✍प्रस्तावविषयः-- मौनम्🔕
“मुनेर्भाव मौनमिति। वाग्व्यापारराहित्य”मिति यावत्। व्यक्तां वाचमकृत्वा स्थितिः मौनम्। मुनयः मौनिनः सन्तः ध्यानस्थितौ तप आचरन्ति। देवताराधनस्यान्तर्भागत्वेन मौनेन चिन्तनस्यापि उत्तमफलं भवति। प्रवाचनाय महती शक्तिरावश्यकी।
दीर्घकालं यावत् प्रलपनेन शक्तेः ह्रासः भवति। अतः अनुभवज्ञैः उच्यते यत् मौनेन कञ्चित् कालं स्थातव्यमिति। वाक्पटुत्वं तु उत्तमं लक्षणमिति श्लाघ्यते किन्तु वाचालत्वं तु दुर्लक्षणम्। कदाचित् ‘मौनिनः कलहो नास्ती’ति लोकोक्तिः सत्यं प्रतिभाति। सति विवादे कदाचित् स्थानत्यागः, मौनावलम्बनं च महते उपयोगाय।
व्याकुलतायां, भये, दुःखे चेत्यादिषु भावेषु कदाचित् मनुष्यः वक्तुमिच्छायाः अभावात् तूष्णीं भवति। कदाचित् पीडाहतचेतसः, भयोपहताः बालाः विहतचेष्टाः सन्तः मौनेन पश्यन्ति। तत् केवलं शब्दराहित्यं, यतो हि मनसि ते महदुद्वेजिताः भवन्ति। मौनं द्विविधं- मानसिकं वाचिकं चेति। मुखेन शब्दस्योच्चारणं नितरां स्थगयित्वा स्थितिः मौनमिति उच्यते। तदानीमपि मनसि भावोद्वेगः भवेत्। तस्यापि नियन्त्रणं कर्तव्यम्। मौनं व्रततयापि आचर्यते। तस्य महत्फलमुक्तं धर्मग्रन्थेषु। सप्ताहे एकाहं मौनमालम्ब्य तिष्ठन्ति केचन साधकाः। स्त्रियः अपि माङ्गल्याभिवृद्धये, गृहजनानां पुण्याभिवृद्धये, इष्टसिद्धये च मौनमाचरन्ति॥