀
गुणि-गण-गणना-आरम्भे ससम्भ्रमाद् यस्य कठिनी न पतति । तेन अम्बा यदि सुतिनी, वन्ध्या कीदृशी भवति, (इति) वद ?॥१६॥💝

प्रतिपदार्थः-🌸
गुणि-गण-गणना-आरम्भे ~ गुणिनां गणाः तेषां गणनायाः आरम्भे = विदुषां सङ्घाः, तेषां प्रारम्भावसरे ; ससम्भ्रमाद् = सहसैव ; यस्य = यस्य पुंसो नामनि ; कठिनी = लेखनसाधनम् (=पेंसिल्) ; न पतति = लेखाधारे काष्ठपट्टे, पत्रादौ वा तन्नामोल्लेखार्थं न झटिति प्रसरति ; तेन अम्बा = माता ; यदि = यदा ; सुतिनी = पुत्रवती ; वन्ध्या = पुत्रहीना, अपुत्रा स्त्री ; कीदृशी = का ; भवति = भण्यते ; (इति) वद = कथय तावत् ; ॥१६॥🌻

तात्पर्यम्-✨
विद्वत्सङ्घानां गणनायाः प्रारम्भावसरे सहसैव यस्य लेखकस्य कठिनी कस्यचित् पुरुषस्य नामलेखनाय लेखनपत्रे न पतति, यदि तत्पुरुषस्य माता पुत्रवती इति उच्यते, तर्हि का वा स्त्री वन्ध्या इति कथ्येत? 
गुणिसमवाये यस्य पुंसः शोभनं यशो वर्तते, स एव, सुजन्मेति हृदयम्। सैव तु खलु वन्ध्या। 🎀

उषा सङ्का

unread,
Dec 13, 2015, 6:29:18 AM12/13/15
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-17🌷
मूलम्-🎊
दाने तपसि शौर्ये च यस्य न प्रथितं यशः ।
विद्यायामर्थलाभे च मातुरुच्चार एव सः॥१७॥🌺

पदविभागः-💝
दाने तपसि शौर्ये च यस्य न प्रथितं यशः । विद्यायाम् अर्थलाभे च मातुः उच्चारः एव सः॥१७॥

अन्वयः-🌹
दाने तपसि शौर्ये च विद्यायाम् अर्थलाभे च यस्य यशः न प्रथितं, सः मातुः उच्चारः एव ॥१७॥🍀

प्रतिपदार्थः-🎀
दाने = धनादिवितरणे ; तपसि = धर्माचरणादौ ; शौर्ये = वीरत्वे ; विद्यायाम् = ज्ञाने ; अर्थलाभे = धनोपार्जने ; यस्य = पुंसः ; यशः = कीर्तिः ; न प्रथितं = न प्रसृतम् ; सः ; मातुः = जनन्याः ; उच्चारः = विष्टा, मलं ; एव = मात्रम् ॥१७॥🌿

तात्पर्यम्-🌸
धनादिवितरणे, धर्माचरणादौ, वीरत्वे, ज्ञाने, धनोपार्जने यस्य पुंसः कीर्तिः न प्रसृतम्, सः जनन्याः  विष्ठामात्रम् । नासौ पुत्रः केषामपि उपयोगाय भवति। तस्य जन्म वृथा भवतीति अभिप्रायः ॥१७॥🍁

उषा सङ्का

unread,
Dec 14, 2015, 6:49:43 AM12/14/15
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-18🌸

मूलम्-🌺
वरमेको गुणी पुत्रो न च मूर्खशतान्यपि ।
एकश्चन्द्रस्तमो हन्ति न च तारागणोऽपि च॥१८॥🍁

पदविभागः-💝
वरम् एकः गुणी पुत्रः न च मूर्ख-शतानि अपि । एकः चन्द्रः तमः हन्ति न च तारा-गणः अपि च॥१८॥🎀

अन्वयः-🌿
एकः अपि गुणी पुत्रः वरम्। (किन्तु) न च मूर्ख-शतानि । एकः चन्द्रः तमः हन्ति। न च तारा-गणः अपि च॥१८॥🌻

प्रतिपदार्थः-🍀
एकः अपि ; गुणी = सुगुणसंयुक्तः ; पुत्रः = सुतः ; वरम् = श्रेष्ठः ; (किन्तु) न च ; मूर्ख-शतानि = जड-मन्दपुत्राणां शतमपि ; एकः चन्द्रः ; तमः = अन्धकारं ; हन्ति = नाशयति ; न च तारा-गणः अपि च = नक्षत्रकोटीरपि ॥१८॥🌹

तात्पर्यम्-🌷
गुणवता पुत्रेण एकेनापि अलम्। यदि एकशतं पुत्राः अपि मन्दबुद्धयः भवन्तु, तेन न कोऽपि लाभः। यथा–  रात्रौ चन्द्रः एक एव अन्धकारं अपनेतुं समर्थः। असङ्ख्यकानि नक्षत्राणि मिलित्वा अपि कान्तिं न कुर्वन्ति।✨

उषा सङ्का

unread,
Dec 15, 2015, 7:04:54 AM12/15/15
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-19🌿

मूलम्-🌺
पुण्यतीर्थे कृतं येन तपः क्वाप्यतिदुष्करम् ।🌷
तस्य पुत्रो भवेद् वश्यः समृद्धो धार्मिकः सुधीः॥१९॥🌸

पदविभागः-🎀
पुण्य-तीर्थे कृतं येन तपः क्व-अपि अति-दुष्करम् । तस्य पुत्रः भवेद् वश्यः समृद्धः धार्मिकः सुधीः॥१९॥🌿

अन्वयः-✨
येन क्वापि पुण्य-तीर्थे अति-दुष्करं तपः कृतं, तस्य पुत्रः वश्यः समृद्धः धार्मिकः सुधीः च भवेद् ॥१९॥🍁

प्रतिपदार्थः-🌹
येन क्वापि पुण्य-तीर्थे = महाक्षेत्रे ; कृतं ; अति-दुष्करं = कठिनं ; तपः ; तस्य = पुण्यात्मनः पुत्रः वश्यः = वशंवदः ; समृद्धः = गुणगण-अलङ्कृकृतः धनी च ; धार्मिकः = धर्मात्मा ; सुधीः = विद्वान् ; विनीतश्च ; भवेद् = भवति ॥१९॥🍀

तात्पर्यम्-🌺
येन पित्रा कुत्रचित् महापुण्यस्थले तपः आचरितं, तस्य एव नियतः, सम्पन्नः, धर्मानुष्ठानपरः, धीशाली च पुत्रो भवेत्। (अतिमहतस्तपसः फलमेतद्यत्पुत्रो विद्वान् विनीतश्च भवतीति भावः।)🌻

उषा सङ्का

unread,
Dec 16, 2015, 2:04:43 AM12/16/15
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-20🌿

मूलम्-🌺
अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽर्थकरी च विद्या षड् जीवलोकस्य सुखानि राजन्॥२०॥🌹

पदविभागः-🌷
अर्थ-आगमः नित्यम् अरोगिता च प्रिया च भार्या प्रिय-वादिनी च । वश्यः च पुत्रः अर्थकरी च विद्या षड् जीव-लोकस्य सुखानि राजन् ॥२०॥🌻

अन्वयः-🍀
राजन्, १) नित्यम् अर्थ-आगमः, २) अरोगिता च, ३) प्रिय-वादिनी, ४) प्रिया च भार्या, ५) वश्यः च पुत्रः, ६) अर्थकरी विद्या (एतानि) षड् जीव-लोकस्य सुखानि च ॥२०॥🎀

प्रतिपदार्थः- 🌸
राजन् = हे युधिष्ठिर, नित्यं = निर्बाधः ; अर्थ-आगमः = धनागमः ; अरोगिता च = शरीरसौख्यं, स्वास्थ्यम् ; प्रिय-वादिनी = मधुरभाषिणी ; प्रिया =हृद्या ; भार्या = पत्नी ; वश्यः = अनुकूलः ; पुत्रः ; अर्थकरी = धनकरी ; विद्या ; एतानि षट् जीव-लोकस्य = मानवलोकस्य ; सुखानि = सुखकारकाणि ॥२०॥🍁

तात्पर्यम्-✨
हे राजन्, निराघात-धनप्राप्तिः, शरीरस्वास्थ्यं, मधुरं वदन्ती, प्रियतमा च पत्नी, आज्ञाकारीपुत्रः, धनप्रापयित्री विद्या च– एतानि षट् मानवलोके सुखकराणि इति मन्यन्ते।🎊

उषा सङ्का

unread,
Dec 17, 2015, 7:58:42 AM12/17/15
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-21🌷

मूलम्-🍀
को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः ।
वरमेकः कुलालम्बी यत्र विश्रूयते पिता॥२१॥🌸

पदविभागः-💝
कः धन्यः बहुभिः पुत्रैः कुशूल-आपूरण-आढकैः । वरम् एकः कुल-आलम्बी यत्र विश्रूयते पिता ॥२१॥🌹

अन्वयः-🍁
कुशूल-आपूरण-आढकैः कः धन्यः बहुभिः पुत्रैः एकः कुल-आलम्बी वरम् । यत्र पिता विश्रूयते ॥२१॥✨

प्रतिपदार्थः-🍁
कुशूल-आपूरण-आढकैः = धान्य-कोष्ठक-पूरण-असमर्थैः आढकपात्रैः इव। [कुशूलं- = धान्यावपनम्- आढकम्- = आढकपरिमितम् धान्यपात्रम् (अढाई सेर का) ]; = स्वल्पाशयैः तुच्छैः ;  बहुभिः पुत्रैरपि ; कः धन्यः = श्रेष्ठः, धनवान् ; एकः कुल-आलम्बी = येन कुल आलम्ब्यते ; वरम् = श्रेष्ठः ; यत्र = यस्मिन् पुत्रे जाते ; पिता = जनकः ; विश्रूयते = लोके महीयते ; ॥२१॥🍀

तात्पर्यम्-🌻
कः पुमान् अल्पाशयैः पुत्रैः धनी इति लोके विश्रूयते? यः पुत्रः कुलं धरति, यस्य जातेन कुलस्य आलम्बः भवति, स एव पुत्रः; तेनैव पिता जगति कीर्तिं विन्दति। 👑
(अथवा अन्ये तु– खरीवाहादिपरिमितैः, आढकपरिमितैः च पुत्रस्थानीयधान्यादिभिः कः धनी इति गण्यते? कुशूलादिमितेनापि धान्यराशिना न कोपि धन्यतां लभते। एकेन कुलदीपकेन रत्नादिना, कौस्तुभमणिना सागर इव पिता धनी श्रेष्ठश्च भवति– इत्यर्थमाहुः)🎊

उषा सङ्का

unread,
Dec 21, 2015, 9:24:52 AM12/21/15
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः - 22🌺

मूलम्-🌿
ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी ।
भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः॥२२॥🌸

प्रतिपदार्थः-🍁
ऋण-कर्ता पिता शत्रुः माता च व्यभिचारिणी । भार्या रूपवती शत्रुः पुत्रः शत्रुः अपण्डितः॥२२॥✨

अन्वयः-🎀
पिता ऋण-कर्ता शत्रुः। माता च व्यभिचारिणी (शत्रुः) । भार्या रूपवती शत्रुः । पुत्रः अपण्डितः शत्रुः ॥२२॥🌹

प्रतिपदार्थः-🍀
पिता = जनकः ; ऋण-कर्ता = यः पुनः पुनः अन्येभ्यः ऋणं स्वीकृत्य जीवति ; शत्रुः = अयशोहेतुत्वात् शत्रुरिव ; माता = जननी ; व्यभिचारिणी = परपुरुषरता ; भार्या = पत्नी ; रूपवती = सुन्दरी ; शत्रुः = विवाद-ईर्ष्यादि-हेतुत्वात् शत्रुरिव ; पुत्रः ; अपण्डितः = मूर्खः ; शत्रुः = मनस्तापहेतुत्वात् शत्रुरिव ;॥२२॥🌻

तात्पर्यम्-💝
यस्य पिता ऋणं करोति, सः पुत्रस्य शत्रुरिव भवति (तस्य पुत्रेणैव तदृण-प्रत्यर्पणधुर्याः भारवहनत्वात्) ।  माता च नैकपतिव्रता (समाजे ज्ञातिषु चाकीर्तिकरत्वात्) शत्रुः भवति। सुन्दरी पत्नी तु (सर्वजनैः आकृष्टा, दृश्या च भूत्वा, पत्युर्मनसि ईर्ष्यादिदुर्भावान् जनयतीति कारणेन) शत्रुर्भवति। पुत्रस्तु विद्याहीनः, मूर्खश्च (कुलस्योद्गमे अयोग्यः सन्) शत्रुः भवति।🎊

उषा सङ्का

unread,
Dec 31, 2015, 1:06:47 AM12/31/15
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः - 22🌹

मूलम्-🌸
अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम् ।
विषं सभा दरिद्रस्य  वृद्धस्य तरुणी विषम् ॥२२॥🌺

पदविभागः-🌿
अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम् । विषं सभा दरिद्रस्य  वृद्धस्य तरुणी विषम् ॥२२॥🍁

अन्वयः-🌻
अनभ्यासे (सति) विद्या विषं । अजीर्णे भोजनं विषम् । दरिद्रस्य सभा विषं । वृद्धस्य तरुणी विषम् ॥२२॥🌷

प्रतिपदार्थः-🍀
अनभ्यासे (सति) = पुनःपुनरनुशीलनाभावे, पौनःपुन्येन करणाभावे ; विद्या ; विषं = अपमानस्थानत्वात् विषवद् दुःखप्रदा ; अजीर्णे = कुक्षौ अपक्वे आहारे (सति) ; भोजनं = अन्नं ; विषम् = जीवितापहारकत्वात् विषवद् दुःखप्रदम् ; दरिद्रस्य = धनहीनस्य, निर्धनस्य ; सभा = सदः, परिषद् ; विषं = सन्तापजनकत्वात् विषवद् दुःखप्रदा ; वृद्धस्य = विगतयौवनस्य ; तरुणी = युवा स्त्री ; विषम् = अयोग्यत्वात् विषवद् दुःखप्रदा ; ॥२२॥👑

तात्पर्यम्-🎀
अभ्यासाभावे विद्या हानिकरा भवति । (आवृत्त्यभावे नरः अधिगतविद्योऽपि सन् आवश्यकतायां सत्यां तां नोपयोक्तुं पारयेत् । अतः तस्य विद्यावत्त्वमेव शङ्क्यते जनैः ।) (उदरे जीर्णमभूत्वा यदान्नं यथातथं तिष्ठेत्, तदा अस्वास्थ्यं जनयति । अतः) अपाके खाद्यं विषं भवति । (धनाभावे उत्तमवस्त्रादीनां राहित्यात् जनसमूहेषु अपमानमनुभवेदिति) अकिञ्चनस्य सदः विषतुल्यं भवति । (तरुण्या सह सम्पर्कः यौवने सुख-सन्तानादिकारकं भवति । तदनावश्यकत्वात् शरीरशैथिल्याच्च) वयोऽधिकस्य स्त्रीसम्पर्कः विषं (अनारोग्यकरः) भवति। 💝
(श्लोकसंख्यायां प्रमादेन दोषः आचरितः.. क्षन्तव्या। अद्य प्रभृति या दीयते सैव संख्या साध्वी))

उषा सङ्का

unread,
Jan 1, 2016, 8:28:51 AM1/1/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः - 23🌹

यस्य कस्य प्रसूतोऽपि गुणवान् पूज्यते नरः ।
धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति॥२३॥🌺

यस्य कस्य प्रसूतः अपि गुणवान् पूज्यते नरः । धनुः वंश-विशुद्धः अपि निर्गुणः किं करिष्यति॥२३॥🌸

यस्य कस्य प्रसूतः अपि गुणवान् नरः पूज्यते । वंश-विशुद्धः अपि धनुः निर्गुणः किं करिष्यति॥२३॥🌷

यस्य कस्य = अज्ञातकुलशीलस्य, अकुलीनस्यापि ; प्रसूतः = तत उत्पन्नः ; अपि ; गुणवान् = गुणी, सद्गुणसम्पन्नः, (अथवा धनुषः पक्षे) तन्तुयुतः, मौर्वीयुतः च ; नरः ; पूज्यते = सत्क्रियते, आद्रियते ; वंश-विशुद्धः अपि = श्रेष्ठवंशनिर्मितमपि ; धनुः = कोदण्डं ; निर्गुणः = गुणशून्यं, ज्यारहितम् ; किं करिष्यति = किं लक्ष्यं हन्तुं समर्थो भवति?॥२३॥🍀

सामान्यपुरुषात् उत्पन्नोऽपि (कुलवैशिष्ट्यरहितः, वंशविशुद्धरहितोऽपि यावत् ) नरः यदि सद्गुणसम्पन्नः तर्हि सर्वैः आद्रियते। (अस्यैव वाक्यस्य समर्थनाय उदाहरणं दीयते।) उत्तमकोटिधनुः अपि यदि ज्यारहितं, तर्हि न किमपि लक्ष्यं भेत्तुं उपयुज्यते। (ज्या इत्यस्य गुण इति पर्यायशब्दः। अतः श्लेषः पुरुषेऽपि अनुवर्तते।)।🌿

उषा सङ्का

unread,
Jan 4, 2016, 8:13:12 AM1/4/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-25🌺
मूलम्-
आहारनिद्राभयमैथुनञ्च सामान्यमेतत् पशुभिर्नराणाम् ।
धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः॥२५॥🌸

पदविभागः-🌻
आहार-निद्रा-भय-मैथुनञ्च सामान्यम् एतत् पशुभिः नराणाम् । धर्मः हि तेषाम् अधिकः विशेषः धर्मेण हीनाः पशुभिः समानाः॥२५॥🌷

अन्वयः-✨
आहार-निद्रा-भय-मैथुनञ्च एतत् नराणाम् पशुभिः सामान्यम् । तेषां धर्मः हि अधिकः विशेषः । धर्मेण हीनाः पशुभिः समानाः॥२५॥🍀

प्रतिपदार्थः-👑
आहार-निद्रा-भय-मैथुनञ्च ~ आहारश्च, निद्रा च, भयञ्च, मैथुनं च = रतिश्च, एषां समाहारः ~ आहार-निद्राभयमैथुनम् । एतत् ; नराणां = पुंसां ; पशुभिः = गवादिभिः पशुभिः ; सामान्यं= तुल्यम् एव ; हि = यतः ; तेषां = नराणाम् ; धर्मः = विद्य-विनय-धर्माचारादिः एव ; अधिकः = असदृशः, अतिरिक्तः अंशः, तत्र अवर्तमानः ; विशेषः = भेदकः ; धर्मेण हीनाः = रहिताः नरास्तु ; पशुभिः समानाः = पशुतुल्या एव इत्यर्थः ॥२५॥🌿

तात्पर्यम्-🌹
अन्नादनं, शयनं, प्राणभीतिः, रतीच्छा च चतुष्पादजन्तूनां मनुष्याणां च समानधर्माः भवन्ति। तयोः द्वयोः धर्माचरणमेव भेदः। नराणां धर्मः अतिरिक्ततया विशेषांशो भवति। ये पुरुषाः धर्माचरणरहिताः ते पशुसदृशाः  भवन्ति।🍁

उषा सङ्का

unread,
Jan 4, 2016, 8:17:24 AM1/4/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-24🌹

मूलम्-🌸
हा हा पुत्रक नाधीतं गतास्वेतासु रात्रिषु ।
तेन त्वं विदुषां मध्ये पङ्के गौरिव सीदसि॥२४॥🌷

पदविभागः-🌿
हा हा पुत्रक, न अधीतं गतासु एतासु रात्रिषु । तेन त्वं विदुषां मध्ये पङ्के गौः इव सीदसि॥२४॥🎁

अन्वयः-🌺
पुत्रक, हा हा, एतासु रात्रिषु गतासु न अधीतं । तेन विदुषां मध्ये पङ्के गौः इव त्वं सीदसि॥२४॥🎊

प्रतिपदार्थः-🍁
पुत्रक = हे पुत्र (सम्बोधनम्) ; हा हा = धिक्, अहो, (दुःखकरं) ; एतासु रात्रिषु गतासु = वृथा-अपयातासु रात्रिसमयेषु (दिनसामान्यार्थे) ; न अधीतं = शास्त्रं नाभ्यस्तम्, ज्ञानं न सम्प्राप्तम् ;  तेन = कालयापनेन, अनध्ययनेन च ; विदुषां = पण्डितानां, विद्यावतां ; मध्ये = सभायां, पुरतः ; पङ्के = कर्दमे ; गौः इव = जन्तुविशेष-सदृशः ; त्वं सीदसि = क्लेशमनुभवसि, विषण्णो, आकुलो भवसि॥२४॥✨

तात्पर्यम्-🌻
हे सुत, धिक्। त्वं एतावन्ति नक्तंदिनानि विना विद्याभ्यासं व्यर्थं कालमपनीतवान्। अतः त्वं इदानीं विद्वज्जनसम्मुखं यथा पङ्के पतितः गौः, तथा खिन्नः भवसि।🎀

उषा सङ्का

unread,
Jan 6, 2016, 11:16:31 PM1/6/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-25🌺
मूलम्-
आहारनिद्राभयमैथुनञ्च सामान्यमेतत् पशुभिर्नराणाम् ।
धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः॥२५॥🌸

पदविभागः-🌻
आहार-निद्रा-भय-मैथुनञ्च सामान्यम् एतत् पशुभिः नराणाम् । धर्मः हि तेषां अधिकः विशेषः धर्मेण हीनाः पशुभिः समानाः॥२५॥🌷

अन्वयः-✨
आहार-निद्रा-भय-मैथुनञ्च एतत् नराणाम् पशुभिः सामान्यम् । हि तेषां धर्मः अधिकः विशेषः । धर्मेण हीनाः पशुभिः समानाः॥२५॥🍀

उषा सङ्का

unread,
Jan 7, 2016, 2:13:06 AM1/7/16
to संस्कृते संवदेम
Small correction- In हितोपदेश-सुभाषित-श्लोकाः-24-- एतावन्ति नक्तंदिनानि >> एतावन्ति दिनानि

उषा सङ्का

unread,
Jan 7, 2016, 8:42:38 AM1/7/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-26🌻
🍀
मूलम्-🌸
धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्यते ।
अजागलस्तनस्येव तस्य जन्म निरर्थकम्॥२६॥🌿

पदविभागः-🌻
धर्म-अर्थ-काम-मोक्षाणां यस्य एकः अपि न विद्यते । अजा-गल-स्तनस्य इव तस्य जन्म निरर्थकम्॥२६॥

अन्वयः-✨
यस्य धर्म-अर्थ-काम-मोक्षाणां एकः अपि न विद्यते, तस्य जन्म अजा-गल-स्तनस्य इव निरर्थकम्॥२६॥🍁

प्रतिपदार्थः-👑
यस्य = यस्य पुंसः ; धर्म-अर्थ-काम-मोक्षाणां = धर्मार्थ-काम-मोक्षाख्य-पुरुषार्थ-चतुष्टयस्य मध्ये ; एकोऽपि ; पुरुषार्थः = धर्मादिरूपो ; न विद्यते = (ध्येयत्वेन) न भवति ; तस्य = तस्य पुंसः ; अजागलस्तनस्य इव =  अजा-गल-स्थित-स्तन-वत् लम्बमान-चर्म-खडस्य इव ; जन्म = जननं ; निरर्थकं = निष्फलमेव ; 💝

तात्पर्यम्-🌹
यस्य पुरुषस्य पुरुषार्थ-चतुष्टयस्य मध्ये एकः अपि पुरुषार्थः धर्मो अर्थो कामो मोक्षो वा न विद्यते, तस्य धर्मादीनसेवमानस्य पुंसः दुग्धादि-रहित-बर्कर-गलचर्म-खण्डमिव वृथैव जन्म इत्याशयः ॥२६॥🌺

उषा सङ्का

unread,
Jan 11, 2016, 3:37:51 AM1/11/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः -27🌺

मूलम्-🎀
आयुः कर्म च वित्तं च विद्या निधनमेव च ।
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः॥२७॥🌿

पदविभागः-🌷
आयुः कर्म च वित्तं च विद्या निधनम् एव च । पञ्च एतानि हि सृज्यन्ते गर्भस्थस्य एव देहिनः॥२७॥💝

अन्वयः-🌸
आयुः कर्म च वित्तं च विद्या निधनम् एव च– एतानि पञ्च हि गर्भस्थस्य एव देहिनः सृज्यन्ते ॥२७॥🍀

प्रतिपदार्थः-🌹
आयुरिति । आयुः = जीवितकालः ; कर्म = जीविकासाधनं कर्म, शुभाऽशुभमाचरणं वा ; वित्तं = धनम् ; विद्या ; निधनं = मृत्युः ; एतानि पञ्च ; गर्भस्थस्य = कुक्षिस्थस्यैव ; देहिनः = प्राणिनः, जीविनः, शरीरिणः ; सृज्यन्ते = कल्प्यन्ते ॥२७॥🌻

तात्पर्यम्-🍁
शरीरिणः पञ्च विषयाः– १. जीवनपरिमाणं, २. पोषणाय वृत्तिः शुभाशुभकार्याणि वा, ३. आर्थिकस्थितिः, ४. ज्ञानं, ५. मरणसमयश्च– सर्वे जन्मनः पूर्वं गर्भे स्थिते एव निर्धृताः भवन्ति। (कोऽपि एतेषामभावस्य कारणं प्रयत्नलोप इति वक्तुं न शक्नोति। प्राणिनः मातृगर्भस्थितेः पूर्वमेव तस्य पूर्वजन्मनः कर्ममनुसृत्य आयुप्रमाणादिकं निर्दिश्यते। अनेन निष्कर्षेण, स्थितौ परिणामः नितरां असम्भव इति कथितुं न शक्यते। अभ्यासप्रयत्नाभ्यां तत्र कर्म-धन-विद्याविषयेषु लाभो भवेत्। यदि लाभो न दृश्येत, तर्हि शुचा न कार्या इत्येवास्य श्लोकस्यार्थः।)🎁

उषा सङ्का

unread,
Jan 12, 2016, 1:34:38 AM1/12/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः - 28🌺

मूलम्-🌷
अवश्यं भाविनो भावा भवन्ति महतामपि ।
नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः॥२८॥🎀

पदविभागः-🌹
अवश्यं भाविनः भावाः भवन्ति महताम् अपि । नग्नत्वं नीलकण्ठस्य महा-अहि-शयनं हरेः॥२८॥🎁

अन्वयः-🌿
महताम् अपि भावाः अवश्यं भाविनः भवन्ति । नीलकण्ठस्य नग्नत्वं, हरेः महा-अहि-शयनं ॥२८॥🌻

प्रतिपदार्थम्-🌸
महतामपि = महात्मानामपि ; भावाः = भवितव्यानि ; अवश्यं भाविनः = निश्चयेन भवमानाः घटनाः ;  नीलकण्ठस्य = शिवस्य ; नग्नत्वं = दिगम्बरत्वम् ; हरेः = विष्णोः, महाहिशयनं = शेषशय्या ॥२८॥🎊

तात्पर्यम्-🍁
ये घटनाः नूनं भवमानाः भवन्ति, ते (न केवलं सामान्यानाम् अपि तु) महापुरुषाणामपि जीवने घटन्ते एव। (यद्यपि जगद्रक्षकौ, तथापि तयोः भाग्यमेवं भवति येन) शिवस्य तु दिगम्बरत्वं, विष्णोस्तु शेषे शय्या (परिकल्पिते)।✨

उषा सङ्का

unread,
Jan 15, 2016, 2:45:43 AM1/15/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः - 29🌺

यदभावि न तद् भावि भावि चेन्न तदन्यथा ।
इति चिन्ताविषघ्नोऽयमगदः किं न पीयते॥२९॥🌻

पदविभागः-🌹
यद् अभावि न तद् भावि भावि चेद् न तद् अन्यथा । इति चिन्ता-विषघ्नः अयम् अगदः किं न पीयते॥२९॥🍀

अन्वयः-🍁
‘यद् अभावि, न तद् भावि ; भावि चेद् तद् न अन्यथा’ इति चिन्ता-विषघ्नः अयम् अगदः किं न पीयते॥२९॥💝

प्रतिपदार्थः-🌷
यत् = सुखादि ; अभावि = न भावि ; तत् न भावि = न भवितुं न शक्यते ; चेत् = यदि ; भावि = सुखदुःखादिकं भावि, तत् = भाविसुखादि ; न अन्यया = न दूरीकर्तुं शक्यम् ; इति = इत्ययं ; चिन्ता एव विषं, तद्-हन्ति इति चिन्ताविषघ्नः = चिन्ताविषापहारी ; अगदः = औषधं, किं न = कुतो न ; पीयते = सेव्यते ॥२९॥ 💥

तात्पर्यम्-🌸
यद्भावि, तद्विना प्रयत्नमपि भवति। यन्न भावि तत् प्रयत्न-सहस्रेणापि न भवति। अतः अलं चिन्तया इति-- चिन्तानाम विषं हरन् विचार-औषधः जनैः किमर्थं न सेव्यते? अर्थात्- यद्भावि तद्भविष्यत्येव ; यच्च न भावि तन्न भविष्यत्येव, दैवाधीनमेव सर्वम् ; तत्र किं वृथा चिन्तया आयासेन च - इत्याशयः॥🎁

उषा सङ्का

unread,
Jan 15, 2016, 2:49:29 AM1/15/16
to संस्कृते संवदेम
न भवितुं न शक्यते >> न भवितुं शक्यते

उषा सङ्का

unread,
Jan 16, 2016, 4:39:04 AM1/16/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः - 30🌺
🌻
मूलम्-
न दैवमपि सञ्चिन्त्य त्यजेदुद्योगमात्मनः ।
अनुद्योगेन तैलानि तिलेभ्यो नाप्तुमर्हति॥३०॥
🌷
पदविभागः-
न दैवम् अपि सञ्चिन्त्य त्यजेद् उद्योगम् आत्मनः । अनुद्योगेन तैलानि तिलेभ्यः न आप्तुम् अर्हति॥३०॥
💝
अन्वयः-
दैवम् अपि सञ्चिन्त्य आत्मनः उद्योगं न त्यजेद् । अनुद्योगेन तिलेभ्यः तैलानि न आप्तुम् अर्हति॥३०॥
🌸
प्रतिपदार्थः-
देवम् अपि = दैवम् अस्ति इति, भाग्यम् (तदेव सर्वकार्यसाधकमिति) ; सञ्चिन्त्य = विभाव्य, चिन्तयित्वा ; आत्मनः = आत्माधीनम् ; उद्योगं = पुरुषार्थं ; (यत् स्वयं कर्तुं शक्यते तत्) न त्यजेत् ; (यतः) अनुद्योगेन = उद्योगविकलेन, आलस्येन वा ; (गृहकोणस्थितेभ्योऽपि तैलपूर्णेभ्योऽपि) तिलेभ्यः ; तैलानि ; आप्तुं = प्राप्तुं ; न अर्हति = न योग्यो भवति । 
🌼
तात्पर्यम्-
भाग्यमस्ति इति चिन्तयित्वा स्वस्य हस्ते यदस्ति, तत् प्रयत्नं न त्यक्तव्यम् । प्रयत्नं विना तिलेषु सत्सु अपि तैलं न प्राप्नोति। (उद्योगाऽभावे हि गृहकोणस्थतिलेभ्योऽपि तैललाभो न भवति, किं पुनरभ्युदयसम्पत्तिसुखादिलाभः । एवञ्च दैवस्य आशां विहाय, पुरुषेण उद्योगोऽवश्यं विधेय इत्यर्थः) ॥३०॥🍀

उषा सङ्का

unread,
Jan 17, 2016, 10:03:09 AM1/17/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः - 31🌺
🌷
मूलम्-
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी-
र्दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिध्यति कोऽत्र दोषः॥३१॥
🌹
पदविभागः-
उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीः दैवेन देयम् इति कापुरुषाः वदन्ति । दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या यत्ने कृते यदि न सिध्यति कः अत्र दोषः॥३१॥
🌿
अन्वयः-
उद्योगिनं पुरुष-सिंहम् लक्ष्मीः उपैति । कापुरुषाः ‘दैवेन देयम्’ इति वदन्ति । दैवं निहत्य, आत्म-शक्त्या पौरुषं कुरु । यत्ने कृते यदि न सिध्यति कः अत्र दोषः॥३१॥
🌼
प्रतिपदार्थः-
उद्योगिनम् = प्रयत्नशीलं ; पुरुषसिंहं = (~पुरुषः सिंह इव, पुरुषसिंहस्तं) सिंहवद् विक्रमशालिनं पुरुषश्रेष्ठम् ; लक्ष्मीः = धनं, सम्पत्तिः, सफलता, जयः ; स्वयमेव = स्वत एव ; उपैति = आगच्छति ; कापुरुषाः = उद्योगशक्तिशून्याः, भयशीलाः, कातरा एव, न शूराः ; ‘दैवेन देयम्’ इति = ‘भाग्येन एव दीयते (सर्वं सुखं दुःखं वे’ति) ; वदन्ति = कथयन्ति ; दैवम् = भाग्यं, अदृष्टं ; निहत्य = तन्मुखप्रेक्षितां विहाय, तदुपेक्ष्येति वा ; पौरुषम् = उद्योगं ; कुरु ; यत्ने = उद्योगे ; कृते सति ; यदि = चेत् ; कार्यं न सिध्यति (तर्हि अस्मिन्विषये) ; कः = को वा पुंसः ; दोषः = अपकर्षकारकं ; (नैव कश्चिद्दोष इत्यर्थः) । यद्वा-अत्र = यत्ने एव कः = कोऽपि दोषः = त्रुटिरस्तीति विभाव्यम्, अन्यथा बलवति यत्ने सति अवश्यमेव कार्यं भवत्येवेत्यवधेयमित्यन्ये व्याचक्षते ॥३१॥
🌸
तात्पर्यम्-
यः प्रयत्नशीलः सिंहवत् विक्रमशाली पुरुषः, सः सफलत्वं प्राप्नोति। भयशीलिनः तु ‘भाग्येनैव दीयते’ इति ब्रुवन्ति। अतः भाग्यमुपेक्ष्य, प्रयत्नं कुरु। यदि यत्नं कृत्वा अपि फलं न प्राप्यते, तर्हि न कोऽपि दोषस्तत्र। अथवा, यदि न प्राप्यते फलं, तर्हि ‘यत्ने को दोषः?’ इति चिन्तनीयम्। 🎀

उषा सङ्का

unread,
Jan 18, 2016, 9:35:26 AM1/18/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः - 32🌺
🌷
मूलम्-
यथा ह्येकेन चक्रेण न रथस्य गतिर्भवेत् ।
तथा पुरुषकारेण विना दैवं न सिद्ध्यति॥३२॥
🌹
पदविभागः-
यथा हि एकेन चक्रेण न रथस्य गतिः भवेत् । तथा पुरुषकारेण विना दैवं न सिद्ध्यति॥३२॥
🍀
अन्वयः-
यथा हि एकेन चक्रेण रथस्य गतिः न भवेत् । तथा पुरुषकारेण विना दैवं न सिद्ध्यति॥३२॥
💐
प्रतिपदार्थः-
यथा = येन प्रकारेण ; एकेन ; चक्रेण = रथाङ्गेन ; रथस्य ; गतिः = अग्रे चलनं ; न भवेत् = न भवति ; एवं = तथैव ; पुरुषकारेण = मानवप्रयत्नेन, सहायभूतेन पौरुषेण ; विना ; दैवम् = केवलम् अदृष्टं ; न सिध्यति = नैव फलतीत्यर्थः ॥ ३२ ॥
🌼
तात्पर्यम्-
यथा रथः द्वयोः चक्रयोः चलति, एकेन चक्रेण नाग्रे गन्तुं पारयति, तथैव मनुष्यस्य प्रयत्नेन विना केवलं भाग्येन कार्यं न सिद्ध्यति। 🍁

उषा सङ्का

unread,
Jan 19, 2016, 5:08:12 AM1/19/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः - 33🌺
🌸
मूलम्-
पूर्वजन्मकृतं कर्म तद् दैवमिति कथ्यते ।
तस्मात् पुरुषकारेण यत्नं कुर्यादतन्द्रितः॥३३॥
🌻
पदविभागः-
पूर्व-जन्म-कृतं कर्म तद् दैवम् इति कथ्यते । तस्मात् पुरुषकारेण यत्नं कुर्याद् अतन्द्रितः॥३३॥
🌷
अन्वयः-
पूर्व-जन्म-कृतं कर्म तद् दैवम् इति कथ्यते । तस्मात् पुरुषकारेण अतन्द्रितः यत्नं कुर्याद् ॥३३॥
🍁
प्रतिपदार्थः-
पूर्वेति । पूर्वजन्मनि = गते जन्मकाले ; कृतं यत्कर्म = आचरितानि कार्याणि ; तत् = तदेव ; दैवमिति कथ्यते = ‘दैवपदवाच्यम्, इतोऽन्यद्दैवं नाम किञ्चिदपि नास्ति ; तस्मात् = पुरुषकारेण विना दैवस्य सिद्धेरभावात् ; पुरुषकारेण = पुरुषार्थमास्थाय, प्रयत्नं  कृत्वा ; अतन्द्रितः = आलस्यवर्जितः, सावधानः सन् ; पुमान् = पुरुषः, मनुष्यः ; यत्नं कुर्यात् = उद्यमं कुर्यात्॥३३॥
🌹
तात्पर्यम्-
गते जन्मनि यद्यदाचरितं कर्म वर्तते, तदेव अस्मिन् जन्मनि भाग्यरूपेण परिणमति। अतः (पूर्वकाले वा भवतु) प्रयत्नेनैव भाग्यस्यापि कल्पितत्वात्, सावधानो भूत्वा प्रयत्नः अवश्यं करणीयः। 💐

उषा सङ्का

unread,
Feb 9, 2016, 1:09:59 AM2/9/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः - 34🌺
🌸
मूलम्-
यथा मृत्पिण्डतः कर्ता कुरुते यद् यदिच्छति ।
एवमात्मकृतं कर्म मानवः प्रतिपद्यते॥३४॥
🌷
पदविभागः-
यथा मृत्पिण्डतः कर्ता कुरुते यद् यद् इच्छति । एवम् आत्मकृतं कर्म मानवः प्रतिपद्यते॥३४॥
🌹
अन्वयः-
यथा मृत्पिण्डतः कर्ता यद् यद् इच्छति (तत्तत्) कुरुते । एवम् मानवः आत्मकृतं कर्म प्रतिपद्यते॥३४॥
🍀
प्रतिपदार्थः-
यथेति । यथा मृत्पिण्डतः = मृत्तिकासंघेन ; कर्ता = (अत्र) कुलालः ; यद्यत् = शरावोदञ्चन-घटादिकम् ; इच्छति = कर्तुं वाञ्छति ; तत्तत्-कुरुते = स्वप्रयत्नेन सम्पादयति ; एवं = पूर्वोपपादितया रीत्या ; मानवः = कर्ता ; आत्मकृतमेव = स्वयमाचरितम् ; कर्म = कर्मफलम् ; धटादिकञ्च ; प्रतिपद्यते = लभते, प्राप्नोति ॥३४॥
🍁
तात्पर्यम्-
यथा कुलालः मृत्तिकामुपयुज्य यद्वस्तु आवश्यकं तत् निर्माति, (कार्येषु उपयुनक्ति च) तथा मनुष्योऽपि स्वयमाचरितस्य कर्मणः एव फलं भुनक्ति।🌼

उषा सङ्का

unread,
Feb 9, 2016, 1:10:19 AM2/9/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः - 35🌺
मूलम्-
काकतालीयवत् प्राप्तं दृष्ट्वापि निधिमग्रतः ।
न स्वयं दैवमादत्ते पुरुषार्थमपेक्षते॥३५॥
🌸
पदविभागः-
काक-तालीय-वत् प्राप्तं दृष्ट्वा अपि निधिम् अग्रतः । न स्वयं दैवम् आदत्ते पुरुषार्थम् अपेक्षते॥३५॥
🌹
अन्वयः-
काक-तालीय-वत् प्राप्तं निधिम् अग्रतः दृष्ट्वा अपि दैवं स्वयं न आदत्ते । पुरुषार्थम् अपेक्षते॥३५॥
🌷
प्रतिपदार्थः-
काकस्य आगमनमिव, तालस्य पतनमिव-काकतालं, काकतालमिव ~ काकतालीयं = सहसा उपनतम् ; तद्वत् = काकतालीयवत् = काकागमनेन तालपतनवद्, कस्मात्, दैववशात् ; प्राप्तं = लब्धं, निधिम् = शेवधिम् = (खजाने को) ; अग्रतः = पुरतः, दृष्ट्वापि ; दैवं = भाग्यं ; स्वयम् = स्वतः ;  न आदत्ते = न गृह्णाति ; किन्तु-- आदाने-पुरुषार्थे = हस्तचालनादिकं पुरुषव्यापारम् ; अपेक्षते = आश्रयते एव ; सहायमपेक्षते एव ॥३५ ॥
🍁
तात्पर्यम्-
काकतालीयमिव (कस्यचित् मनुष्यस्य) पुरतः पतितं धनमपि भाग्येन न गृह्णाति । तदर्थमपि प्रयत्न अपेक्ष्यते। 🌻

उषा सङ्का

unread,
Feb 10, 2016, 5:19:08 AM2/10/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः - 36🌺
🌷
मूलम्-
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥३६॥
🍁
पदविभागः-
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥३६॥
🌻
अन्वयः-
उद्यमेन हि कार्याणि सिध्यन्ति। मनोरथैः न। सुप्तस्य सिंहस्य मुखे मृगाः न हि प्रविशन्ति ॥३६॥
🌹
प्रतिपदार्थः-
उद्यमेन = उद्योगेन, प्रयत्नेन ; सिध्यन्ति = सफलानि भवन्ति ; कार्याणि = उद्दिष्टानि कर्माणि ; मनोरथैः = कामनाभिः ; हि = यतः ; सुप्तस्य = शयितस्य (बुभुक्षितस्यापि) ; सिंहस्य ; मुखे= वदने ; मृगाः = पशवः ; न प्रविशन्ति = आहारो न भवन्ति ; ॥३६॥
🌸
तात्पर्यम्-
आकाङ्क्षितैः, 'ममेदं भवतु' 'सिध्यतु ममेद'मित्यादि-मनोरथमात्रेण कर्माणि न सम्पद्यन्ते । सिंहः यदा शेते, तदा (स क्षुदा पीडित इति कृत्वा स्वयमेवागत्य) जन्तवः तस्य मुखान्ते (अन्नं भूत्वा) न प्रविशन्ति ।किन्तु तदर्थं सिंहोऽपि यत्नं करोति । एवमेव सर्वैरपि यत्नो विधेयः।

उषा सङ्का

unread,
Feb 12, 2016, 3:22:31 AM2/12/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः - 37🌺
🌷
मूलम्-
मातापितृकृताभ्यासो गुणितामेति बालकः । 
न गर्भच्युतिमात्रेण पुत्रो भवति पण्डितः ॥३७॥
🌹
पदविभागः-
माता-पितृ-कृत-अभ्यासः गुणिताम् एति बालकः ।  न गर्भ-च्युति-मात्रेण पुत्रः भवति पण्डितः ॥३७॥
🍁
अन्वयः-
माता-पितृ-कृत-अभ्यासः बालकः गुणिताम् एति ।  गर्भ-च्युति-मात्रेण पुत्रः पण्डितः न भवति ॥३७॥
🌸
प्रतिपदार्थः-
मात्रा च पित्रा च कृतः, कारितः अभ्यासो येनासौ ~ मातापितृ-कृताऽभ्यासः = मातापितृभ्यां कारिताभ्यासः ; बालकः = पुत्रः ; गुणितां = विद्वत्त्वं, गुणवत्त्वञ्च ; एति = प्राप्नोति, लभते ; केवलं गर्भ-च्युति-मात्रेण = जन्मग्रहण-मात्रेणैव ; पुत्रः = बालकः ; पण्डितो न भवति ॥३७॥
🌻
तात्पर्यम्-
माता पिता च यं बालकं (सद्गुणानां) अभ्यासं कारयन्ति, स एव गुणी भवति। जन्मप्राप्तिमात्रेण न कोऽपि पुत्रः पण्डितः भवति। (अतः शिक्षणमावश्यकम्।) 🎀

उषा सङ्का

unread,
Feb 14, 2016, 5:42:04 AM2/14/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः - 38🌺
🌼
माता शत्रुः पिता वैरी येन बालो न पाठितः ।
न शोभते सभामध्ये हंसमध्ये बको यथा॥३८॥
🌷
पदविभागः-
माता शत्रुः पिता वैरी येन बालः न पाठितः । न शोभते सभा-मध्ये हंस-मध्ये बकः यथा॥३८॥
🌹
अन्वयः-
माता शत्रुः पिता वैरी येन बालः न पाठितः । सभा-मध्ये (सः) हंस-मध्ये यथा बकः (तथा) न शोभते ॥३८॥
🌸
प्रतिपदार्थः-
माता = जननी ; पिता = जनकः ; येन = पित्रा ; बालः = पुत्रः ; न पाठितः = अध्ययनं न कारितः, शिक्षा न प्रापयितः ; सभामध्ये = पण्डितानां समवाये, विद्वत्समाजे ; हंसमध्ये बक इव ; न शोभते = न प्रतिष्ठां लभते। 'याभ्या'मिति पाठान्तरम्॥३८॥
🌻
तात्पर्यम्-
यं बालं माता पिता च न ज्ञानं प्रदापयन्ति, तौ (तस्य) शत्रू इव भवतः । सः विदुषां पुरतः न स्थातुं शक्नोति । हंसानां समूहे बक इव स भवति।🍁
यौ पितरौ स्वपुत्रं न शिक्षयन्ति तौ अशिक्षिताय स्वपुत्राय शत्रू भवतः, हंसानां समूहे बकः यथा न प्रकाशते तथैवायमशिक्षितः बालोपि विदुषां समूहे न शोभते, तस्मात् पितृभ्यामवश्यमपत्यानि शिक्षणीयानीति अस्य भावः.।

उषा सङ्का

unread,
Feb 16, 2016, 6:20:14 AM2/16/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः - 39🌺
🌼
मूलम्-
रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः॥३९॥
🌹
पदविभागः-
रूप-यौवन-सम्पन्नाः विशाल-कुल-सम्भवाः । विद्याहीनाः न शोभन्ते निर्गन्धाः इव किंशुकाः॥३९॥
🌷
अन्वयः-
रूप-यौवन-सम्पन्नाः विशाल-कुल-सम्भवाः (अपि) विद्याहीनाः निर्गन्धाः किंशुकाः इव न शोभन्ते ॥३९॥
🍁
प्रतिपदार्थः-
रूपेण = सौन्दर्येण, शरीरकान्त्या च ; यौवनेन = युवत्वकृतेन वपुः ; सम्पन्नाः = शोभिताः अपि ; किञ्च--विशालकुलमम्भवाः = महाकुलप्रसूता अपि ; विद्याहीनाः = मूर्खाः ; निर्गन्धाः = (सुरूपा अपि) गन्धशून्याः, किंशुकाः = पलाशकुसुमानीव, न शोभन्ते = लोके न विराजन्ते ॥३९॥
🌻
तात्पर्यम्-
सुन्दराः, युवकाः, उन्नत-कुले जाताः अपि नराः ज्ञानेन विना, गन्धहीन-किंशुक-पुष्पाणीव न शोभन्ते ।✨

उषा सङ्का

unread,
Feb 18, 2016, 9:52:44 AM2/18/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-40🌺
🌷
मूलम्
मूर्खोऽपि शोभते तावत् सभायां वस्त्रवेष्ठितः । 
तावच्च शोभते मूर्खो यावत्किञ्चिन्न भाषते ॥४०॥
🌻
पदविभागः-
मूर्खः अपि शोभते तावत् सभायां वस्त्रवेष्ठितः । तावत् च शोभते मूर्खः यावत्किञ्चिन्न भाषते ॥४०॥
🌸
अन्वयः-
मूर्खः अपि सभायां वस्त्रवेष्ठितः तावत् शोभते । मूर्खः यावत् किञ्चित् न भाषते तावत् च शोभते ॥४०॥
🌼
प्रतिपदार्थः-
मूर्खः = मूढबुद्धिः, अल्पधीः, अर्धज्ञानी ; शोभते = साधु दृश्यते ; सभायां = विद्वद्गोष्ठ्याम् ; तावत् = निश्चयेन ; वस्त्रवेष्टितः = महार्ह-पट्ट-वस्त्रावृतः, (दुशाला ओढे हुए) ; भाषते = वदति ॥४०॥
🌹
तात्पर्यम्-
मूढः पुरुषः अपि (सुसज्जीभूय सुन्दर)वस्त्राणि धृत्वा सभायां निश्चयेन शोभनो दृश्यते । यावत्कालं सः किमपि न वदति, तावत् पर्यन्तं सः (पण्डित इव) आदरं प्राप्नोति।🎀

उषा सङ्का

unread,
Feb 24, 2016, 7:28:38 AM2/24/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-41🌻
🌺
मूलम्
काचः काञ्चनसंसर्गाद् धत्ते मारकतीर्द्युतीः ।
तथा सत्सन्निधानेन मूर्खो याति प्रवीणताम्॥४१॥
🍁
पदविभागः-
काचः काञ्चन-संसर्गाद् धत्ते मारकतीः द्युतीः । तथा सत्सन्निधानेन मूर्खः याति प्रवीणताम्॥४१॥
🍀
अन्वयः-
काचः काञ्चन-संसर्गाद् मारकतीः द्युतीः धत्ते । तथा मूर्खः सत्सन्निधानेन प्रवीणताम् याति ॥४१॥
💐
प्रतिपदार्थः-
काचः = मृत्तिकाभेदः ; काञ्चनम् = सुवर्णम् ; संसर्गाद् = सम्पर्कात् ; मारकतीं = मरकतमणि-सम्बन्धिनीं, तत्तुल्यतामिति यावत् [मरकतः=पन्ना] ; द्युतीः = प्रकाशान् ; सत्सन्निधानेन = सतां साङ्गत्येन ; प्रवीणतां = कुशलतां, पाण्डित्यञ्च ; याति = लभते॥४१॥
🌷
तात्पर्यम्-
काञ्चनस्य सम्पर्केण काचः अपि मरकतमणिरिव कान्तिं प्राप्नोति। तथैव बुद्धिहीनोऽपि सज्जनानां सङ्गतौ कौशल्यं लभते।💐

उषा सङ्का

unread,
Feb 27, 2016, 9:34:44 AM2/27/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-42🌹
🌺
मूलम्-
हीयते हि मतिस्तात हीनैः सह समागमात् ।
समैश्च समतामेति विशिष्टैश्च विशिष्टताम्॥४२॥
🌻
पदविभागः-
हीयते हि मतिः तात हीनैः सह समागमात् । समैः च समताम् एति विशिष्टैः च विशिष्टताम्॥४२॥
🍁
अन्वयः-
तात, हीनैः सह समागमात् मतिः हीयते हि । समैः च समताम् एति । विशिष्टैः च विशिष्टताम्॥४२॥
🌷
प्रतिपदार्थः-
‘ताते’ति सम्बोधनम् ; तात = हे वत्स! ; हीनैः = अधमैः, मूर्खैः ; समागमात् = मित्रत्वात्, साङ्गत्यात् ; मतिः = बुद्धिः ; हीयते = अल्पतामेति, क्षयमेति ; समैः = स्वात्मतुल्यैः, ये समानबुद्धयः भवन्ति तैः सह ; समतां = समान-बौद्धिक-स्थितिं ; विशिष्टैः = स्वस्माद् अधिकैः, ये विलक्षण-बुद्धयः भवन्ति तैः सह ; विशिष्टता= वैदुष्यं, महत्त्वञ्च ॥४२॥
🌿
तात्पर्यम्
हे वत्स, अल्पबुद्धिभिः सहवासेन धीशक्तिः क्षीयते। स्वतुल्यधीभिः सह साङ्गत्येन समा धीस्थितिः भवति। स्वस्मात् विशेषेण अधिकमतिभिः सह सख्यतया नरः स्वयमपि महान् भवति।✨

उषा सङ्का

unread,
Mar 13, 2016, 9:52:27 AM3/13/16
to संस्कृते संवदेम
🙏हितोपदेश-सुभाषित-श्लोकाः-43🌺
🌼
मूलम्-
नाद्रव्ये निहिता काचित् क्रिया फलवती भवेत् ।
न व्यापारशतेनापि शुकवत् पाठ्यते बकः॥४३॥
🌷
पदविभागः-
न अद्रव्ये निहिता काचित् क्रिया फलवती भवेत् । न व्यापार-शतेन अपि शुकवत् पाठ्यते बकः॥४३॥
🌸
अन्वयः-
अद्रव्ये निहिता काचित् क्रिया फलवती न भवेत् । व्यापार-शतेन अपि बकः शुकवत् न पाठ्यते ॥४३॥
🍁
प्रतिपदार्थः-
देव = हे राजन् ; अद्रव्ये = अयोग्ये, अपात्रे च ; निहिता = योजिता, स्थापिता च ; क्रिया = संस्कारः, शिक्षा च = शिक्षणं ; फलवती = सफला ; व्यापार-शतेनापि = उपाय-शतेनापि ; बकः = पक्षिविशेषः ; न खलु ; पाठ्यते=पाठयितुं शक्यते॥४३॥
🍀
तात्पर्यम्-
अपात्रं शिक्षयित्वा संस्कारयितुं कृतानि प्रयतनानि न कदापि सफलानि भवन्ति। बकः शुकवत् भणितुं न पारयति। अतः तं शिक्षयितुं प्रयत्नः व्यर्थो भवति।

उषा सङ्का

unread,
Mar 31, 2016, 5:32:16 AM3/31/16
to संस्कृते संवदेम
🙏हितोपदेश-सुभाषित-श्लोकाः-44🌺
🌷
मूलम्-
अस्मिंस्तु निर्गुणं गोत्रे नापत्यमुपजायते ।
आकरे पद्मरागाणां जन्म काचमणेः कुतः॥४४॥
🌹
पदविभागः-
अस्मिन् तु निर्गुणं गोत्रे न अपत्यम् उपजायते । आकरे पद्म-राणाणां जन्म काचमणेः कुतः॥४४॥
🍀
अन्वयः-
अस्मिन् गोत्रे तु निर्गुणम् अपत्यम् न उपजायते । पद्म-रागाणाम् आकरे काचमणेः जन्म कुतः॥४४॥
🌻
प्रतिपदार्थः-
अस्मिन् = भवतां प्रसिद्धे ; गोत्रे = वंशे, (अत्र) राजकुले ; निर्गुणं = गुणशून्यम् ; अपत्यं = सन्तानं, पुत्र इति यावत्, तोकं ; न उपजायते = न उत्पद्यते ; यतः ; पद्मरागाणां = तन्नामविशिष्ट-मणयः तेषां ; आकरे = खनौ ; काचमणेः = काचस्य ; जन्म = उत्पत्तिः ; कुतः = कस्माद् हेतोः भवति? नैव संभवतीत्यर्थः ॥४४॥
🍁
तात्पर्यम्-
(सद्गुणविशिष्टे) अस्मिन् राजकुले गुणशून्यं सन्तानं न कदापि सञ्जायते। (अमूल्ये) पद्मरागमणीनाम् उत्पत्तिस्थाने (अयोग्यः) काचमणिः कथमुत्पद्यते

उषा सङ्का

unread,
Apr 2, 2016, 3:03:25 AM4/2/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-45🌺
🍁
मूलम्-
कीटोऽपि सुमनः सङ्गादारोहति सतां शिरः ।
अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः॥४५॥
🌷
पदविभागः-
कीटः अपि सुमनः सङ्गाद् आरोहति सतां शिरः । अश्मा अपि याति देवत्वं महद्भिः सुप्रतिष्ठितः॥४५॥
अन्वयः-
कीटः अपि सुमनः सङ्गाद् सतां शिरः आरोहति । अश्मा अपि महद्भिः सुप्रतिष्ठितः (भूत्वा) देवत्वं याति ॥४५॥
🌼
प्रतिपदार्थः-
कीटः = भृङ्गादिः । पामरश्च । सुमनः सङ्गात् = पुष्पसम्बन्धात् । विद्वत्सङ्गाच्च । सतां = सज्जनानां, महताञ्च । शिरः = मस्तकमपि । आरोहति = तत्पूज्यो भवति । अश्मा = पाषाणः । महद्भिः = विद्वद्भिः, श्रेष्ठैश्च । सुप्रतिष्ठितः = स्थापितः ॥४५॥
🌹
तात्पर्यम्-
(अस्मिन् पद्ये अल्पवस्तूनां महद्वस्तुसाङ्गत्येन महत्त्वप्राप्तिः उक्ता।) कीटाः पुष्पाणां साङ्गत्येन सज्जनस्य शिरसि न्यस्यते। पाषाणश्च श्रेष्ठैः जनैः मन्दिरादिषु संस्थापितः, प्रतिष्ठितः सन् देवः भूत्वा पूज्यत्वं प्राप्नोति। (अत्र कीटस्य, पाषाणस्य च तुलना पामरजनेन, पुष्पानां, प्रतिष्ठया देवत्वप्राप्तेः च पण्डितजनेन तुलना कृता।)🍀

उषा सङ्का

unread,
Apr 3, 2016, 4:37:26 AM4/3/16
to संस्कृते संवदेम
हितोपदेश-सुभाषित-श्लोकाः-46🌺
🌻
मूलम्-
यथोदयगिरेर्द्रव्यं सन्निकर्षेण दीप्यते ।
तथा सत्सन्निधानेन हीनवर्णोऽपि दीप्यते॥४६॥
🌼
पदविभागः-अन्वयः-
यथा उदयगिरेः द्रव्यं सन्निकर्षेण दीप्यते । तथा सत्सन्निधानेन हीनवर्णः अपि दीप्यते॥४६॥
🍀
प्रतिपदार्थः-
उदयगिरेः = उदयपर्वतस्य ; द्रव्यं = पाषाणवृक्षादिकं वस्तुजातमपि ; सन्निकर्षेण = सामीप्यं, सम्पर्कः ; दीप्यते = सूर्यसम्पर्कात् प्रकाशते, शोभते ; हीनवर्णः = बुद्धिविषये नीचः, मूढः ; दीप्तिरहितोऽपि = प्रज्ञादिगुणैः विहीनोऽपि; दीप्यते = संवर्ध्यते ॥४६॥
🌿
तात्पर्यम्-
यथा सूर्योदयानन्तरम् उदयाचलसमीपे स्थितं सर्वं वस्तु सूर्यप्रकाशसम्पर्केण शोभते, तथैव मूर्खजनः सतां सन्निधौ विवेकशीली भवति। तस्य बुद्धिविकासो जायते।🌹
Reply all
Reply to author
Forward
0 new messages