पेजावर-यतिर् विश्वप्रसन्न-तीर्थश् चतुर्-वेदी ← पेजावर-यतिर् विश्वेश-तीर्थः ← वेङ्कट-सुब्बवधानी मैसूरु-नगराद् आनीतः (अदमारु-मठस्य विद्यामान्यतीर्थेन प्रायेण)।
इति तैत्तिरीयाध्ययनस्य काचन परम्परा।
रुचिरं त्व् एतत् - द्रविडपाठो ऽत्राधीतः, नान्ध्रपाठः। (द्रविडपाठस् तु भट्टभास्करेण व्याख्यातो ऽपि सद्यः श्रीवैष्णवैर् एव रक्ष्यतय् इति प्रत्यक्षम्।)
कथम् एतत् संवृत्तम्? अप्य् अयं स्मार्तो
वेङ्कट-सुब्बावधानी +अनितरस्मार्त-साधारणतया द्राविडपाठेन शिक्षितः (मैसूरु-परकाल-मठादि-श्रीवैष्णवैः)?
अस्य विषये किमपि ज्ञायते चेत् सूचयत ।
विश्वप्रसन्नतीर्थयतिः पृष्टः, किन्तु न स वेत्ति।