गुणिगणगणनाऽरम्भे न पतति कठिनी ससम्भ्रमाद् यस्य ।
तेनाम्बा यदि सुतिनी वद वन्ध्या कीदृशी भवति ?॥१६॥
अयं हितोपदेशस्थः श्लोकः। अस्मिन् श्लोके कठिनी इति पदं वर्तते।
तस्यार्थः व्याख्यात्रा एवं अर्थः दत्तः- खडिया, कलम, pencil इति भाषा। (गुरुप्रसादशास्त्री- पृ.6) किमयं शब्दः pencil अथवा pen इत्यर्थे उपयोक्तुं शक्यते? अथवा chalk इत्यस्यैव भवेत्..
chalk इति शब्दाय --सुधाखण्डः इति शब्दाः संस्कृतभारत्या प्रयुज्यते।
----------------
आप्टेकोशे एवम्--
कठिनिका kaṭhinikā कठिनी kaṭhinī
कठिनिका कठिनी 1 Chalk. -2 The little finger.
शब्दकल्द्रुमे-
कठिनी, स्त्री, (कठिन + गौरादित्वात् ङीष् ।) खडिका । इति मेदिनी । खडी इति भाषा ॥ तत्पर्य्यायः । पाकशुक्ला २ अमिलाधातुः ३ कक्- खटी ४ खटी ५ खडी ६ वर्णलेखिका ७ । इति रत्नमाला ॥ धातूपलः ८ कठिनिका ९ । इति हारावली ॥ (तथा च हितोपदेशे १ । १८ । “गुणिगणगणनारम्भे न पतति कठिनी सस- म्भ्रमाद् यस्य । तेनाम्बा यदि सुतिनी वद बन्ध्या कोदृशी नाम” ॥) वाचस्पत्ये- कठिनी¦ स्त्री कठिन + गौरा० ङीष् । मूमौ लेखनसाधने द्रव्ये । खठिकायाम् । “कठिनोः क्षिणोतीति” नैषधम् “गुणि- जनगणनारम्भे न पतति कठिनी ससम्भमा यस्य । तेनाम्बा यदि सुतिनी वत बन्ध्या कीदृशी भवति” नीतिसारः । स्वार्थे कन् कठिनिकाषि तत्रार्थे । |