सम्भावना and अवधारणा

79 views
Skip to first unread message

dhaval patel

unread,
Jul 2, 2011, 10:34:53 PM7/2/11
to samskrita
I have some doubt about the following sentences in a book called samAsacakram...

(1)  सम्भावनापूर्वपदः कर्मधारयो यथा - गुण इति बुद्धिः गुणबुद्धिः 

This is a type of karmadhAraya. But I am not able to comprehend the meaning of sambhAvanA
and how is the example गुण इति बुद्धिः गुणबुद्धिः translated into english?

(2) अवधारणापूर्वपदः कर्मधारयो यथा - विद्यैव धनं विद्याधनम्‌ । अविद्यैव शृङ्खला अविद्याशृङ्खला ।

Here what is the meaning of  अवधारणा in this context.



Thanking you in advance,
Dhaval

श्रीमल्ललितालालितः

unread,
Jul 4, 2011, 2:21:22 PM7/4/11
to sams...@googlegroups.com


I hope shrI H. N. Bhat will come to help you. 

2011/7/3 dhaval patel <drdhav...@gmail.com>

(1)  सम्भावनापूर्वपदः कर्मधारयो यथा - गुण इति बुद्धिः गुणबुद्धिः ।

यद्यपि गुणेषु दोषदृष्टिरसूयेत्यादाविवात्रापि गुणबुद्धेर्विषयान्वेषणेन तस्मिन्गुणत्वसम्भाविका धीर्गुणबुद्धिरिति वक्तुं शक्यते तथापि तुल्याधिकरणपदसमुदायविशेषत्वरूपकर्म्मधारयत्वं कथमिति चिन्त्यम् । नीलोत्पलादिष्विवात्रैकपदार्थेऽपरपदार्थस्य तादात्म्याभावात् । न हि गुणे एव बुद्धित्वं बुद्धौ वा गुणत्वम् । किन्तु गुणत्वप्रकारकत्वं धियि ।


(2) अवधारणापूर्वपदः कर्मधारयो यथा - विद्यैव धनं विद्याधनम्‌ । अविद्यैव शृङ्खला अविद्याशृङ्खला ।

Here what is the meaning of  अवधारणा in this context.

अवधारणा निश्चयः ।
विद्यामात्रस्य धनत्वमाद्यपदमपरञ्चाविद्यामात्रस्य शृङ्खलात्वं ज्ञापयति । मात्रपदं मुख्यत्वपरम् । कर्म्मधारयत्वञ्च समानविभक्तिकत्वेनैकपदार्थेऽपरपदार्थस्य तादात्म्यज्ञापनात् । तथा चाद्ये विद्याधनयोरपरस्मिंश्चाविद्याशृङ्खलयोरभेदो ज्ञायते ।

dhaval patel

unread,
Jul 5, 2011, 11:21:35 PM7/5/11
to sams...@googlegroups.com
Thank you
श्रीमल्ललितालालितः,

The avadhAraraNA is mostly clear to me now.
But I am still confused about the context in which iti is used in the first type (sambhAvanApUrvapada).
I would be able to comprehend it better if you can provide English or Devanagari version,

Thanking you,
Dr. Dhaval Patel,
www.sanskritworld.in


2011/7/4 श्रीमल्ललितालालितः <lalitaa...@gmail.com>
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To post to this group, send email to sams...@googlegroups.com.
To unsubscribe from this group, send email to samskrita+...@googlegroups.com.
For more options, visit this group at http://groups.google.com/group/samskrita?hl=en.

श्रीमल्ललितालालितः

unread,
Jul 6, 2011, 6:32:11 AM7/6/11
to sams...@googlegroups.com
2011/7/6 dhaval patel <drdhav...@gmail.com>


But I am still confused about the context in which iti is used in the first type (sambhAvanApUrvapada).

Actually, it's true for me too. 
I posted only a sambhAvanA. :)
 
I would be able to comprehend it better if you can provide English or Devanagari version,


I think by devanAgarI you mean hindi, as I wrote in Sanskrit language and Devanagari Script already.
I prefer to break my answer in small sentences to make it easy. I'll be posting it soon but not in Hindi or English.

श्रीमल्ललितालालितः

unread,
Jul 6, 2011, 6:46:55 AM7/6/11
to sams...@googlegroups.com
(1)  सम्भावनापूर्वपदः कर्मधारयो यथा - गुण इति बुद्धिः गुणबुद्धिः ।

यद्यपि गुणेषु दोषदृष्टिरसूयेत्यादाविवात्रापि गुणबुद्धेर्विषयान्वेषणेन तस्मिन्गुणत्वसम्भाविका धीर्गुणबुद्धिरिति वक्तुं शक्यते तथापि तुल्याधिकरणपदसमुदायविशेषत्वरूपकर्म्मधारयत्वं कथमिति चिन्त्यम् । नीलोत्पलादिष्विवात्रैकपदार्थेऽपरपदार्थस्य तादात्म्याभावात् । न हि गुणे एव बुद्धित्वं बुद्धौ वा गुणत्वम् । किन्तु गुणत्वप्रकारकत्वं धियि ।

गुणबुद्धिपदार्थः क इति चिन्त्यम् । गुणविषयिणी बुद्धिरिति स्यात् । 
यथा गुणेषु दोषदृष्टिः असूया इत्युच्यते । तथैव बलादिषु गुणबुद्धिरित्युक्तिः सम्भवति । तथा च बलादिः गुणबुद्धेः विषयः ।
अपि च बलादिषु बलादिबुद्धिरेव युक्ता नेतरा । बलादेः स्वरूपेण गुणत्वाभावात् । गुणत्वं तु तस्योपकारकत्वेन स्थलविशेषे सम्भाव्यते । अत एव बलादिषु गुणबुद्धिः नाम गुणत्वसम्भाविका धीः । एवञ्च गुणधीः = गुण इति धीः = गुणत्वसम्भाविका धीः ।
इदानीमत्र समासे गुणपदधीपदयोस्समानविभक्तिकत्वात् कर्मधारयत्वमपि स्वीकार्यमेव ।
एवञ्च समाहितमाकाङ्क्षितं तव ।

इदानीमत्र शङ्का एका - 
नीलोत्पलादिषु समानाधिकरणत्वमात्रं नास्ति । किन्तु तत्र नीलस्योत्पलस्य च तादात्म्यमपि ज्ञायते सामानाधिकरण्यात् । अत एव तादात्म्यज्ञापकसामानाधिकरण्यविशिष्टपदसमुदायविशेषः कर्मधारय इति वक्तव्यम् । तादृशश्च कर्मधारयो न गुणबुद्धिस्थले वर्त्तते । गुणबुद्धिपदयोस्सामानाधिकरण्येऽपि तादात्म्याभावात् । न हि गुणो बुद्धिः , किन्तु बलादिरेव । न वा बुद्धिरेव गुणः , बलादेरेव तथात्वात् । इति ।

अत्र किं समाधानं स्यादित्यन्वेष्टव्यम् ।

कश्चिद्विद्वानत्र पृष्ट आह -  न समासचक्रोक्तविभागाः पाणिनीयमूलाः इति । अयं तस्याशयः - पाणिनीये तादृशनामोक्तिपूर्वककर्मधारयविभागो न दृश्यत इति ।
 

G S S Murthy

unread,
Jul 7, 2011, 1:49:05 AM7/7/11
to sams...@googlegroups.com

Dear Dr.Dhaval,

सम्भावनापूर्वपदकर्मधारयः: तमाल इति वृक्षः तमालवृक्षः, गुण इति बुद्धिः गुणबुद्धिः, सह्य इति नगः सह्यनगः

अवधारणापूर्वपदकर्मधारयः विनय एव धनम् विनयधनम्, मुखमेव चन्द्रः मुखचन्द्रः

सम्भावना means supposing, fancying

अवधारणा means affirmation, emphasis, limitation

My view is that

  1. संभावना conveys that तमाल is a sub-category of वृक्ष.If I may borrow from mathematics, तमाल is an element of group वृक्ष, गुण of बुद्धि, सह्य of नग
  2. अवधारणा restricts धनम् to the particular namely विनयम् . Generally there is an element of metaphor in अवधारणा.

Does this help?

Regards

Murthy



2011/7/3 dhaval patel <drdhav...@gmail.com>
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To post to this group, send email to sams...@googlegroups.com.
To unsubscribe from this group, send email to samskrita+...@googlegroups.com.
For more options, visit this group at http://groups.google.com/group/samskrita?hl=en.



--
Please visit my web site : http://murthygss.tripod.com/index.htm
and also my Sanskrit blog :

http://simplesanskrit.blogspot.com/


dhaval patel

unread,
Jul 7, 2011, 11:16:11 AM7/7/11
to sams...@googlegroups.com
Murthy ji and lalitalalitaji,
The explanation makes sense to me now...
I was lost because my mothertongue Gujarati has very few such examples, so I was not able to correlate it..
Thank you both,

Dr. Dhaval

2011/7/7 G S S Murthy <murt...@gmail.com>

hnbhat B.R.

unread,
Jul 7, 2011, 9:45:55 PM7/7/11
to sams...@googlegroups.com
उत्कटैककोटिकः संशयः - संभावना,
अवधारणम् - इतरव्यावर्तनेन स्वस्मिन् विषये निश्चयः इति अनयोर्विशेषः। 
संभावना अन्यधर्मसंबन्धेन अन्यत्र तादात्म्यायोपयुज्यते चेद् उत्प्रेक्षाविषयः । 
एवकारस्य इतरव्यावतनेन स्वस्मिन्नवधारणम् - मुखमेव पद्मम्;
इत्यादौ मयूरव्यंसकादौ पाठेन तत्पुरुषत्वम्। अवधारणा तु इतरव्यार्तनमात्रेण, सामानाधिकरण्यमात्रेण कर्मधारयत्वमिति भाति। रूपकसमासस्यायं विषयः। मुखं कमलमिव इति विग्रहे तु उपमितसमासः इति व्यवहारः, उपमानपूर्वपदकर्मधारय इति तु चिन्त्यम्।
========

परं तु प्रथमे, संभावना तु अतस्मिन् अन्यधर्मसम्बन्धेन अन्यत्वेन् संभावना तु  नात्र अतीवोपयोगिनी, यतश्च गुण इति बुद्धिरिति अगुणे गुणत्वसंभावनायां संगच्छते कथं चित्, अन्यत्र चूतवृक्षादौ तु न संगच्छते; अतश्च चूतश्चासौ वृक्षश्च इत्यादिः समासस्तु स्यादेव। 

चूतस्तु वृक्षविशेषः, इति तु तत्र चूते चूतत्वसंभावना नापेक्ष्यते एव। 

संभवः संभावना - भू प्राप्तौ इति धातोः, चूतत्वं प्राप्तः वृक्षः इत्यर्थे चूतवृक्ष इति समासस्तु स्यादेव। तद्विवरणं संभावना इति तुल्यमेव। पाणिनीये तु तथा व्यवहारस्य मूलं चिन्त्यम्। 

तत्र उभयत्रापि सूत्रैः समर्थनं तु नास्त्येव। सुप्सुपा इति तु सामान्येन, "अभिधानलक्षणा हि कृत्तद्धितसमासाः" इत्यभिधानापेक्षया समासविवरणं भवतीति समाधेयम्। एवं कर्मधारयत्वमपि सामानाधिकरण्यमात्रेण व्यवहारः। इति मे मतिः।

धन्यवादाः।

--
Dr. Hari Narayana Bhat B.R. M.A., Ph.D.,
Research Scholar,
EFEO,
PONDICHERRY - 605 001


dhaval patel

unread,
Jul 9, 2011, 7:57:31 AM7/9/11
to sams...@googlegroups.com
Hi all,
I would like to reproduce the whole section of samAsachakram for ease of discussion...
Ignore the English part, as it is my try to translate... :)

अथ कर्मधारयः
स च विशेषणपूर्वपदो विशेष्यपूर्वपदो विशेषणोभयपद उपमानपूर्वपद उपमानोत्तरपदः सम्भावनापूर्वपदोऽवधारणापूर्वपदश्चेति भेदात्‌ सप्तविधः।

karmadhAraya:
It is of seven types as mentioned below….
1. visheShaNapUrvapada (the first word is adjective)
2. visheShyapUrvapada (the first word is visheshya – the one to which adjective is to be appended)
3. visheShaNobhayapada (both the words are adjectives)
4. upamAnapUrvapada (The first word is upamAna – the thing to which comparision is made)
5. upamAnottarapada (The second word is upamAna)
6. sambhAvanApUrvapada (the first word is sambhAvanA, joined by iti)and
7. avadhAraNApUrvapada (the first word is avadhAraNA, joined by eva)
Note: The examples below mentioned also has one other type namely
madhyamapadalopI (in which one or more word has to be imported to get a legible meaning and connection between the first and the second word)

(१) तत्र विशेषणपूर्वपदः कर्मधारयो यथा -
- कृष्णश्चासौ सर्पश्च कृष्णसर्पः । कृष्णौ च तौ सर्पौ च कृष्णसर्पौ। कृष्णाश्च ते सर्पाः कृष्णसर्पाः
-रक्ता चासौ लता च रक्तलता। रक्ते च ते लते च रक्तलते। रक्ताश्च तः लताश्च रक्तलताः।
- नीलं च तत्‌ उत्पलं च नीलोत्पलम्‌। नीले च ते उत्पले च नीलोत्पले। नीलानि च तानि उत्पलानि च नीलोत्पलानि।

visheShaNapUrvapada karmadhAraya :
kRShNa – adjective, sarpa – visheshya (the one to which adjective is appended)
similarly for others…

(२) विशेष्यपूर्वपदः कर्मधारयो यथा – वैयाकरणश्चासौ खसूचिश्च वैयाकरणखसूचिः। गोपालश्चासौ बालश्च इति गोपालबालः|
visheshyapUrvapada karmadhAraya:
second word bAla is adjective and gopAla is visheshya… Therefore it is visheshyapUrvapada.

(३) विशेषणोभयपदः कर्मधारयो यथा – शीतं च तत्‌ उष्णं च इति शीतोष्णम्‌ ।
visheShaNobhayapada:
zIta and uShNa both are adjective. Therefore it is visheShaNobhayapada karmadhAraya.
Note: Here, the word zItoShNam refers to something which is somewhat cold and somewhat hot… e.g water for bathing / moonlight for the bereft lovers etc.

(४) उपमानपूर्वपदः कर्मधारयो यथा – मेघ इव श्यामो मेघश्यामः । कम्बुवत्‌ ग्रीवा कम्बुग्रीवा । चन्द्रवत्‌ मुखम्‌ चन्द्रमुखम्‌।
upamAnapUrvapada karmadhAraya:
megha – upamAna (the thing to which something is compared)
zyAma – upameya (the thing which is to be compared)

(५) उपमानोत्तरपदः कर्मधारयो यथा – पुरुषः व्याघ्र इव पुरुषव्याघ्रः। नरः सिंह इव नरसिंहः।
upamAnottarapada karmadhAraya:
Here the upamAna vyAghra is the second word and upameya purUSha is the first word. Therefore it is an example of upamAnottarapada.

(६) सम्भावनापूर्वपदः कर्मधारयो यथा – गुण इति बुद्धिः गुणबुद्धिः ।
sambhAvanApurvapada karmadhAraya: The meaning is not clear to me. I am trying to find a suitable English translation for this.

(Comments courtesy ShrimallalitAlAlita:  यद्यपि गुणेषु दोषदृष्टिरसूयेत्यादाविवात्रापि गुणबुद्धेर्विषयान्वेषणेन तस्मिन्गुणत्वसम्भाविका धीर्गुणबुद्धिरिति वक्तुं शक्यते तथापि तुल्याधिकरणपदसमुदायविशेषत्वरूपकर्म्मधारयत्वं कथमिति चिन्त्यम् । नीलोत्पलादिष्विवात्रैकपदार्थेऽपरपदार्थस्य तादात्म्याभावात् । न हि गुणे एव बुद्धित्वं बुद्धौ वा गुणत्वम् । किन्तु गुणत्वप्रकारकत्वं धियि ।)

(७) अवधारणापूर्वपदः कर्मधारयो यथा – विद्यैव धनं विद्याधनम्‌ । अविद्यैव शृङ्खला अविद्याशृङ्खला ।

avadhAraNApUrvapada karmadhAraya: vidyA is dhanam – knowledge is wealth. avidyA is shRGkhalA. Here, there is abheda (non difference) between the first and the second word of samAsa. The abheda is shown by the word ‘eva’.

(Comments courtesy ShrimallalitAlAlita: अवधारणा निश्चयः । विद्यामात्रस्य धनत्वमाद्यपदमपरञ्चाविद्यामात्रस्य शृङ्खलात्वं ज्ञापयति । मात्रपदं मुख्यत्वपरम् । कर्म्मधारयत्वञ्च समानविभक्तिकत्वेनैकपदार्थेऽपरपदार्थस्य तादात्म्यज्ञापनात् । तथा चाद्ये विद्याधनयोरपरस्मिंश्चाविद्याशृङ्खलयोरभेदो ज्ञायते ।)

(८) मध्यमपदलोपी समासो यथा – शाकप्रियः पार्थिवः शाकपार्थिवः । देवपूजको ब्राह्मणः देवब्राह्मणः।
इति कर्मधारयः॥

madhyamapadalopI samAsa : Here, you have to import one or more word according to  context to fulfil the meaning of the samAsa. E.g. priya has to be imported in the samAsa shAkapArthiva. The priya word is elided. Therefore it is known as madhyamapadalopI…



Dr. Dhaval Patel



2011/7/8 hnbhat B.R. <hnbh...@gmail.com>

श्रीमल्ललितालालितः

unread,
Jul 10, 2011, 12:46:13 AM7/10/11
to sams...@googlegroups.com
2011/7/9 dhaval patel <drdhav...@gmail.com>

(७) अवधारणापूर्वपदः कर्मधारयो यथा – विद्यैव धनं विद्याधनम्‌ । अविद्यैव शृङ्खला अविद्याशृङ्खला ।

avadhAraNApUrvapada karmadhAraya: vidyA is dhanam – knowledge is wealth. avidyA is shRGkhalA. Here, there is abheda (non difference) between the first and the second word of samAsa. The abheda is shown by the word ‘eva’.


Not true. abheda is shown by similar vibhaktis. 'eva' is for determining it. 

dhaval patel

unread,
Jul 10, 2011, 10:32:11 PM7/10/11
to sams...@googlegroups.com
Thanks for correcting. I have uploaded it in my blog, so that there is clarification in the mind of readers.

Dhaval

2011/7/10 श्रीमल्ललितालालितः <lalitaa...@gmail.com>
Reply all
Reply to author
Forward
0 new messages