सालग्रामशिलाः
सालग्रामशिलासु सर्वदा श्रीहरिः निवसति। सालग्रामशिलाः परमपवित्राराधनामूर्तयः। नेपाल् देशे गण्डकीनद्यां सालग्रामशिलाः लभ्यन्ते। “सालग्राम” इति क्षेत्रादारभ्य गण्डकीनद्याः उद्भवस्थानपर्यन्तं विद्यामानां षष्टियोजनविस्तीर्णपर्वतपंक्तिं सालग्रामक्षेत्रमिति वदन्ति। ब्रह्मवैवर्तादिपुराणेषु सालग्रामशिलावैभवं सम्यक् वर्णितम्। अस्य क्षेत्रस्य परिधिः सालग्रामः ,मुक्तिनाथः, दामोदरकुण्डम् नाम प्रधानस्थलत्रयपर्यन्तं भवति। अस्मिन्नेव सालग्रामक्षेत्रे गण्डकीनद्या सह चक्रनदी अपि मिलति। सालग्रामशिलाः चक्रनद्याः एव गण्डकीनदीं प्रविशन्तीति पुराणानि वदन्ति, स्थानीयानामभिप्रायश्च । मुक्तिनाथस्थलम् अस्य क्षेत्रस्य चत्वारिंशदधिकशतयोजनदूरे वर्तते। मुक्तिनाथालयस्य समीपे विद्यमानस्य पर्वतपादस्य सालग्रामशिलाः अधिकतया लभ्यन्ते। एतद्पर्वतपादात् षोडशयोजनदूरे दामोदरकुण्डम् वर्तते। अत्र ‘सजीवसालग्रामाः’ लभ्यन्ते इति स्थानिकनेपालीयानां विश्वासः।
सालग्रामशिलाः द्विविधाः – जलजाः, स्थलजाश्च इति ।
गण्डकीनद्याः प्रान्ते उपलभ्यमानाः सालग्रामशिलाः स्थलजाः इति कथ्यन्ते। एताः अतिमृदुलक्षणसहिताः न भवन्ति। पातालजले लभ्यमानाः जलजाः अतिमृदुलक्षणसहिताः भवन्ति। वज्रकीटकाः नाम कीटकाः शिलाः स्वदन्तैः, पक्षैः च रन्ध्रं कृत्वा अन्तः किंचित् कालं उषित्वा ताः शिलाः त्यक्त्वा गच्छन्ति। तैः कीटकैःकृतेषु रन्ध्रेषु विविधचक्राणि, विविधाकृतयश्च जायन्ते। अनेनैव कारणेन नानाविधसालाग्रामरूपशिलाः जायन्ते। वज्रकीटकाः शीतलकाले रक्षणार्थं तासां शिलानाम् अन्तः उषित्वा आतपकाले शिलाः त्यक्त्वा गच्छन्ति। अतः सालग्रामशिलासु वज्रकीटकाः न भवन्ति। सालग्रामशिलाः आराधनायैव उपयुज्यन्ते।
वज्रकीटकानां स्वर्णभ्रमराः इति नामान्तरं अस्ति। अतः कासुचन सालग्रामशिलासु स्वर्णरेखाणां चिह्नानि दृश्यन्ते। सालग्रावः इति शब्दः एव सालग्रामशब्दरूपेण परिणामं प्राप।
स-अलिग्रावः। अलिः नाम भ्रमरः- कीटकः। कीटकेन सह विद्यमाना शिला सालग्रावः इति कथ्यते।
सालग्रामशिलासु चक्रमुद्रेति चिह्नं प्रधानं भवति। चक्राणां संख्यामनुसृत्य, दिशमनुसृत्य , शिलारूपवर्णमनुसृत्य च तत्तद्देवतामूर्तीन् लक्षयनि। प्रायः सालग्रामशिलाः अन्यशिलापेक्षया अल्पभारयुक्ताः भवन्ति। गण्डकीतीरे लभ्यमानाः सालग्रामशिलाः एव पूजार्हाः भवन्ति। हिरण्यसम्पर्कत्वेन सालग्रामशिलानां हिरण्यगर्भाः इति नामान्तरं अस्ति। क्षीरे जले च प्लवमानाः सालग्रामशिलाः सजीवसालग्रामशिलाः भवन्ति।
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+unsubscribe@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at https://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.
पाश्चैमिकवर्षे इति कथम्? ऽवतृतः किं रूपम्? सप्तपुत्रान् - सप्त पुत्रान्✔ जनितः - जातः✔
किन्तु तदन्तरॆ कृष्णस्य स्थाने नन्दगोपतनया आगत्य तस्याः स्थाने गोकुले कृष्णः रक्षितवान्। कोर्थः?
तत्स्त्रीकन्यया ? तद्व्याजया - तद्व्व्यजेन✔ अर्जुनवृक्षछेदव्याजया - अर्जुनवृक्षछेदव्याजैन✔ कालीयमर्धनं - कालियमर्दनं ✔ कालीयं - कालियं ✔ न्यवारयति- निवारयति✔न्यवारयत्✔ पत्नीन् - पत्नीः✔ कन्यान् - कन्याः✔ तान् कन्यान् - ताः कन्याः✔ वनिहितव्वन् विनिहितवान्✔ तान् कन्यान् विमोचति - ताः कन्याः विमोचयति ✔ ते प्रार्थयंति। - ताः प्रार्थयन्ति।✔ बन्धितान् - बन्धिताः✔
तेषां - तासां✔ तान् उद्वहति। - ताः उद्वहति।✔ अन्ये - अन्याः✔ लक्ष्मीस्वरूपाःअष्टमहिष्स्तावत् = लक्ष्मीस्वरूपाः अष्टमहिष्यस्तावत्✔ भगवद्मूलरूपेषु - भगवद्मूलरूपेषु =भगवन्मूलरूपेषु ✔ विष्णुसहस्रनामे = विष्णुसहस्रनामसु✔ नामे प्रसिद्धः =नामनी प्रसिद्धे✔
गणान्तरात् --- गणान्तरे एतानि परिष्करणानि सूच्यन्ताम्!
On 7 November 2017, at 22:40, "KN.Ramesh" <knra...@gmail.com> wrote:
>
>
> *कृष्णः*
>
>कृष्णः भारतीयसम्प्रदाये सनातनधर्मे च वासुदेवः श्रीकृष्णः स्वयं भगवान् परमतत्त्वं च ।। कृष्णो श्रीभगवतो लीलावताररूपः।। कृष्णस्तु स्वयं भगवान् इति कथ्यते। कर्षति आकर्षति इति कृष्णः, मेघश्यामवर्णीयः इति तस्य नामस्य अर्थः। मृत्युलोके इह श्रीकृष्णः द्वापरयुगे पाश्चैमिकवर्षे ३१०२ ईसापूर्वे मथुरानगरस्य कारागृहे ऽवतृतः। तस्य माता देवकी पिता वसुदेवश्च ।तदा कंसः देवक्या: भ्राता मथुरानरेश: आसीत् । कंसपितोग्रसेनः कृष्णस्य मातामहः। दुष्टेन कंसेन भगिनी देवकी आवुत्त: वसुदेव: च स्वकारागृहे बद्धौ।। कंसमतिबलवन्तं कश्चित् ऋषिः देवकीवसुदेवविवाहावसरे तयोरष्टमपुत्रः कंसमर्दनकारणं भविष्यतीति कथितवान्। तस्मात्तौ कंसेनातिचिन्तितेन कारागृहे बद्धौ आस्ताम्। वसुदेवदेवक्योः सप्तपुत्रान् क्रूर:कंसः हतवान्।अष्टमपुत्रः कृष्णः जनितः इति विदित्वा आगच्छति |किन्तु तदन्तरॆ कृष्णस्य स्थाने नन्दगोपतनया आगत्य तस्याः स्थाने गोकुले कृष्णः रक्षितवान्। एतद्विषयं तत्स्त्रीकन्यया विदितः कंसः श्रीकृष्णस्य अन्वेषणे सर्वत्र स्वसैन्यं प्रेषितवान्। तद्व्याजया आगतान् शकटासुर तृणावर्तादीन् संहरति। अर्जुनवृक्षछेदव्याजया धुनि,चमु इति असुरौ संहरति। एवं लोकपालः कृष्णः गोकुलं त्यक्त्वा वृंदावनं प्रति आगत्य तत्र बक-उग्र-वत्सासुरादीन् संहरति। तत्रैव कालीयमर्धनं कृत्वा लोकरक्षणार्थं कालीयं मारयति। तत्सप्तवयसि एव कालनेमिपुत्रान् वेषभस्वरूपान् सप्तदैत्यान् मारितस्य कृष्णस्य नीला इति कन्यया साकं विवाहं भवति। एकदा एषः वृन्दावने इन्द्रयज्ञं न्यवारयति। तदा कृद्धः इन्द्रः बृहद्वर्षधारां निरंतरं वर्षति। तदा कृष्णः गोवर्धनगिरिं धृत्वा वृन्दावनजनान् रक्षति।तद्दृष्ट्वा इन्द्रोपि कृष्णस्य समीपे शरणागतिं प्राप्नोति। एतद्गोवर्धनगिरिप्रसंगेन सर्वे जनाः श्रीकृष्णं स्वयं भगवान् इति जानन्ति। एवं शंखचूड-अरिष्टासुर-रजक- पूतनी-कुवलयापीड-चाणूर-मुष्टिकासीन् हत्वा स्वमातुलं कंसं च मारितः श्रीकृष्णः देवकी वसुदेवयोः बन्धनं निस्सारितवान्। १६१०८ पत्नीन् प्राप्तः कृष्णः नरकासुरसंहारानंतरं स्त्रीसंरक्षणार्थं १६००० कन्यान् उद्वहति। यतः नरकासुरः तान् कन्यान् स्वबंधने वनिहितव्वन्। यदा कृष्णः नरकासुरं हत्वा तान् कन्यान् विमोचति। तदा ते प्रार्थयंति। नरकासुरात् बन्धितान् अस्मान् कोपि नेछति। अतः अस्माकं तावत् त्वमेव गतिः पतिः इति। तेषां प्रार्थनानुसारेण कृष्णः तान् उद्वहति।अन्ये लक्ष्मीस्वरूपाःअष्टमहिष्स्तावत् सन्दर्भानुसारेण कृष्णं प्राप्नुवन्ति। कृष्ण: यादवकुलस्य राजा आसीत्। तेन भगवद्गीता संवाद: प्रदत्तः। गीतायाम् अष्टादश अध्यायाः सन्ति। दशमे अध्याये श्रीकृष्णः स्वदिव्यस्वरूपं वर्णयति। एकादशे अध्याये सः अर्जुनाय स्वस्य विश्वरूपं दर्शयति। द्वादशे अध्याये भक्तस्य दिव्यगुणाः वर्णिताः। कृष्णः इति नामं तावत् भगवद्मूलरूपेषु चतुर्विंशतिरूपेषु अंतिमः। महाभारतस्य विष्णुसहस्रनामे ५७ & ५५० तमे नामे प्रसिद्धः। कृष्णस्य इतिहासस्तु महाभारतॆ,भागवतमहापुराणे, विष्णुपुराणे, हरिवंशे गीयते। एषः कृष्णः एव ओडिशा मध्ये जगन्नाथ, महाराष्ट्रे विठोभ, राजस्थानमध्ये श्रीनाथ इति प्रसिद्धः। उत्तरप्रदेश, बिहार्, हरियाण, गुजरात्, डेल्ली मध्येषु कृष्णस्य संचलनमासीत् इति प्रथा। गणान्तरात्
>
>--
>You received this message because you are subscribed to the Google Groups "samskrita" group.
>To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
Essay on Teacher's day
को नामाचर्य:? - यो ह्याचारं ग्राहयति,छात्रोपयोगिविषययान् संगृह्णाति, छात्रबुद्धिं विकासयति च,स आचार्य: ।उक्त च निरुक्ते -आचार्य: कस्माात्?आचारं ग्राहयति । आचिनोत्यर्थानं । आचिनोति बुद्धिमिति वा ।।य: सदाचार- शिक्षणपिर्वकं छात्रेषु जितेन्द्रियत्वं पोषयत्,स आचार्य: । अतो गुरूचार्यो वा सदा देववत् पुज्य: ।*गुरुनिन्दाकरणीया सर्वदा विश्वासः भवेत् गुरौ।**आत्मज्ञानं गुरुणैव नारायणः मिलति तदैव च।।*वेदादिशास्त्रमर्मज्ञान्सदसन्मार्गबोधिन: ।विद्याप्रदायिनो नौमिनित्यं प्रियगुरून् हृदा ।।अज्ञाननाशरूपायविद्याबुद्धिप्रदायिने ।वरदाय सुदिव्यायसुगुरवे नमो नम: ।।शिक्षकदिवसावरे निखिलशिक्षकानां चरणेषु शब्दपुष्पमिदं समर्पये।शिक्षकदिवसस्य अवसरेSस्मिन् नैकश: शुभकामना: ।
💐💐💐💐💐🙏 🙏 🙏 🙏 🙏🌷🌷🌷🌷🌷
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+unsubscribe@googlegroups.com.
--