doubts

50 views
Skip to first unread message

vasantha syamalam

unread,
Jan 28, 2014, 4:48:24 AM1/28/14
to sams...@googlegroups.com
 महोदय
नमस्ते।
संशयनिवारणार्थं एतत् पत्रं लिखामि। कृपया स्पष्टीकरोतु।

 वल् (हल् इत्येभ्यः सर्वेभ्यः व्यञ्जनेभ्यः हयौ परित्यज्य इतराणि सर्वाणि व्यञ्जनानि) आदौ यस्य तस्मिन् आर्धधातुके सति इडागमः इत्यर्थः | अत्र “खाद्” इति आर्धधातुकम् | तस्य आदौ ख्-व्यञ्जनं “वल्”-प्रत्याहारान्वितम्  | तेन

   4.1.2 खाद् + इ + तुम् = खादितुम् |

एवमेव परि + अट् → पर्यटितुम्, अर्-च् → अर्चितुम्, अर्-ज् → अर्जितुम्, परि + ईक्ष् → परीक्षितुम्, कूज् → कूजितुम्, कूर्-द् → कूर्दितुम्, क्रन्द् → क्रन्दितुम्, क्रीड् → क्रीडितुम्, खेल् → खेलितुम्, आचर् → आचरितुम्,

चल् → चलितुम्, जप् → जपितुम्, जल्प् → जल्पितुम्, जीव् → जीवितुम्, जृम्भ् → जृम्भितुम्, धाव् → धावितुम् आनन्द् → आनन्दितुम्,।(एवमेव आचरितुम्)

संशयः    

१)एतेषु शब्देषु `अर्चितुम्' (अर्च्) एतस्मिन् शब्दे आदौ `अ' अस्ति यः वल् प्रत्याहारे नास्ति। तथापि कथं इडागमं भविष्यति?

आनन्दितुम् - एतस्मिन् अपि आदौ `आ' अस्ति यः वल् प्रत्याहारे नास्ति तथापि कथं इडागमं भविष्यति?

अर्जितुम् - एतस्मिन् अपि आदौ `अ' अस्ति यः `वल्' प्रत्याहारे नास्ति तथापि कथं इडागमं भविष्यति।

(रेखाङ्कित्शब्दस्य विवरणमपि लिखतु) 

२)आर्धधातुकः सार्वधातुकः नाम कः? कृपया स्पष्टीकतु। (उदहरणेन्)

३)`खाद्' इति आर्धधातुकम्।   =  ?????

धन्यवादः।

वसन्ताश्यामलम्

Sivakumari Katuri

unread,
Jan 28, 2014, 9:25:06 AM1/28/14
to sams...@googlegroups.com
नमस्ते,
1. आर्धधातुकमिति प्रत्ययस्य संज्ञा न तु प्रकृतेः। (आर्धधातुकं शेषः इति सूत्रम्)
2. आर्धधातुकस्येड्वलादेः इति सूत्रे वल् इति आर्धधातुकस्य विशेषणम्। अतः वलादौ आर्धधातुके प्रत्यये परे इडागमः भवतीत्यर्थः सिध्यति।
3. प्रत्ययस्यैव इडागमः अवयवः भवति। यथा - तुम् इति वलादिरार्धधातुकप्रत्ययः, तस्मात् इडागमे इतुम् इति।
4. धातुर्वलादिर्वा न वा इति विषयः इडागमाय अनावश्यकः।
5. सर्वेषां धातूनां वलाद्यार्धधातुके प्रत्यये परे इडागमः भवतीति सामान्यव्यवस्था।
6. इडागमकरणसमये स्मर्तव्यः अंशः - धातुः सेट् अथवा वेट् भवेत्, तथैव प्रत्ययः अपि।
7. एतेषां ज्ञानार्थं आचार्य पुष्पादीक्षितया विरचित इडागमः इति ग्रन्थः द्रष्टव्यः।
धन्यवादाः।

2014-01-28 vasantha syamalam <vasantha...@gmail.com>

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/groups/opt_out.

--
सर्वे भद्राणि पश्यन्तु।

Hnbhat B.R.

unread,
Jan 28, 2014, 10:54:01 AM1/28/14
to sams...@googlegroups.com
संशयस्य कारणमेव प्रथमं ज्ञातव्यम्।

आर्धधातुकं किमिति पूर्वं ज्ञात्वा एव, व्याकरणप्रक्रिया प्रारब्धव्या।

अस्तु। आर्धधातुकं किमिति अज्ञानमेव संशयकारणम्।

तिङ्शित्सार्वधातुकम् ३।४।११३॥
धातोः विहिताः तिङः शितश्च प्रत्यया सार्वधातुक-संज्ञकाः भवन्ति।। 

इति सार्वधातुकं किमिति पाणिनिना एव उक्तम्। 

॥ आर्धधातुकं शेषः॥ ३।४।११४॥

धातोः विहिताः शेषाः (तिङ्-शित्-भिन्नाः) प्रत्ययाः आर्धधातुक-संज्ञकाः भवन्ति। तिङ्-शितं वर्जयित्वा अन्यः प्रत्ययः धातोर्विहितः आर्धधातुकसंज्ञकः इति शेषः।

इदानीं ज्ञातं स्यात्, आर्धधातुकं नाम किमिति। 

इदानीं धातुर्नाम किमिति सन्देहः। 

भूवादयो धातवः॥ १।३।१॥

भू इत्येवमादयः शब्दाः क्रियावचना धातुसंज्ञा भवन्ति। भू भवति। एध एधते। इत्यादयः धातवः।

इदानीं तिङ्प्रत्ययाः के इति ज्ञेयम्। 

ति -तः - अन्ति इत्यादयः नव प्रत्ययाः परस्मैपदधातूनाम्, त (ते) - आताम् (ते) इत्यादयः नव प्रत्ययाः आत्मनेपदधातूनाम्, सार्वधातुकप्रत्ययाः। शित् प्रत्ययाः - शप्, श्लु, इत्यादयः अपि सार्वधातुकप्रत्ययाः।

 आर्धधातुकस्येड् वलादेः॥ ७।२।३५॥

इति इट् वलादेः आर्दधातुकप्रत्ययस्य एव विधीयते। इति नियमः। न पुनः भवत्या यथेष्टं योजयितुं शक्यते। यस्य आर्धधातुकप्रत्ययस्यादौ य-कारं वर्जयित्वा अन्यानि व्यञ्जनानि भवन्ति, तस्यैव इडागमो भवति। इडागमः तस्य प्रत्ययस्यादौ एव भवति। 

यदि आङ्गलभाषा ज्ञायते भवत्या -
तत्र यथा योज्यते क्त्वाप्रत्ययः, तथा संपूर्णा प्रक्रिया अत्र क्रमेण दृश्यताम् ---

एवमेव भवत्या उदाहृतेऽपि। तुमुत् इति प्रत्ययः, न तिङ्प्रत्ययः, नापि शित्प्रत्ययः इति धातोर्विहितः आर्धधातुकः प्रत्ययः, तुम् इति। तस्यादौ "तु" इति तकार एव वर्तते वल्, इति स वलादिः। तस्य एव इडागमः। इति सर्वत्र ज्ञेयम्। सर्वत्र स प्रत्ययः, आर्धधातुक एव, वलादिरेव इति तस्यैवेडागमः इति नास्त्येव भेदः भवदुदाहृतेषु धातुषु। 

किंतु सामान्येन आर्धधातुकस्य वलादेः विहितोऽपि इट्, केषां चन धातूनां निषिध्यते इति बोध्यम्। केषां चन धातूनां न भवति, केषां चन कदाचिद् भवति, कदाचित् न भवति। धातूनां भेदाद् येषामार्धधातुकप्रत्ययस्य वलादेः इडागमो भवति, ते सेटः, येषां धातूनां इडागमो निषिध्यते, ते अनिटः, येषां विकल्पेन कदाचिद् भवति, कदाचित् न भवति, ते वेटः इति विशेषः। ते के धातवः इति अत्र विचारितं दृश्यताम् ---

इदानीं सर्वं पठित्वा यदि सन्देहो भवति, स पृच्छ्यताम्।

अनिट्धातोरुदाहरणम् ----

पा + तुम्, दृश्+तुम् - द्रष्टुम्, गम्+तुम् - गन्तुम् इत्यादयः।

विकल्पेन इडागमस्तु --- 

नेड् वशि कृति॥ ७।२।८॥

वशादौ आर्धधातुके कृत्प्रत्यये न इडागमो भवति ---

। ईशिता। ईशितुम्। ईश्वरः। 
दीपिता। दीपितुम्। दीप्रः। 
भासिता। भसितुम्। भस्म। 
याचिता। याचितुम्। याच्ञा (याच्+ना)

इत्यादौ प्रत्ययविशेषे च निषिध्यते वलादावपि एकस्यैव धातोः सेटः अनिट्त्वमपि। 

अन्यैः स्पष्टमुत्तरं दत्तमिति मन्ये।

Sadagopan V

unread,
Jan 28, 2014, 8:01:05 PM1/28/14
to sams...@googlegroups.com
Many many thanks for step by step explantion, Bhat mahodaya

-- Sadagopan V

2014-01-28 Hnbhat B.R. <hnbh...@gmail.com>
संशयस्य कारणमेव प्रथमं ज्ञातव्यम्।

आर्धधातुकं किमिति पूर्वं ज्ञात्वा एव, व्याकरणप्रक्रिया प्रारब्धव्या।

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/groups/opt_out.

--
-- Sadagopan V

Hnbhat B.R.

unread,
Jan 28, 2014, 9:47:13 PM1/28/14
to sams...@googlegroups.com

2014-01-28 vasantha syamalam <vasantha...@gmail.com>

 महोदय
नमस्ते।
संशयनिवारणार्थं एतत् पत्रं लिखामि। कृपया स्पष्टीकरोतु।

 वल् (हल् इत्येभ्यः सर्वेभ्यः व्यञ्जनेभ्यः हयौ परित्यज्य इतराणि सर्वाणि व्यञ्जनानि) आदौ यस्य तस्मिन् आर्धधातुके सति इडागमः इत्यर्थः | अत्र “खाद्” इति आर्धधातुकम् | तस्य आदौ ख्-व्यञ्जनं “वल्”-प्रत्याहारान्वितम्  | तेन

​इडागमविषये व्याकरणनियमाः पूर्वमेव दर्शिताः सप्रमाणम्।​

   4.1.2 खाद् + इ + तुम् = खादितुम् |

एवमेव परि + अट् → पर्यटितुम्, अर्-च् → अर्चितुम्, अर्-ज् → अर्जितुम्, परि + ईक्ष् → परीक्षितुम्, कूज् → कूजितुम्, कूर्-द् → कूर्दितुम्, क्रन्द् → क्रन्दितुम्, क्रीड् → क्रीडितुम्, खेल् → खेलितुम्, आचर् → आचरितुम्,

चल् → चलितुम्, जप् → जपितुम्, जल्प् → जल्पितुम्, जीव् → जीवितुम्, जृम्भ् → जृम्भितुम्, धाव् → धावितुम् आनन्द् → आनन्दितुम्,।(एवमेव आचरितुम्)

अत्र
​ सर्वत्र, तुमुन् इति प्रत्ययः एव धातोर्विहितः आर्धधातुकः, तस्य आदौ तकारः वलादिः​ इति तस्यैव इडागमः।आगमः, आदेशः इत्यनयोर्भेदः ज्ञातव्यः।

चल्+स्य+ति
​ - इति भविष्यत्काले प्रत्ययः। स्यः आर्धधातुकः, तस्य इडागमे, चल्+इष्य+ति इति सकारस्य षकारः आदेशः। इ+स्य - चल्+इष्यति इति। इडागमाभावे, पा+स्य+ति इति षकारो न भवति, पास्यति इति।

एवम्, चल्+त्वा, चल्+इत्वा - चलित्वा, चल्+तुम् > चल्+इतुम् > चलितुम्। चल्+त > चल्+इत > चलितः, चलितम्।
वलादिभिन्ने आर्धधातुकप्रत्यये,  ​चल्+अनीय > चलनीयाम्।
चरणीयम् इति अकारादिः आर्धाधातुकः प्रत्ययः इति न तस्य इडागमः।

संशयः    

१)एतेषु शब्देषु `अर्चितुम्' (अर्च्) एतस्मिन् शब्दे आदौ `अ' अस्ति यः वल् प्रत्याहारे नास्ति। तथापि कथं इडागमं भविष्यति?

आनन्दितुम् - एतस्मिन् अपि आदौ `आ' अस्ति यः वल् प्रत्याहारे नास्ति तथापि कथं इडागमं भविष्यति?

अर्जितुम् - एतस्मिन् अपि आदौ `अ' अस्ति यः `वल्' प्रत्याहारे नास्ति तथापि कथं इडागमं भविष्यति।

(रेखाङ्कित्शब्दस्य विवरणमपि लिखतु) 

एषामुत्तरं
​ पूर्वमेव दत्तमुपरितने उदाहरणे।

अर्जितुम्, अर्जनीयम्, आनन्दितुम्, आनन्दनीयम्, इति अजादौ आर्धधातुके इडागमाभावः, वलादौ आर्धधातुके, प्रत्ययस्य इडागमः इति भेदः।​
 
२)आर्धधातुकः सार्वधातुकः नाम कः? कृपया स्पष्टीकतु। (उदहरणेन्)

३)`खाद्' इति आर्धधातुकम्।   =  ?????

अनयोरुत्तरं
​ पूर्वस्मिन्नेव अत्रापि दत्तम्।

खादितुम्, खादित्वा, खादितवान्, इत्यादिषु वलादिरेव आर्धाधातुकः प्रत्ययः।

खाद्+य - इत्यत्र न वलादिः, यकारस्य वल्-प्रत्याहारे अभावात्।
इति इडागमो न भवति।
खाद्+अनीय इति अनीयः प्रत्ययः आर्धधातुकः, न वलादिः किं तु अकारः आदौ वर्तते इति न इडागमः अकारस्य।

किं च, येषां धातूनामार्धधातुकप्रत्ययस्य इडागमो नैव भवति, त एव संगृहीताः अनिट्कारिकासु इति तत्र पुस्तकमेव दर्शनीयं पुष्पाजीमहोदयायाः, अथवा अनिट्कारिका-विवरणं वा व्याकरणग्रन्थेभ्यः। ​

वलादित्वेऽपि, वकारादि-रेफादि-मकारादि-प्रत्ययानां सेट्धातूनामपि न भवति इडागमः इति दर्शितमेव पूर्वम्।

दीपी् दीप्तौ इत् सेट् धातुः
दीपिष्यते, दीपिता, दीपितासि दीपित्वा इति इडागमविषयाः आर्धधातुकप्रत्ययाः।
तस्य रप्रत्यये दीप्रः इति न इडागमः। तस्य "नेड् वशि कृति" इति निषेधात्।
एवमेव क्त-क्तवतू-प्रत्यययोः, ईदित्वात्, इण्निषेधात् "श्वीदितो निष्थायाम् ७।२।१४" श्वयतेः ईदितश्च निष्ठायाम् इडागमो न भवति। "क्तक्तवतू निष्ठा॥ १।१।२५" इति निष्ठा संज्ञा क्त-क्तवतु-प्रत्यययोः।
दीप्तः, दीप्तवान् इति रूपम्, क्तप्रत्यये, क्तवतु-प्रत्यये च नेट्।
एवमेव, दीप्+ति > दीप्तिः इति क्तिन् प्रत्यये, आर्धधातुकस्यापि वलादेर्न इडागमः। ’ति-तु-त्र-त-थ-सि-सु-सर-क-सेषु च " ॥(७,२.९)  
इतीण्निषेधात्।

इति
​ महान् इडागमविषयः।​

इदानीं
​ संशया भवत्या उन्नीताः निवारिताः।​

Reply all
Reply to author
Forward
0 new messages