Short Essays in Sanskrit

407 views
Skip to first unread message

KN.Ramesh

unread,
Aug 9, 2017, 7:53:09 AM8/9/17
to samskrita

सालग्रामशिलाः

सालग्रामशिलासु सर्वदा श्रीहरिः निवसति। सालग्रामशिलाः परमपवित्राराधनामूर्तयः। नेपाल् देशे गण्डकीनद्यां सालग्रामशिलाः लभ्यन्ते। “सालग्राम” इति क्षेत्रादारभ्य गण्डकीनद्याः      उद्भवस्थानपर्यन्तं विद्यामानां  षष्टियोजनविस्तीर्णपर्वतपंक्तिं सालग्रामक्षेत्रमिति वदन्ति।  ब्रह्मवैवर्तादिपुराणेषु सालग्रामशिलावैभवं सम्यक् वर्णितम्। अस्य क्षेत्रस्य परिधिः सालग्रामः ,मुक्तिनाथः, दामोदरकुण्डम् नाम प्रधानस्थलत्रयपर्यन्तं भवति। अस्मिन्नेव सालग्रामक्षेत्रे  गण्डकीनद्या सह चक्रनदी अपि मिलति। सालग्रामशिलाः चक्रनद्याः एव गण्डकीनदीं प्रविशन्तीति  पुराणानि वदन्ति, स्थानीयानामभिप्रायश्च । मुक्तिनाथस्थलम् अस्य क्षेत्रस्य चत्वारिंशदधिकशतयोजनदूरे वर्तते। मुक्तिनाथालयस्य समीपे विद्यमानस्य  पर्वतपादस्य सालग्रामशिलाः अधिकतया लभ्यन्ते। एतद्पर्वतपादात् षोडशयोजनदूरे दामोदरकुण्डम् वर्तते। अत्र सजीवसालग्रामाः लभ्यन्ते इति    स्थानिकनेपालीयानां विश्वासः।

सालग्रामशिलाः द्विविधाः – जलजाः, स्थलजाश्च इति ।

     गण्डकीनद्याः प्रान्ते उपलभ्यमानाः सालग्रामशिलाः स्थलजाः इति  कथ्यन्ते। एताः अतिमृदुलक्षणसहिताः न भवन्ति।  पातालजले लभ्यमानाः जलजाः अतिमृदुलक्षणसहिताः  भवन्ति। वज्रकीटकाः नाम कीटकाः शिलाः स्वदन्तैः, पक्षैः च रन्ध्रं कृत्वा अन्तः किंचित् कालं उषित्वा ताः शिलाः त्यक्त्वा गच्छन्ति। तैः कीटकैःकृतेषु रन्ध्रेषु विविधचक्राणि, विविधाकृतयश्च जायन्ते। अनेनैव कारणेन नानाविधसालाग्रामरूपशिलाः जायन्ते। वज्रकीटकाः शीतलकाले रक्षणार्थं तासां शिलानाम् अन्तः उषित्वा आतपकाले शिलाः त्यक्त्वा गच्छन्ति। अतः सालग्रामशिलासु वज्रकीटकाः न भवन्ति। सालग्रामशिलाः आराधनायैव उपयुज्यन्ते।

          वज्रकीटकानां स्वर्णभ्रमराः इति नामान्तरं अस्ति। अतः  कासुचन सालग्रामशिलासु स्वर्णरेखाणां चिह्नानि दृश्यन्ते। सालग्रावः इति शब्दः एव सालग्रामशब्दरूपेण परिणामं प्राप।

     स-अलिग्रावः। अलिः नाम भ्रमरः- कीटकः। कीटकेन सह विद्यमाना शिला सालग्रावः इति कथ्यते।

     सालग्रामशिलासु चक्रमुद्रेति चिह्नं प्रधानं भवति। चक्राणां संख्यामनुसृत्य, दिशमनुसृत्य , शिलारूपवर्णमनुसृत्य च तत्तद्देवतामूर्तीन् लक्षयनि। प्रायः  सालग्रामशिलाः अन्यशिलापेक्षया अल्पभारयुक्ताः भवन्ति। गण्डकीतीरे लभ्यमानाः सालग्रामशिलाः एव पूजार्हाः भवन्ति। हिरण्यसम्पर्कत्वेन सालग्रामशिलानां हिरण्यगर्भाः इति नामान्तरं अस्ति। क्षीरे जले च प्लवमानाः सालग्रामशिलाः       सजीवसालग्रामशिलाः भवन्ति।


ken p

unread,
Aug 9, 2017, 5:57:05 PM8/9/17
to samskrita
Above essay has been presented in two Roman transliteration schemes.

IAST:

sālagrāmaśilāḥ

sālagrāmaśilāsu sarvadā śrīhariḥ nivasati| sālagrāmaśilāḥ paramapavitrārādhanāmūrtayaḥ| nepāl deśe gaṇḍakīnadyāṁ sālagrāmaśilāḥ labhyante| “sālagrāma” iti kṣetrādārabhya gaṇḍakīnadyāḥ      udbhavasthānaparyantaṁ vidyāmānāṁ  ṣaṣṭiyojanavistīrṇaparvatapaṁktiṁ sālagrāmakṣetramiti vadanti|  brahmavaivartādipurāṇeṣu sālagrāmaśilāvaibhavaṁ samyak varṇitam| asya kṣetrasya paridhiḥ sālagrāmaḥ ,muktināthaḥ, dāmodarakuṇḍam nāma pradhānasthalatrayaparyantaṁ bhavati| asminneva sālagrāmakṣetre  gaṇḍakīnadyā saha cakranadī api milati| sālagrāmaśilāḥ cakranadyāḥ eva gaṇḍakīnadīṁ praviśantīti  purāṇāni vadanti, sthānīyānāmabhiprāyaśca | muktināthasthalam asya kṣetrasya catvāriṁśadadhikaśatayojanadūre vartate| muktināthālayasya samīpe vidyamānasya  parvatapādasya sālagrāmaśilāḥ adhikatayā labhyante| etadparvatapādāt ṣoḍaśayojanadūre dāmodarakuṇḍam vartate| atra ‘sajīvasālagrāmāḥ’ labhyante iti    sthānikanepālīyānāṁ viśvāsaḥ|

sālagrāmaśilāḥ dvividhāḥ – jalajāḥ, sthalajāśca iti |

    gaṇḍakīnadyāḥ prānte upalabhyamānāḥ sālagrāmaśilāḥ sthalajāḥ iti  kathyante| etāḥ atimṛdulakṣaṇasahitāḥ na bhavanti|  pātālajale labhyamānāḥ jalajāḥ atimṛdulakṣaṇasahitāḥ  bhavanti| vajrakīṭakāḥ nāma kīṭakāḥ śilāḥ svadantaiḥ, pakṣaiḥ ca randhraṁ kṛtvā antaḥ kiṁcit kālaṁ uṣitvā tāḥ śilāḥ tyaktvā gacchanti| taiḥ kīṭakaiḥkṛteṣu randhreṣu vividhacakrāṇi, vividhākṛtayaśca jāyante| anenaiva kāraṇena nānāvidhasālāgrāmarūpaśilāḥ jāyante| vajrakīṭakāḥ śītalakāle rakṣaṇārthaṁ tāsāṁ śilānām antaḥ uṣitvā ātapakāle śilāḥ tyaktvā gacchanti| ataḥ sālagrāmaśilāsu vajrakīṭakāḥ na bhavanti| sālagrāmaśilāḥ ārādhanāyaiva upayujyante|

         vajrakīṭakānāṁ svarṇabhramarāḥ iti nāmāntaraṁ asti| ataḥ  kāsucana sālagrāmaśilāsu svarṇarekhāṇāṁ cihnāni dṛśyante| sālagrāvaḥ iti śabdaḥ eva sālagrāmaśabdarūpeṇa pariṇāmaṁ prāpa|

    sa-aligrāvaḥ| aliḥ nāma bhramaraḥ- kīṭakaḥ| kīṭakena saha vidyamānā śilā sālagrāvaḥ iti kathyate|

    sālagrāmaśilāsu cakramudreti cihnaṁ pradhānaṁ bhavati| cakrāṇāṁ saṁkhyāmanusṛtya, diśamanusṛtya , śilārūpavarṇamanusṛtya ca tattaddevatāmūrtīn lakṣayani| prāyaḥ  sālagrāmaśilāḥ anyaśilāpekṣayā alpabhārayuktāḥ bhavanti| gaṇḍakītīre labhyamānāḥ sālagrāmaśilāḥ eva pūjārhāḥ bhavanti| hiraṇyasamparkatvena sālagrāmaśilānāṁ hiraṇyagarbhāḥ iti nāmāntaraṁ asti| kṣīre jale ca plavamānāḥ sālagrāmaśilāḥ       sajīvasālagrāmaśilāḥ bhavanti| 

IAST: (One sound per letter except digraphs), Schwa-a free ,Easy to read,Printing ink saver scheme,underlined half letter 

Sālg̠rāmśilāḥ

Sālg̠rāmśilāsu sr̠vdā śrīhriḥ nivsti. Sālg̠rāmśilāḥ prmpvit̠rārādhnāmūr̠tyḥ. Nepāl deśe gṇḍkīnd̠yāṁ sālg̠rāmśilāḥ lb̠h̠yn̠te. “sālg̠rām” iti kṣet̠rādārb̠h̠y gṇḍkīnd̠yāḥ      ud̠bhvs̠thānpr̠yn̠tṁ vid̠yāmānāṁ  ṣṣṭiyojnvis̠tīrṇpr̠vtpṁk̠tiṁ sālg̠rāmkṣet̠rmiti vdn̠ti.  B̠rh̠mvivr̠tādipurāṇeṣu sālg̠rāmśilāvibhvṁ sm̠yk vrṇitm. S̠y kṣet̠rs̠y pridhiḥ sālg̠rāmḥ ,muk̠tināthḥ, dāmodrkuṇḍm nām p̠rdhāns̠thlt̠rypr̠yn̠tṁ bhvti. S̠min̠nev sālg̠rāmkṣet̠re  gṇḍkīnd̠yā sh ck̠rndī pi milti. Sālg̠rāmśilāḥ ck̠rnd̠yāḥ ev gṇḍkīndīṁ p̠rviśn̠tīti  purāṇāni vdn̠ti, s̠thānīyānāmbhip̠rāyśc . Muk̠tināths̠thlm s̠y kṣet̠rs̠y ct̠vāriṁśddhikśtyojndūre vr̠tte. Muk̠tināthālys̠y smīpe vid̠ymāns̠y  pr̠vtpāds̠y sālg̠rāmśilāḥ dhiktyā lb̠h̠yn̠te. Etd̠pr̠vtpādāt ṣoḍśyojndūre dāmodrkuṇḍm vr̠tte. T̠r ‘sjīvsālg̠rāmāḥ’ lb̠h̠yn̠te iti    s̠thāniknepālīyānāṁ viśvāsḥ.

Sālg̠rāmśilāḥ d̠vividhāḥ – jljāḥ, s̠thljāśc iti .

    Gṇḍkīnd̠yāḥ p̠rān̠te uplb̠h̠ymānāḥ sālg̠rāmśilāḥ s̠thljāḥ iti  kt̠h̠yn̠te. Etāḥ timṛdulkṣṇshitāḥ n bhvn̠ti.  Pātāljle lb̠h̠ymānāḥ jljāḥ timṛdulkṣṇshitāḥ  bhvn̠ti. Vj̠rkīṭkāḥ nām kīṭkāḥ śilāḥ s̠vdn̠tiḥ, pkṣiḥ c rn̠d̠h̠rṁ kṛt̠vā n̠tḥ kiṁcit kālṁ uṣit̠vā tāḥ śilāḥ t̠yk̠t̠vā gc̠chn̠ti. Tiḥ kīṭkiḥkṛteṣu rn̠d̠h̠reṣu vividhck̠rāṇi, vividhākṛtyśc jāyn̠te. Neniv kārṇen nānāvidhsālāg̠rāmrūpśilāḥ jāyn̠te. Vj̠rkīṭkāḥ śītlkāle rkṣṇār̠thṁ tāsāṁ śilānām n̠tḥ uṣit̠vā ātpkāle śilāḥ t̠yk̠t̠vā gc̠chn̠ti. Tḥ sālg̠rāmśilāsu vj̠rkīṭkāḥ n bhvn̠ti. Sālg̠rāmśilāḥ ārādhnāyiv upyuj̠yn̠te.

         Vj̠rkīṭkānāṁ s̠vrṇb̠h̠rmrāḥ iti nāmān̠trṁ s̠ti. Tḥ  kāsucn sālg̠rāmśilāsu s̠vrṇrekhāṇāṁ cih̠nāni dṛśyn̠te. Sālg̠rāvḥ iti śb̠dḥ ev sālg̠rāmśb̠drūpeṇ priṇāmṁ p̠rāp.

    S-lig̠rāvḥ. Liḥ nām b̠h̠rmrḥ- kīṭkḥ. Kīṭken sh vid̠ymānā śilā sālg̠rāvḥ iti kt̠h̠yte.

    Sālg̠rāmśilāsu ck̠rmud̠reti cih̠nṁ p̠rdhānṁ bhvti. Ck̠rāṇāṁ sṁk̠h̠yāmnusṛt̠y, diśmnusṛt̠y , śilārūpvrṇmnusṛt̠y c tt̠td̠devtāmūr̠tīn lkṣyni. P̠rāyḥ  sālg̠rāmśilāḥ n̠yśilāpekṣyā l̠pbhāryuk̠tāḥ bhvn̠ti. Gṇḍkītīre lb̠h̠ymānāḥ sālg̠rāmśilāḥ ev pūjār̠hāḥ bhvn̠ti. Hirṇysm̠pr̠kt̠ven sālg̠rāmśilānāṁ hirṇygr̠bhāḥ iti nāmān̠trṁ s̠ti. Kṣīre jle c p̠lvmānāḥ sālg̠rāmśilāḥ       sjīvsālg̠rāmśilāḥ bhvn̠ti. 

KN.Ramesh

unread,
Aug 16, 2017, 2:12:26 AM8/16/17
to samskrita
Sanskrit Essay on Boopendranath Dutta - Brother of Swami Vivekananda

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम्

लेखः 7. स्वामिनो विवेकानन्दस्य सहोदरः - क्रान्तिकृशानुः भूपेन्द्रनाथदत्तः । 

स्वामिनं विवेकानन्दं को नु न जानाति ? किन्तु तत्सहोदरो बहूनामस्माकम् अविदित एव । सोऽपि नः स्वातन्त्र्यसङ्ग्रामे क्रान्तिपथगामिनाम् अन्यतमः सन् अजरामरः सञ्जातोऽस्ति । तत् तदीयां वीरगाथां विलोकयेमाद्य ।

कलिकातायाः कश्चन दत्तकुटुम्बः अन्वर्थनामा, यतो बहुभिस्तदीयैः राष्ट्रहिताय जीवनम् एव दत्तम् । तत्र कौचिद् दम्पती भुवनेश्वरीदेवी विश्वनाथदत्तश्चेति । तयोस्त्रीणि पुत्ररत्नानि नरेन्द्रनाथो महेन्द्रनाथो भूपेन्द्रनाथश्चेति । तेषामाद्योऽध्यात्मवर्त्मना सञ्चरन् विवेकानन्दनाम्ना विश्वमान्यः सञ्जात इत्येषा प्रथितैव कथा । कनिष्ठस्तु क्रान्तिमार्गमाश्रयन् भारतीयस्वातन्त्र्यसङ्ग्रामे प्रमुखं पात्रं निरवहत् । असौ शक्तिशालिन्योः सङ्घटनयोः युगान्तरस्य अनुशीलनसमित्याश्च प्रमुखः सदस्य आसीत् । आङ्ग्लेयानां समूलमुन्मूलनं क्रान्तिपथेनैव साध्यमिति युगान्तरस्यासीद् द्रढीयान् विस्रम्भः । निजामिमां विचारधारां सर्वतः प्रापयितुम् असौ भूपेन्द्रनाथः स्वसुहृद्भ्यां बारिन्द्रकुमारघोषेण अविनाशभट्टाचार्येण च सह युगान्तराख्यां पत्रिकां प्रारेभे १९०६तमे वत्सरे । अमुष्य मर्मस्पर्शिभिर्लेखैराङ्ग्लेयानां नानाविधानि कुतन्त्राणि, क्रान्तिपथस्यावश्यकता च जनैः सम्यगवगता । एतत्फलरूपेन परःसहस्रा जनाः क्रान्तिवर्त्मन्यात्मानं व्यापारयामासुः । अनेन भूपेन्द्राय क्रुद्ध्यन्त आङ्ग्लेयाः १९०७तमे वर्षे तस्मिन् देशद्रोहम् अपराधम् आरोप्य कारां प्रवेशयामासुः । अस्याः पत्रिकायाः बलात् प्रतिष्टम्भनेऽपि साफल्यमनुभूतम् आङ्ग्लेयैः । वर्षं कारावासम् अनुभूय लब्धविमोचनो भूपेन्द्रः गुप्तमेव अमेरिकाम् अगात् । तत्र एम्.ए.पदव्याम् अधीयानः स पुनरपि क्रान्तिक्रियासु प्रवृत्तोऽभवत् । केनडां जर्मनीं च गत्वा तत्रत्यानाम् आङ्ग्लविरोधिनीनां सङ्घटनानां साहाय्येन क्रान्तिपथेन स्वातन्त्र्यप्राप्त्यै महत्तमं यत्नम् अकार्षीत् सः । 

१९२३तमे वत्सरेऽसौ भारतं प्रत्यागत्य भारतीयराष्ट्रीयकाङ्ग्रेस् इत्यत्र प्रविष्टः सन् स्वानि कर्माणि अनुवर्तयन् बहुकृत्वः कारावासमप्यभजत । स्वातन्त्र्यप्राप्तेः पूर्वं पश्चाच्च स्वेषु चिन्तनेषु क्रियासु च अविश्रान्तं व्यवस्यन् १९६१तमे वत्सरे पञ्चताम् अवाप्नोत् । अप्रतिमेन पाण्डित्येन साहित्यकौशलेन चासौ बेङ्गाली हिन्दी आङ्ग्लं जर्मन् इरानियन् – इत्येतासु भाषासु नैकानि पुस्तकानि रचयामास । स्वामिनं विवेकानन्दं विषयीकृत्य अनेन लिखितं Swami Vivekananda : Patriot-Prophet इत्याख्यं पुस्तकं नितान्तं प्रसिद्ध्यति ।

तावेतौ देशभक्तानां धुरि कीर्तनीयौ स्मरणीयौ नमनीयौ च ।

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।
संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

KN.Ramesh

unread,
Aug 18, 2017, 12:19:43 PM8/18/17
to samskrita
       “ कृष्ण “ इति विदुषी दुर्गा भागवत महोदायाया:मराठी ललितगद्यस्य अनुवाद:।

कृष्ण! 

    कथं त्वं सम्बोधयामि?त्वं तु आकाश इव भाससे माम्!आकाशः सदैव अस्माकं शिरसि विद्यते।यत्र गच्छामः तत्र सैव साकं परं तस्य नीलवर्णः न कदापि स्पर्शसुलभः।

      सत्यं वच्मि… नाम्ना त्वं मनुरुपेण नैव कदापि कल्पनां आयासि।प्रथमः कल्पनामायाति आकाशस्य गहनगभीरनीलवर्णः। अनंतरं तव तरंगितः मयूरकलापः।

      भवत्सदृश: मनुजीवने एकाकार: नान्य को$पि देव:।  प्रत्येकं संबंधः त्वया समरसतया जीवितः। एवं प्रसंगे निर्लेपतया निर्मोहेन त्यक्तः। त्वं विना सः संबंधिः कथं जीवितः एतत् चिंतनं कृतं वा कदाचित्? 

     तव सर्वमतर्क्यमेव। त्वं सर्वान् प्रचलितनियमान् उल्लंघितः। जनिमलभत वसुदेवदेवक्योः मथुरायां, वर्धितं नंदयशोदयोः गोकुले। दधिदुग्धचौर्यकार्यं, बाल्येव गोपिकापीडनम् च। सुदामाअर्जुनउध्दवानां मित्रं आसीः। द्रौपद्याः सखापि त्वं हि। एतत् मधुरं मैत्रं भारतीयस्त्री कृते तव अनुपमयोगदानम्। पूर्वं स्त्रियाः पुरुषसखा एषा संकल्पना नास्त्येव अस्माकं संस्कृत्याम्। पुरुषः केवलं स्त्रियाः पिता पतिः पुत्रः वा भवेत् इति रीतिः। विवाहितराधिकायाः प्रियकरः अपि त्वमेव। प्रेमप्रतीकरुपेण राधायाः नाम तव पूर्वमस्ति।

      अष्टनायिकानां पतिं भूत्वा$पि जरासंधकारात् मुक्ताः षोडशसहस्रस्त्रियः अभयदाता अपि त्वमेव। तवावतारात् सहस्त्राधिकवर्षानंतरं सुरदासेन तव शैशवं गीतम्। मीरा त्वं “ नटनागर गिरीधारी “ इति संबोधितवती।

     सत्यं वद .. नैकसंबंधनिर्वहणादपि तव  चित्तं राधामयमेव खलु? गोकुलत्यागानंतरं त्वया वेणुवादनं कृतं इति न श्रूयते ।

     गीतायां “ यदा यदा हि धर्मस्य..” इति उक्त्वा स्वस्य  पुनर्भवस्य वचनं त्वं अददाः। परमधुना संगरार्थं नागच्छ। वयं मानवाः एकेकः द्विप इव एकाकीनः। तेषु द्विपेषु सेतुबंधनार्थं एहि।

     यदा आगमिष्यसि तदा त्वया सह रुक्मिणी नास्ति तर्हि चलति। परं राधिकया सह आगच्छ। तस्मादेव तव वेणुवादनं श्रोष्यामः वयम्। 

     कृष्ण! पुनरेकवारमागत्य वंशीं स्वसुरभारितां कुरु।

अनुवाद:----  मानसी दीक्षित

KN.Ramesh

unread,
Sep 26, 2017, 7:25:13 AM9/26/17
to samskrita
स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् ।
लेखः १०. राष्ट्रगुरुः पण्डितो मदनमोहनमालवीयः ।

भारतस्य स्वतन्त्र्यसङ्ग्रामे भव्यतानिर्माणे च पण्डितप्रवरस्य तत्रभवतो मदनमोहनमालवीयस्य पात्रं महत्तमम् । यथा महात्मा गान्धी राष्ट्रपितेति सम्मान्यते तथासौ राष्ट्रगुरुरिति सर्वत्र सम्मान्येत । भारतीयशिक्षणस्य अनुवर्तनाय एतत्संस्कृतिरक्षणाय च आसेतु आहिमालयं भक्षाम् अटित्वा काशीहिन्दूविश्वविद्यालयं प्रतिष्ठापयामास एष महाभागः । स्वातन्त्र्यसेनानीः कविः साहित्यकृत् विद्याप्रणयी भारतीयताचिन्तकश्चासौ मौढ्यादीनां दूरीकरणायापि यतमानः सन् सर्वत्र पण्डित इत्यव प्रथित आसीत् । साम्प्रतं सर्वतः प्रसृतं ’सत्यमेव जयते’ इति ध्येयवाक्यम् आदावनेनैव जनजीवने समानीतम् । 

१८५७ काले भारतसर्वकारेण कल्कत्ता मुम्बयी मद्रास् चैतेषु स्थानेषु विश्वविद्यालयाः प्रतिष्ठापिताः । किन्तु एते आङ्ग्लेयान् एव विश्वविद्यालयान् अनुसरन्ति स्म । अनेन आङ्ग्लेयभाषासंस्कृत्याचारादिकमेव उत्कृष्टम्, भारतीयं सर्वं निकृष्टं चेति भावः सर्वत्र प्रवर्धते स्म । किञ्च भारतीयज्ञानाचारसंस्कृत्यादिषु बद्धादरोऽयं धीरः शिक्षणेऽप्येतेषाम् आवश्यकतां पश्यन् तदर्थं वाराणस्यां विश्वविद्यालयः प्रतिष्ठाप्यः इति सङ्कल्पं चकार । किन्तु तदर्थस्यार्थस्य कुतो लब्धिः ? धृतिमानसौ मालवीयः आकाश्मीरम् आकन्याकुमारि सञ्चचार, सर्वत्रैतन्महाकार्यम् उद्दिश्य भिक्षां ययाच च । एवं राष्ट्रं सञ्चार्य रूप्यकाणाम् एकां कोटिं चतुस्त्रिंशतं लक्षाणि च सङ्गृहीतवतः तस्य ’भिक्षुकसम्राट्’ इति बभूव नूतनं नामधेयम् । इत्थं महतोपक्रमेण १९१६तमे वत्सरे लब्धजन्मा तत्स्वप्नशिशुः बनारस्-हिन्दूविश्वविद्यालयो वर्षाणां शतकमपि समतीत्य अद्यापि भारतीयज्ञानपरम्परां नितमां परिवर्धयन्नस्ति । शिक्षणक्षेत्रस्य परिष्करणे अधिकं श्रद्दधानेन तेन स्वातन्त्र्यसङ्ग्रामः सामाजिकसमस्याः वार्तापत्रिकाः चेत्यादिष्वपि क्षेत्रेषु निरन्तरं व्यवसितम् । इत्थं विशिष्टैः कर्मभिः अजरामरतां यातोऽयं महात्मा १९४६तमे वर्षे दिवङ्गतः । एतं शिक्षारक्षकं सम्मानयितुमिच्छुः भारतसर्वकारः २०१४तमे वत्सरे ’भारतरत्न’प्रशस्तिं प्रदाय कृतार्थताम् अन्वभवत् । 

सोऽयं राष्ट्रगुरुरस्माकं स्मर्तव्यो नन्तव्यश्च ।

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।
संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

चित्रम् -अन्तर्जालकृपालब्धम् ।

KN.Ramesh

unread,
Oct 5, 2017, 9:24:56 AM10/5/17
to samskrita
अस्माकं देश:
अस्माकं देशस्य नाम भारतवर्ष: अस्ति। अस्माकं देश: अतिप्राचीन: अस्ति। उत्तरदिशायाम् स्थित: नगाधिराज: हिमालय: अस्माकं देशस्य रक्षां करोति ।अस्य दक्षिणदिशायाम् सागर: अस्ति। हिन्द महासागर: भारतमातु: चरणौ प्रक्षालयति। भारतवर्षे अनेका: महापुरुषा: जन्म अलभत्। महात्मा बुद्ध:,नानकदेव:, गुरुगोविन्दसिंह ,भगतसिंह,चन्द्रशेखर आजाद:,राष्ट्रपिता महात्मागान्धि: ,सुभाष चन्द्रबोस: महात्मन: अस्यां स्व भूमौ जन्म गृहीतवन्त:।एते महापुरुषा: लोकं शान्ते:  पाठम् अपाठयन् सुमार्गं च अदर्शयन्।
भारतभूमि: प्रकृति क्रीडास्थली अस्ति। भारतभूमे: अनेके ऋतव: सन्ति। भारतभूमे: बहव: नद्य: प्रवहन्ति। भारत भूमिं च शस्यश्यामला कुर्वन्ति।अत्र विविधानि अन्नानि फलानि च उत्पन्नानि भवन्ति ।भारतदेश: अस्माकं मातृभूमि: अस्ति। वयं सर्वदा प्राण-पणेन अस्या: रक्षां कुर्याम्।
सत्योक्तम् "जननी जनमभूमिश्च स्वर्गादपि गरीयसी"।

vasantha syamalam

unread,
Oct 5, 2017, 10:10:28 PM10/5/17
to sams...@googlegroups.com
सर्वे निबन्धाः अत्युपोगकराः सन्ति। धन्यवादः।

On Oct 5, 2017 6:57 PM, "KN.Ramesh" <knra...@gmail.com> wrote:
Boxbe This message is eligible for Automatic Cleanup! (knra...@gmail.com) Add cleanup rule | More info
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+unsubscribe@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at https://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.

KN.Ramesh

unread,
Oct 20, 2017, 7:31:55 AM10/20/17
to samskrita
Baaji Rao
शिवरायबहिर्जीनाईकयो:चिंतनैव आधारिता अस्ति 
                          " ईस्रायलगुप्तचरसंघटना मोसाद "
जगति द्वितीया क्रमांका वृत्ति: अस्ति गुप्तचररुपेन कार्यम्। प्रायश: सर्वाणां देशानां गुप्तचरसंघटना: सन्ति। जनेषु तासां विषये कौतुहलं, आदरः, भयः, आतंकः ,तिरस्कारादय: नैकाः भावना:।
आपुरातनकालत: गुप्तचरा: विद्यन्ते।आर्यचाणक्यस्य              " "अर्थशास्त्र " नामनि ग्रंथे  विषयमेतमाधृत्य विस्तृतविवेचनं  अस्ति। 
 शिवरायस्य " गनिमीकावा " रणनीते: यशस्वीताया: प्रमुखसूत्रधार: आसीत् बुद्धिमान् धूर्तः च बहिर्जीनाईक: एवं तादृशा: नैकाः गुप्तचरा: ।
 अमेरिका रशिया इस्रायल च एतेषां देशानां
गुप्तचरसंघटना:  क्रमेण  सीआयए-केजीबी-मोसाद ।विश्वे  तासां विषये सादरभय: ।
  बाजीरावजाधव: महाराष्ट्रस्य सांगलीजनपदस्य पलूसग्रामवासी।षोडशवर्षैव भारतीयसैन्यदले वृत्तिं स्वीकृत्य अखंडदेशसेवाव्रतं आचरति।1999 तमे ख्रिस्ताब्दे कारगिलसमरे तस्य पराक्रमार्थं भारतसर्वकर: तं शौर्यपदकं प्रदत्तवान्। जागरुकबुद्धि: ,विशेषसाहसं,शौर्यं च एतैः गुणैः सः भारतीयगुप्तचरसंघटना(RAW) इत्यस्यां संस्थायां गुप्तचररुपेण अयोजत।1986 तमे ख्रिस्ताब्दे श्री  रामेश्वरनाथ कावमहोदयस्य नेतृत्वे सैन्यदलसक्षमीकरणार्थं एतस्याः स्थापना जाता।
  यदा अमेरिकायां आयोजिता जागतिकसुरक्षापरिषद् समाप्य बाजीराव विमानपत्तने गच्छन् आसीत् तदा एका विदेशीसुंदरी तं सम्मुखवती।द्वयोः परस्परं दृष्ट्वा
आनंदितौ  जातौ। बाजीराव: स्मितवदनेन तां नमस्कृतवान्। सा आसीत् .....विश्वप्रसिद्धअतिध्वंसकरीधूर्तगुप्तचरसंघटनाया: उच्चपदस्थाधिकारिणी सारहा।  प्रतिनमस्कारं कृत्वा  सा उक्तवती ," नमस्ते! भवान् अहं अत्र मम राष्ट्रपतिनिधीरुपेण उपस्थिता न  तु गुप्तचररुपेण।भवन्तं दृष्टवती अतः मेलनार्थं आगतवती। "  सा मोसादसंस्थायाः युवआक्रमकनिर्भीकअधिकारिणी । कतिपय वर्षपूर्वं तयोः मेलनं जातम्।
 मोसाद....एतादृशी गुप्तचरसंघटना....यदि तस्याः ताडनावली (hitlist) मध्ये कस्यापि नाम आगच्छेत् चेत् प्रत्यक्ष ईश्वर अपि तस्य रक्षणार्थं असमर्थः इति किंवदन्ती प्रसिद्धा। विश्वे असामान्यकर्तृत्वयुता अरिदमने क्रूरतमा सर्वोत्कृष्टगुप्तचरसंघटना का ? एतस्य प्रश्नस्य उत्तरं  निःसंदेहेन " मोसाद " इत्येव।
  मोसाद नाम साक्षात् मृत्यु: । राष्ट्रशत्रुं अन्वेष्य तं स्वदेशं आनीय क्रूरतया तस्य नाश : इति ध्येय:।शासनानंतरमेव सर्वे ज्ञातुं शक्नुवन्ति के के शासितवन्त: इति। संघटनाया: महद्वैशिष्ट्यं अधिकतमगौप्यम्। तस्मादेव अन्यदेशानां गुप्ताचराणां प्रवेश: अस्याम् अशक्यमेव। परं अस्याः गुप्तचरा: विश्वे सर्वासु संघटनासु वर्तन्ते।एकमेव उद्देश:
 सूचनासंग्रहणम्।
  एतादृशायां गुप्तचरसंघटनायां दशदिनात्मकप्रशिक्षणार्थं यदा बाजीराव इस्रायलं गतवान् तदा सारहया सह अमेलत् ,तस्याः उत्तमज्ञानं च  प्राप्नोत्।
  नैकवर्षानंतरमपि सारहा तं अभिज्ञातवती। विमानउड्डाणे 2-3 घण्टायावत् अवकाश: आसीत्।अतः उपाठहारगृहे तौ वार्तालापं कृतवन्तौ।
" भो सारहे! कथं भवती  एतावत्यवध्यनंतरमपि मां  अभिज्ञातवती?अहं तु चिन्तितवान् यत्  संपूर्णविश्वं यया संस्थया आतंकितं तस्याः अधिकारिणी तु स्वर्गैव निमग्ना स्यादिति। परं भवती तु अधुनापि मां स्मरति। 
अहो आश्चर्यं!"
 स्मितहास्येन सा उक्तवती, " भोः! नैव  भाषताम् एतादृशः।
वयं विश्वे सर्वान् विस्मरामः। परं भारतीयान् कदापि नैव। "
विदेशविदुषी मोसादसंस्थायाः अधिकारिणी .....अस्माकं राष्ट्रं प्रति तस्याः प्रेमादरं दृष्ट्वा मम नेत्रे अश्रूपुरीते।
सा अग्रे वदन्ती आसीत्, " एतद् न आश्चर्यम्।यदि  वयं विश्वे सर्वश्रेष्ठाः तथापि अस्माकं गुप्तचरसंस्थायाः आत्मा शिक्षा च भारतीयैव। प्रशिक्षणे अस्मान् भारतस्य ,महाराष्ट्रस्य इतिहासं निःशेषेण पाठयति।  अस्माकं
संस्थायाः मूलाधारः तु शिवरायस्य सर्वोत्कृष्ठः  गुप्तचरः बहिर्जीनाईकः। "
  बहिर्जीनाईकः.... नाम्नैव  बाजीरावस्य शिरः नतम्। शरीरं रोमांचितं।नयने अश्रूपूर्णे च।
" भवतः नयने अश्रूणि? प्रमादवशेन मया किमपि अनुक्तं उक्ता वा? "
नकारार्थं ग्रीवा कम्पयित्वा  अश्रूणि प्रमृज्य बाजीराव  अवफफदत् "  नैव सारहे! भवती  सादरेण यस्य नामोल्लेखं कृतवती तं बहिर्जीनाईकं तस्मिन् महाराष्ट्रैव अजाये$पि न सम्यक् ज्ञातुं शक्नोम्यहम्। केवलं अहमेव न प्रायश: बहवः जनाः बहिर्जीनाईकं न जानन्ति।शिवरायमपि वयं संपूर्णतया न  अनुभूतवन्तः।  अद्य तेषां नाम भवत्याः  सदृशी निर्भीकविदुषीमुखात्  श्रुत्वा अहं  लज्जां अन्वभवत्। "
 सारहा उक्तवती " भोः! महद्भाग्यवन्ताः  भारतीयाः।अस्माकं कार्यशैलीः  शिवरायबहिर्जीनाईकयोः नीत्याम् आधारिता।अस्माकं प्रत्येकं अधिकारिणं शिवरायस्य बहिर्जीनाईकस्य च इतिहास मुखोद्गतः।एष अनिवार्यः।अस्माकं प्रशिक्षणं तथैव वर्तते। "
 दीर्घवार्तालापं समाप्य तां नमस्कृत्य बाजीराव विमाने आरुढवान्।  मस्तिष्के केवलं एकमेव चिन्तनं....शिवरायः बहिर्जीनाईकः च। कियान् मुर्खाः वयं भारतीया!सकलविश्वस्य इस्रायलशत्रवः यस्याः आतंकेन भयभीताः सा " मोसादसंस्था " शिवरायस्य दैदिप्यमानं इतिहासं अवगम्य तस्मिन्नेव मार्गे मार्गक्रमणं करोति। परं   वयं यत्किंचित् दुर्बलराष्ट्रस्य आतंकः आसप्ततिवर्षेभ्यः मोनेन सहन्ते .....शिवरायस्य वंशजाः सन् अपि! अधुनापि
प्रतिदिनं अस्माकं युवकानां सीमारक्षकानां बलिदानं  भवति। 
बाजीरावस्य मस्तिष्के विचाराणां झंझावातः जातः। इदानीं तस्य मनसि एकमेव  लक्ष्यम्.....
    शिवरायबहिर्जीनाईकयोः इतिहासस्य सम्यक् अध्ययनम् अवगमनम् च।

KN.Ramesh

unread,
Oct 24, 2017, 9:19:08 AM10/24/17
to samskrita
MOTHER'S DAY
मातृदिनम् 

श्रावणपौर्णिमा नाम मातृदिनम्। एषा परंपरा न प्राचीना इति केषांचित् विदुषां मतः। तेषां विचारै:  विदेशीयानां ‘Mother's Day’ एतस्मात् वयं एषा रीतीः स्वीकृतवन्तः ।परं एषः तर्क: निराधार:। कस्यापि अनुकरणं वा काचित् रीतिपरंपरयोः च अन्यसंस्कृते: ग्रहणं न आवश्यकं। न च तादशी दुर्बला अस्माकं संस्कृतिः।

भारतीयसंस्कृत्यां माता स्वर्गादपि गरीयसी।

पुरा बालकस्य ज्ञानारंभे प्रथमदिने “ मातृ देवो भव। पितृ देवो भव। आचार्य देवो भव। “ एतादृशानां उदत्ताविचाराणां संस्कार: अनिवार्यः आसीत्।

मातापित्रो: आज्ञाधारकं, तयोः कृते स्वसुखत्यागकारकं पुत्रं आदर्शः आदरणीयः च गणयते। विमाताकैकय्याः आज्ञापालनार्थं तथा पितावचनपूर्त्यार्थं प्रभुरामचंद्रेण १४ वर्षयावत् वनवासः स्वीकृत:।भक्तपुंडलिकस्य मातापितासेवया मंत्रमुग्धः भगवान् विष्णुः अधुनापि इष्टिकाया विठ्ठलरुपेण स्थितः। पितृसुखार्थं विमातासंशयनिवारणार्थं च आजन्म ब्रह्मचारीव्रतस्य देवव्रतस्य (भीष्मस्य) प्रतिज्ञा एकमेवाद्वितीया। एतादृशानि बहुनि उदाहरणानि अस्माकं गौरवपूर्णे इतिहासे विद्यामानानि। 

अन्यकेषुचित् दिनेष्वपि मातापितापूजनस्य प्रावधानमस्ति। जन्मदातृणां प्रति कृतज्ञतायापनस्य एषा गौरवपूर्णा रीति: अखंडतया संरक्षिता भवेत् एतत् अस्माकं परमकर्तव्यम्।

KN.Ramesh

unread,
Oct 25, 2017, 12:23:08 PM10/25/17
to samskrita
Sanskrit essay on Ramprasad & bismill ashphak ullah khan

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम्

लेखः ८. हिन्दूयवनसाहोदर्यस्य अनुकरणीयम् उदाहरणम् – रामप्रसाद बिस्मिल् अष्फाक् उल्ला खान् च ।

भारतीयस्वातन्त्र्यसङ्ग्रामे सुगृहीतनामधेययोः रामप्रसाद बिस्मिल् अष्फाक् उल्ला खान् इत्यनयोः काचिद् अनुपमा कथा । इयं तावद् हिन्दूनां यवनानां च भ्रातृत्वस्य विशिष्टमुदाहरणमपि । मतीयैर्विषयैर्मिथो भेदं चिकीर्षताम् आङ्ग्लेयानां तन्त्राणि तिरोधाय, मृत्युस्तम्भारोहणपर्य्यन्तं सहैव राष्ट्रहितचिन्तनेषु प्रवृत्ताभ्याम् एताभ्यां स्वधर्मनिष्ठा राष्ट्रनिष्ठा च सममेव कथं निर्वहणीयेति सुष्ठु बोधितमस्ति । तदिदं मतीयस्वातन्त्र्यनाम्ना राष्ट्रविरोधिकर्मसु प्रवर्तमानैः कैश्चित् साम्प्रतिकैः अवश्यम् अध्येयं ध्येयं च ।

अष्फाक् उल्ला उत्तरप्रदेशीये शहजान्पुरे स्थिते कस्मिंश्चित् धनिककुटुम्बे सञ्जातः सुशिक्षितो युवा । तद्वंशीया बहवो ब्रिटिष्सर्वकारस्य उन्नतेषु स्थानेषु उद्योगिन आसन् । तथापि तद्धृदिस्थिता अत्युत्कटा राष्ट्रभक्तिः तम् अपरं राष्ट्रभक्तं क्रान्तिपथयायिनं रामप्रसादबिस्मिलं प्रति आनिनाय । रामप्रसादस्तावद् आर्यसमाजीयः । अष्फाकश्च स्वेषु इस्लाम्मतीयतत्त्वेषु श्रद्धावान् । कारायामपि रामप्रसादेन यागादिकम् अनुष्ठीयते स्म, अष्फाकेन तु प्रत्यहं पञ्चवारं प्रार्थना । इत्थं मतीयाचारेषु भेदे सत्यपि हृदये नासीत् तल्लेशोऽपि । सहोदराविव स्थितौ तौ विघटयितुम् आङ्ग्लेयैः कृताः सर्वेऽपि प्रयत्ना विफलाः सञ्जाताः । अनयोः तीव्रतमाः क्रियाः ब्रिटिष्शासनस्य नितान्तं प्रतिकूलाः समभूवन् । अन्ते च, काकोरिरेलयानलुण्ठनप्रकरणे कथञ्चिदेतौ निबद्ध्य मृत्युस्तम्भम् आरोहयामास आङ्ग्लशासनं १९२७तमे वत्सरे डिसेम्बर् १९तमे दिनाङ्के । तदिदमपि सहैव स्वीकृतमेताभ्यां भ्रातृभ्याम् ।

उभावप्येतौ कवितल्लजावप्यास्ताम् । अष्फाको ब्रवीति कस्याञ्चित् कवितायाम् – ’जीवनं मरणं च न सत्यमिति उपदिष्टं किल भगवता श्रीकृष्णेन अर्जुनाय । क्व यातं तज्ज्ञानम् ? मृत्युरायास्यत्येव । कुतस्ततो नो भीतिः ? राष्ट्रं स्वतन्त्रम् उज्ज्वलं च भवेत् । स्थितैर्गतैर्वास्माभिः किं व्यत्यस्यते ?
अनयोरिदं भ्रातृत्वम् अनुकरणीयं भूयादस्माकम् ।

KN.Ramesh

unread,
Oct 26, 2017, 8:58:39 AM10/26/17
to samskrita
https://www.google.co.in/url?sa=t&rct=j&q=&esrc=s&source=web&cd=2&cad=rja&uact=8&ved=0ahUKEwiGko_Cho7XAhVBo48KHRgNBCcQFggsMAE&url=http%3A%2F%2Fsanskritessays.blogspot.com%2F2014%2F12%2Fsanskrit-essay-on-republic-day.html&usg=AOvVaw3i0HTNlMgLYRxaMna5M84u

गणतन्त्रदिनम् (Republic ):

भारतदेशः १९४७ तमवर्षस्य आगष्ट्मासस्य १५ दिनाङ्के स्वतन्त्रः अभवत् । अनन्तरं प्रजाप्रभुत्वरीत्या अत्र प्रशासनं चलति स्म । यदा संविधाननिर्माणकार्यं समाप्तम् अभवत् तदा संविधानम् अङ्गिकृत्य देशे १९५० तमे वर्षे जनवरीमासस्य २६ दिनाङ्के भारतदेशं प्रजाप्रभुत्वराष्ट्रामिति धोषितवन्तः । तद्दिनादाराभ्य भारतदेशे भारतीय-संविधानरीत्या प्रशासनं प्रचलति । प्रजाराज्योत्सवं प्रजाराज्योत्सवः गणराज्योत्सवः इत्यपि कथयन्ति । यतः गणानां प्रजानां एव अत्र प्रामुख्यता अस्ति । प्रजाराज्यमित्यस्य प्रजाभिः प्रजाभ्यः प्रजाः एव प्रशासनं कुर्वन्ति इत्यर्थः भवति । भारतस्य प्रजासत्तात्मकजात्यतीतगणराज्यम् इति च नाम अस्ति । जनवरी मासस्य २६ तमे दिनाङ्के एव लाहोर-अधिवेशने पूर्णस्वातन्त्र्यलाभाय निर्धारः कृतः आसीत् । तस्य स्मरणार्थं जनवरीमासस्य २६ दिनाङ्कः एव स्वीकृतः अस्ति । प्रतिवर्षं वैभवेन प्रजाराज्योत्सवः आचर्यते । विदेशीयाः अतिथिरुपेण आगच्छन्ति । मुख्यकार्यक्रमः राजधान्याः परेड्स्थाने राष्ट्रपतिभवनस्य पुरतः प्रचलति । देशे सर्वत्र कार्यालयेषु विद्यालयेषु सङ्घसंस्थासु च कार्यक्रमं कुर्वन्ति । ध्वजारोहणं राष्ट्रगीतं विविधस्पर्धाः मनोरञ्जनकार्यक्रमाः च सर्वत्र प्रचलन्ति । राष्ट्रियपर्वरुपेण प्रजाराज्योत्सवम् आचरन्ति । भारतदेशः सुखीराज्यं भवतु इति सदाशया सर्वजनहिताय सर्वजनसुखाय संविधाननिर्माणकार्यस्य आरम्भः अभवत् । 

KN.Ramesh

unread,
Oct 27, 2017, 12:53:07 PM10/27/17
to samskrita

संस्कृतस्य गौरवम्
===========

संस्कृतभाषा संसारस्य भाषासु प्राचीनतमा । केषाञ्चित् पण्डितानां मते एषा सर्वासामेव भाषाणामुद्गमः, परमन्येषां मते एषा केवलं भारतस्यानेकासां भाषाणां जननी । एवं चापि एतस्याः गौरवम् न्यूनं नास्ति । भारतस्यानेकाः भाषाः यस्याः संस्कृतभाषायाः पुत्र्यः सन्ति, सा भारते तु महत्त्वपूर्णाSस्त्येव ।

संस्कृतभाषायां संसारस्य प्राचीनतमं साहित्यमस्ति । इतिहासज्ञाः कथयन्ति यत् वेदानां साहित्यमेव सर्वेषु साहित्येषु प्राचीनतममस्ति । वेदाः च संस्कृतभाषायामेव लिखिताः सन्ति । वेदेषु सर्वविधिं ज्ञानं पश्यामः ।

वेदाः तु सर्वासां विद्यानां मूलम् । ते वेदाः चत्वारः सन्ति—ऋग्वेदः, यजुर्वेदः, सामवेदः अथर्ववेदश्च । विना कारणमपि वेदानामध्ययनं द्विजस्य कर्त्तव्यं कथयन्ति स्म अस्माकं पूर्वजाः । वस्तुतः वेदाः संस्कृतस्य गौरवम् ।

वेदैः सम्बद्धं नानाविधं साहित्यमपि संस्कृतभाषायामेवास्ति । वैदिक-वाङ्मयस्यपठनेन वयं न केवलमार्याणां संस्कृतिमेव बोधामः, अपितु सुखं , शान्तिं चाधिगन्तुं कर्त्तव्यं च बोद्धुं समर्थाः ।

संस्कृतभाषायामेव रामायणम्, महाभारतम्, पुराणानि, पञ्चन्त्रम्, जातककथाः, कथासरित्सागरः इत्यादयः इतिहासग्रन्थाः कथाग्रन्थाः च सन्ति । न तादृशं ग्रन्थं वयमन्यस्यां कस्यामपि भाषायां पश्यामः यादृशं महाभारतं संस्कृतभाषायमस्ति । एतस्य ग्रन्थस्य पठनेन इतिहासस्य, युद्धनीतेः, धर्मनीतेः, राजनीतेःच ज्ञानं भवति । महाभारत-विषये उचितमेव कथितम्—

“धर्मे अर्थे च कामे च मोक्षे च भरतर्षभ ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ।।”

भासः, कालिदासः, भवभूतिः, बाणः, भारविः, माघः, हर्षः, दण्डी इत्यादयोSनेके कवयः लेखकाश्च संस्कृतभाषायाः एव वरदाः पुत्राः सन्ति । एतेषां ग्रन्थानां  पठनेन चित्तं रसे निमग्नं भवति, मनुष्यः च संसारस्य कष्टानि विस्मृत्य आनन्दमनुभवति । आंग्लीयाः कालिदासं शेक्सपीयर-सदृशं नाटककारं कथयन्ति । परमस्माकं विचारे कालिदासस्य साहित्यं शेक्सपीयरस्य साहित्यात् उत्कृष्टतरमस्ति । एवञ्च संस्कृतसाहित्यस्य तुलनायां संसारे नास्ति अन्यासां भाषाणां साहित्यम् ।

किं बहुना, संस्कृतभाषायामेवास्माकं संस्कृतेः, बीजानि, एषा च भारतस्य गौरवम् । अतः एतस्याः पठनमत्यावश्यकम् ।। गणान्तरात्।

KN.Ramesh

unread,
Oct 31, 2017, 8:47:44 AM10/31/17
to samskrita
अनुवाद:----  मानसी दीक्षित

KN.Ramesh

unread,
Nov 2, 2017, 4:27:10 PM11/2/17
to samskrita
             श्रद्धेय डॉ. रामभाऊ पुजारी

महोदयः कामठीजनपदे अजायत। वृत्या सः अभियंता। षड्वर्षत: महोदयः गुरुकुले अधितवान्। षोडशवर्षैव तेन बनारसहिंदुविश्वविद्यालयत: आयुर्वेदे सुवर्णपदकेन सह आचार्य पदवी प्राप्ता।अनुपमोपलब्धिः एषा। आयुर्वेदारिक्त वेदविद्या (Vedic science), योग एवं ज्योतिष् विषये$पि तस्य महान् अधिकार:।

     आयुर्वेदाध्ययनानंतरं शासकीय तंत्र निकेतन विद्यालयतः सः स्थापत्यशास्त्रे अभियंतापदवीं प्राप्तवान्। तथा च शासकीयसिंचनविभागे अभियंतारुपेण योजितवान्।कोलकतातः AMIE प्रशिक्षणं यशस्वीतया पूर्णं कृत्वा तस्मिन्नेव विभागे जेष्ठस्थानं प्राप्तवान्। 

    विदर्भे चिखलदरा,सहस्रकुंड,नारनाला च जलविद्युतप्रकल्पउपस्थापने तेषां रचनायां च तस्य अग्रसहभाग:। स्वस्य गभीरज्ञानेन कल्पनया च तेन जलाकर्षणसिंचनपद्धति: विकासिता। एषा  पध्दति: पारंपारिकी,  बिंदुसिंचन च पद्धत्यै पर्यायीपध्दतिः।

स्वकार्येण साकं तेन २५०० प्राचीनग्रंथानां तथा ५०००धिकहस्तलिखितानां संग्रहः संरक्षणं च कृतम्।

     प्राचीन तथा आधुनिकविज्ञानस्य १४ शाखात: लेखानां संकलनं Pride Of India नामकग्रंथे तेन संपादितम्। एतादृशानां ग्रंथानां संकलनसंरक्षणार्थं रामकृष्णनगरे तेन ग्रंथालय: स्थापित:। एषः ग्रंथालय: विविधक्षेत्राणां अभ्यासकानां कृते मार्गदर्शकरुपेण वर्तते।

     यदा सः प्रशिक्षणार्थं कोलकतां गतवान् तदा रामकृष्णमिशनसंस्थया सह तस्य संपर्कः जातः। तस्यां संस्थायां साधुषु सः लोकप्रियः आसीत्।तदनंतरं राष्ट्रीयस्वयंसेवकसंघस्य संपर्कात् सः संघस्य नैकायै संस्थायै कार्यं कृतवान्। यथा संस्कृतभारती -शिल्प संशोधन प्रतिष्ठान- प्राच्य विद्या प्रतिष्ठान इत्यादयः।

     ३५- ४० वयसि ४ हृदयाघातादपि सः ७८ वर्षे यावत् जीवितः। महान् चमत्कारः एषः।

     महोदयस्य निधनेन संस्कृतं- संस्कृतिः- वेदविद्या-प्राच्यविद्या-आयुर्वेद…..एतादृशानां कतिपय क्षेत्राणां अपरिमीता हानिः जाता।


    । । ओम् शान्तिः शान्तिः शान्तिः । ।

KN.Ramesh

unread,
Nov 7, 2017, 12:10:17 PM11/7/17
to samskrita
🍃🍃 *कृष्णः* 🍃🍃
🌹🌹🌹🌹🌹🌹🌹
कृष्णः भारतीयसम्प्रदाये सनातनधर्मे च वासुदेवः श्रीकृष्णः स्वयं भगवान् परमतत्त्वं च ।। कृष्णो श्रीभगवतो लीलावताररूपः।। कृष्णस्तु स्वयं भगवान् इति कथ्यते। कर्षति आकर्षति इति कृष्णः, मेघश्यामवर्णीयः इति तस्य नामस्य अर्थः। मृत्युलोके इह श्रीकृष्णः द्वापरयुगे पाश्चैमिकवर्षे ३१०२ ईसापूर्वे मथुरानगरस्य कारागृहे ऽवतृतः। तस्य माता देवकी पिता वसुदेवश्च ।तदा कंसः देवक्या: भ्राता मथुरानरेश: आसीत् । कंसपितोग्रसेनः कृष्णस्य मातामहः। दुष्टेन कंसेन भगिनी देवकी आवुत्त: वसुदेव: च स्वकारागृहे बद्धौ।। कंसमतिबलवन्तं कश्चित् ऋषिः देवकीवसुदेवविवाहावसरे तयोरष्टमपुत्रः कंसमर्दनकारणं भविष्यतीति कथितवान्। तस्मात्तौ कंसेनातिचिन्तितेन कारागृहे बद्धौ आस्ताम्। वसुदेवदेवक्योः सप्तपुत्रान् क्रूर:कंसः हतवान्।अष्टमपुत्रः कृष्णः जनितः इति विदित्वा आगच्छति |किन्तु तदन्तरॆ कृष्णस्य स्थाने नन्दगोपतनया आगत्य तस्याः स्थाने गोकुले कृष्णः रक्षितवान्। एतद्विषयं तत्स्त्रीकन्यया विदितः कंसः श्रीकृष्णस्य अन्वेषणे सर्वत्र स्वसैन्यं प्रेषितवान्। तद्व्याजया आगतान् शकटासुर तृणावर्तादीन् संहरति। अर्जुनवृक्षछेदव्याजया धुनि,चमु इति असुरौ संहरति। एवं लोकपालः कृष्णः गोकुलं त्यक्त्वा वृंदावनं प्रति आगत्य तत्र बक-उग्र-वत्सासुरादीन् संहरति। तत्रैव कालीयमर्धनं कृत्वा लोकरक्षणार्थं कालीयं मारयति। तत्सप्तवयसि एव कालनेमिपुत्रान् वेषभस्वरूपान् सप्तदैत्यान् मारितस्य कृष्णस्य नीला इति कन्यया साकं विवाहं भवति। एकदा एषः वृन्दावने इन्द्रयज्ञं न्यवारयति। तदा कृद्धः इन्द्रः बृहद्वर्षधारां निरंतरं वर्षति। तदा कृष्णः गोवर्धनगिरिं धृत्वा वृन्दावनजनान् रक्षति।तद्दृष्ट्वा इन्द्रोपि कृष्णस्य समीपे शरणागतिं प्राप्नोति। एतद्गोवर्धनगिरिप्रसंगेन सर्वे जनाः श्रीकृष्णं स्वयं भगवान् इति जानन्ति। एवं शंखचूड-अरिष्टासुर-रजक- पूतनी-कुवलयापीड-चाणूर-मुष्टिकासीन् हत्वा स्वमातुलं कंसं च मारितः श्रीकृष्णः देवकी वसुदेवयोः बन्धनं निस्सारितवान्। १६१०८ पत्नीन् प्राप्तः कृष्णः नरकासुरसंहारानंतरं स्त्रीसंरक्षणार्थं १६००० कन्यान् उद्वहति। यतः नरकासुरः तान् कन्यान् स्वबंधने वनिहितव्वन्। यदा कृष्णः नरकासुरं हत्वा तान् कन्यान् विमोचति। तदा ते प्रार्थयंति। नरकासुरात् बन्धितान् अस्मान् कोपि नेछति। अतः अस्माकं तावत् त्वमेव गतिः पतिः इति। तेषां प्रार्थनानुसारेण कृष्णः तान् उद्वहति।अन्ये लक्ष्मीस्वरूपाःअष्टमहिष्स्तावत् सन्दर्भानुसारेण कृष्णं प्राप्नुवन्ति। कृष्ण: यादवकुलस्य राजा आसीत्। तेन भगवद्गीता संवाद: प्रदत्तः। गीतायाम् अष्टादश अध्यायाः सन्ति। दशमे अध्याये श्रीकृष्णः स्वदिव्यस्वरूपं वर्णयति। एकादशे अध्याये सः अर्जुनाय स्वस्य विश्वरूपं दर्शयति। द्वादशे अध्याये भक्तस्य दिव्यगुणाः वर्णिताः। कृष्णः इति नामं तावत् भगवद्मूलरूपेषु चतुर्विंशतिरूपेषु अंतिमः। महाभारतस्य विष्णुसहस्रनामे ५७ & ५५० तमे नामे प्रसिद्धः। कृष्णस्य इतिहासस्तु महाभारतॆ,भागवतमहापुराणे, विष्णुपुराणे, हरिवंशे गीयते। एषः कृष्णः एव ओडिशा मध्ये जगन्नाथ, महाराष्ट्रे विठोभ, राजस्थानमध्ये श्रीनाथ इति प्रसिद्धः। उत्तरप्रदेश, बिहार्, हरियाण, गुजरात्, डेल्ली मध्येषु कृष्णस्य संचलनमासीत् इति प्रथा। गणान्तरात्

hnbhat

unread,
Nov 7, 2017, 9:43:37 PM11/7/17
to samskrita@googlegroups com

पाश्चैमिकवर्षे इति कथम्? ऽवतृतः किं रूपम्? सप्तपुत्रान् - सप्त पुत्रान्✔ जनितः - जातः✔
किन्तु तदन्तरॆ कृष्णस्य स्थाने नन्दगोपतनया आगत्य तस्याः स्थाने गोकुले कृष्णः रक्षितवान्। कोर्थः?
तत्स्त्रीकन्यया ? तद्व्याजया - तद्व्व्यजेन✔ अर्जुनवृक्षछेदव्याजया - अर्जुनवृक्षछेदव्याजैन✔ कालीयमर्धनं - कालियमर्दनं ✔ कालीयं - कालियं ✔ न्यवारयति- निवारयति✔न्यवारयत्✔ पत्नीन् - पत्नीः✔ कन्यान् - कन्याः✔ तान् कन्यान् - ताः कन्याः✔ वनिहितव्वन् विनिहितवान्✔ तान् कन्यान् विमोचति - ताः कन्याः विमोचयति ✔ ते प्रार्थयंति। - ताः प्रार्थयन्ति।बन्धितान् - बन्धिताः
तेषां - तासां✔  तान् उद्वहति। - ताः उद्वहति।✔ अन्ये - अन्याःलक्ष्मीस्वरूपाःअष्टमहिष्स्तावत् = क्ष्मीस्वरूपाः अष्टमहिष्यस्तावत्✔ भगवद्मूलरूपेषु  - भगवद्मूलरूपेषु =भगवन्मूलरूपेषु ✔ विष्णुसहस्रनामे = विष्णुसहस्रनामसु✔ नामे प्रसिद्धः =नामनी प्रसिद्धे

गणान्तरात् --- गणान्तरे एतानि परिष्करणानि सूच्यन्ताम्!

On 7 November 2017, at 22:40, "KN.Ramesh" <knra...@gmail.com> wrote:

>
>
> *कृष्णः* 
>

>कृष्णः भारतीयसम्प्रदाये सनातनधर्मे च वासुदेवः श्रीकृष्णः स्वयं भगवान् परमतत्त्वं च ।। कृष्णो श्रीभगवतो लीलावताररूपः।। कृष्णस्तु स्वयं भगवान् इति कथ्यते। कर्षति आकर्षति इति कृष्णः, मेघश्यामवर्णीयः इति तस्य नामस्य अर्थः। मृत्युलोके इह श्रीकृष्णः द्वापरयुगे पाश्चैमिकवर्षे ३१०२ ईसापूर्वे मथुरानगरस्य कारागृहे ऽवतृतः। तस्य माता देवकी पिता वसुदेवश्च ।तदा कंसः देवक्या: भ्राता मथुरानरेश: आसीत् । कंसपितोग्रसेनः कृष्णस्य मातामहः। दुष्टेन कंसेन भगिनी देवकी आवुत्त: वसुदेव: च स्वकारागृहे बद्धौ।। कंसमतिबलवन्तं कश्चित् ऋषिः देवकीवसुदेवविवाहावसरे तयोरष्टमपुत्रः कंसमर्दनकारणं भविष्यतीति कथितवान्। तस्मात्तौ कंसेनातिचिन्तितेन कारागृहे बद्धौ आस्ताम्। वसुदेवदेवक्योः सप्तपुत्रान् क्रूर:कंसः हतवान्।अष्टमपुत्रः कृष्णः जनितः इति विदित्वा आगच्छति |किन्तु तदन्तरॆ कृष्णस्य स्थाने नन्दगोपतनया आगत्य तस्याः स्थाने गोकुले कृष्णः रक्षितवान्। एतद्विषयं तत्स्त्रीकन्यया विदितः कंसः श्रीकृष्णस्य अन्वेषणे सर्वत्र स्वसैन्यं प्रेषितवान्। तद्व्याजया आगतान् शकटासुर तृणावर्तादीन् संहरति। अर्जुनवृक्षछेदव्याजया धुनि,चमु इति असुरौ संहरति। एवं लोकपालः कृष्णः गोकुलं त्यक्त्वा वृंदावनं प्रति आगत्य तत्र बक-उग्र-वत्सासुरादीन् संहरति। तत्रैव कालीयमर्धनं कृत्वा लोकरक्षणार्थं कालीयं मारयति। तत्सप्तवयसि एव कालनेमिपुत्रान् वेषभस्वरूपान् सप्तदैत्यान् मारितस्य कृष्णस्य नीला इति कन्यया साकं विवाहं भवति। एकदा एषः वृन्दावने इन्द्रयज्ञं न्यवारयति। तदा कृद्धः इन्द्रः बृहद्वर्षधारां निरंतरं वर्षति। तदा कृष्णः गोवर्धनगिरिं धृत्वा वृन्दावनजनान् रक्षति।तद्दृष्ट्वा इन्द्रोपि कृष्णस्य समीपे शरणागतिं प्राप्नोति। एतद्गोवर्धनगिरिप्रसंगेन सर्वे जनाः श्रीकृष्णं स्वयं भगवान् इति जानन्ति। एवं शंखचूड-अरिष्टासुर-रजक- पूतनी-कुवलयापीड-चाणूर-मुष्टिकासीन् हत्वा स्वमातुलं कंसं च मारितः श्रीकृष्णः देवकी वसुदेवयोः बन्धनं निस्सारितवान्। १६१०८ पत्नीन् प्राप्तः कृष्णः नरकासुरसंहारानंतरं स्त्रीसंरक्षणार्थं १६००० कन्यान् उद्वहति। यतः नरकासुरः तान् कन्यान् स्वबंधने वनिहितव्वन्। यदा कृष्णः नरकासुरं हत्वा तान् कन्यान् विमोचति। तदा ते प्रार्थयंति। नरकासुरात् बन्धितान् अस्मान् कोपि नेछति। अतः अस्माकं तावत् त्वमेव गतिः पतिः इति। तेषां प्रार्थनानुसारेण कृष्णः तान् उद्वहति।अन्ये लक्ष्मीस्वरूपाःअष्टमहिष्स्तावत् सन्दर्भानुसारेण कृष्णं प्राप्नुवन्ति। कृष्ण: यादवकुलस्य राजा आसीत्। तेन भगवद्गीता संवाद: प्रदत्तः। गीतायाम् अष्टादश अध्यायाः सन्ति। दशमे अध्याये श्रीकृष्णः स्वदिव्यस्वरूपं वर्णयति। एकादशे अध्याये सः अर्जुनाय स्वस्य विश्वरूपं दर्शयति। द्वादशे अध्याये भक्तस्य दिव्यगुणाः वर्णिताः। कृष्णः इति नामं तावत् भगवद्मूलरूपेषु चतुर्विंशतिरूपेषु अंतिमः। महाभारतस्य विष्णुसहस्रनामे ५७ & ५५० तमे नामे प्रसिद्धः। कृष्णस्य इतिहासस्तु महाभारतॆ,भागवतमहापुराणे, विष्णुपुराणे, हरिवंशे गीयते। एषः कृष्णः एव ओडिशा मध्ये जगन्नाथ, महाराष्ट्रे विठोभ, राजस्थानमध्ये श्रीनाथ इति प्रसिद्धः। उत्तरप्रदेश, बिहार्, हरियाण, गुजरात्, डेल्ली मध्येषु कृष्णस्य संचलनमासीत् इति प्रथा। गणान्तरात्
>

>--
>You received this message because you are subscribed to the Google Groups "samskrita" group.

>To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.

KN.Ramesh

unread,
Nov 9, 2017, 10:58:47 AM11/9/17
to samskrita
>>गणान्तरात् --- गणान्तरे एतानि परिष्करणानि सूच्यन्ताम्!

परमदारणीय भट् महोदय,

एतत् सन्देश: कुत्रत  आगतं इत्यहन्नजाने | 
परन्तु भवतां  नामसहितम् गणे सूचितवान् |
अत परम् लेखकानां नामान्यपि संयोजयामि |
इदानीमपि ममकृते 200  posts नामरहितयासन्ति |

KN.Ramesh

unread,
Nov 9, 2017, 10:58:47 AM11/9/17
to samskrita
Essay on Teacher's day

को नामाचर्य:? - यो ह्याचारं ग्राहयति,छात्रोपयोगिविषययान् संगृह्णाति, छात्रबुद्धिं विकासयति च,स आचार्य: ।

 उक्त च निरुक्ते -       
  आचार्य: कस्माात्?
 आचारं ग्राहयति । आचिनोत्यर्थानं । आचिनोति बुद्धिमिति वा ।।         
  य: सदाचार- शिक्षणपिर्वकं छात्रेषु जितेन्द्रियत्वं पोषयत्,स आचार्य: । अतो गुरूचार्यो वा सदा देववत् पुज्य: ।


*गुरुनिन्दाकरणीया सर्वदा विश्वासः भवेत् गुरौ।*
*आत्मज्ञानं गुरुणैव नारायणः मिलति तदैव च।।*


वेदादिशास्त्रमर्मज्ञान् 
सदसन्मार्गबोधिन: ।
विद्याप्रदायिनो नौमि 
नित्यं प्रियगुरून् हृदा ।।

अज्ञाननाशरूपाय 
विद्याबुद्धिप्रदायिने ।
वरदाय सुदिव्याय 
सुगुरवे नमो नम: ।।

शिक्षकदिवसावरे  निखिलशिक्षकानां चरणेषु शब्दपुष्पमिदं समर्पये।

शिक्षकदिवसस्य अवसरेSस्मिन्  नैकश: शुभकामना: ।
💐💐💐💐💐
🙏 🙏 🙏 🙏 🙏
🌷🌷🌷🌷🌷

Hnbhat B.R.

unread,
Nov 9, 2017, 8:42:28 PM11/9/17
to sams...@googlegroups.com
आचिनोति च शास्त्रार्थान् आचारे स्थापयत्यपि ।
स्वयमाचरते यस्तु तमाचार्यं प्रचक्षते!!
 उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते।।


On Thursday, November 9, 2017, KN.Ramesh <knra...@gmail.com> wrote:
Essay on Teacher's day

को नामाचर्य:? - यो ह्याचारं ग्राहयति,छात्रोपयोगिविषययान् संगृह्णाति, छात्रबुद्धिं विकासयति च,स आचार्य: ।

 उक्त च निरुक्ते -       
  आचार्य: कस्माात्?
 आचारं ग्राहयति । आचिनोत्यर्थानं । आचिनोति बुद्धिमिति वा ।।         
  य: सदाचार- शिक्षणपिर्वकं छात्रेषु जितेन्द्रियत्वं पोषयत्,स आचार्य: । अतो गुरूचार्यो वा सदा देववत् पुज्य: ।


*गुरुनिन्दाकरणीया सर्वदा विश्वासः भवेत् गुरौ।*
*आत्मज्ञानं गुरुणैव नारायणः मिलति तदैव च।।*


वेदादिशास्त्रमर्मज्ञान् 
सदसन्मार्गबोधिन: ।
विद्याप्रदायिनो नौमि 
नित्यं प्रियगुरून् हृदा ।।

अज्ञाननाशरूपाय 
विद्याबुद्धिप्रदायिने ।
वरदाय सुदिव्याय 
सुगुरवे नमो नम: ।।

शिक्षकदिवसावरे  निखिलशिक्षकानां चरणेषु शब्दपुष्पमिदं समर्पये।

शिक्षकदिवसस्य अवसरेSस्मिन्  नैकश: शुभकामना: ।
💐💐💐💐💐
🙏 🙏 🙏 🙏 🙏
🌷🌷🌷🌷🌷

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+unsubscribe@googlegroups.com.

KN.Ramesh

unread,
Nov 10, 2017, 11:09:44 AM11/10/17
to samskrita
*संस्कृत भाषाया: महत्त्वम्*

भाषा किम् भवति “भाष्यते इति भाषा” अर्थात् जना: यस्मिन् स्व विचारान् प्रकटी कुर्वन्ति सैव भाषा भवति ।प्राचीने भारते संस्कृतम् एव जनसाधारणस्य भाषा आसीत् ,परन्तु कालक्रमेण तस्या: स्थानं विभिन्न क्षेत्रेषु भिन्न भिन्न भाषाभ्य: ग्रहीतम् ।अधुना विचाराणां आदान प्रदानं सर्वेभ्य: संस्कृत भाषायां न क्रियते ।परं अस्य इदम् अर्थं कदापि नास्ति यत् अस्या: भाषाया: क्षय: जात: । केचन जना: इमां भाषां मृत भाषां अपि कथयन्ति परं ते इदं तथ्यं विस्मरन्ति यत् संस्कृत भाषा सर्वाषां भाषाणां जननी अस्ति, संस्कृतं न केवलं भाषा अस्ति अपितु अस्यां अस्माकं संस्कृति: सुरक्षित रूपेण संरक्षितास्ति।कथ्यते च :
“भारते प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा”
आचारस्य शुभाशुभस्य ज्ञान विज्ञानस्य कर्त्त्व्याकर्त्त्व्यस्य निधि: अस्ति संस्कृतम् । यत् इह अस्ति तत् सर्वमेव अन्यत्र अस्ति यदन इह अस्ति न तत् क्वचित् । वेदा: संस्कृतभाषायां रचित प्रथम ग्रन्था: सन्ति ।वेदार्थनुशीलनात् ज्ञायते यत् वेदा: हि विविध ज्ञान विज्ञान राशय: ,संस्कृतेराधाररूपा: ,कर्त्तव्याकर्त्तव्य बोधका:,शुभाशुभनिदर्शका: ,जीवनस्योन्नायका: ,विश्वहितसंपादका: ,आचारसंचारका: नैराश्यविनाशका: ,चतुर्वर्गावाप्तिसोपानस्वरूपाश्च सन्ति ।
भिन्न भिन्न कालेषु भारतीयै: स्वविचारै: आचार तथा संस्कृति शिक्षा द्वारा विश्वस्य कृते ज्ञानं प्रदत्तम् स्वामी विवेकानंद प्रभृतिभि: विद्वद्भि: इदं कार्यं सम्य्का रूपेणकृतम्, कथितम्य अपि :-
एतद्देशप्रसूतस्य सकाशादग्रजन्मन: ।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवा: ॥
अधुनातनकाले जना: इदं तथ्यं विस्मरन्ति यत् वेदेषु सर्वमेव अस्ति ।यत्किंचिदपि विकासं जनै: अधुना पर्यन्तं कृतं तत् सर्वं वेदेषु विस्तृत रूपेण पवर्णितं अस्ति ।चिकित्सा क्षेत्रे वैदिक काल: समृद्ध: आसीत् वेदेषु शल्य चिकित्सायां प्रयुक्त सूक्ष्मातिसूक्ष्म उपकरणानां वर्णनं प्राप्यते ।गणित क्षेत्रे वैदिक गणितस्य गणना पद्धति: अति तीव्रा अस्ति येन संगणक गत्या गणना कर्तुं शक्यते । खगोलशास्त्र विषये अपि आर्यभट्ट द्वारा विविध प्रयोगानां उल्लेखं अत्र विद्यते । सर्वप्रथमम् आर्यभट्टेन एव कथितम् यत् सूर्य: अचल: पृथ्वी च चला । अर्थशास्त्रे चाणक्य द्वारा लिखित अर्थशास्त्रम् महत्त्वपूर्ण ग्रन्थं अस्ति ।
भारतस्य राष्ट्रीय चिन्हे संस्कृते एव उल्लिखितम् :- “सत्यमेव जयते” ।संस्कृत भाषायां विस्तृत ज्ञानं निहितं अस्ति,एतस्मात् कारणात् एव सर्वेषां विभागानां ध्येय वाक्यानि वेदनि:सृतानि सन्ति यथा भारतीय जीवन बीमा निगमस्य ध्येय वाक्यमस्ति : ‘योग क्षेमं वहाम्यहम्’’ ।केन्द्रीय विद्यालस्य ध्येय वाक्यम अस्ति “’तत् त्वं पूषन् अपावृणु’ एवमेव अन्येषां विभागानाम् ।
अस्माकं देशस्य विकासाय, स्व संस्कृते: संरक्षणाय एवं विश्व बन्धुत्व स्थापनाय संस्कृतम् अवश्यं पठनीयम्॥

“जयतु संस्कृतं जयतु भारतम्”

Ramakrishnan D

unread,
Nov 12, 2017, 6:23:28 AM11/12/17
to sams...@googlegroups.com
अहो देवभाषे !  कियत् माधुर्यं वितरति भवती |

--

KN.Ramesh

unread,
Nov 13, 2017, 11:54:44 PM11/13/17
to samskrita
Essay on Teacher's day

आज शिक्षक दिन:

श्रीगणेशाय नम: l🙏                
        🌹🌹'शिक्षकदिनं'' 🌹🌹   
         शिक्षकदिनं  सप्टम्बरमासस्य पञ्चमे दिनाङ्के आ ( भारतम् ) आचर्यते । इदं दिनं डॉ.  सर्वपल्ली राधाकृष्णन् महोदयस्य जन्मदिनम् । सः कश्चित् उत्तमः शिक्षकः आसीत् यः शिक्षणक्षेत्रम् अतीव प्रीणाति स्म । तस्य सम्माने एव तस्य जन्मदिनाङ्के शिक्षकदिनम् आचर्यते ।
२ )  शिक्षणस्य शिक्षकस्य च महत्त्वम् -

शिक्षणम् एव मानवतां बोधयति। शिक्षणेन विना मानवजीवनं पशुवदेव । प्राचीनकाले अस्माकं देशे गुरुप्रणाल्या शिक्षणं प्रचलति स्म । गुरूणाम् आश्रमाः/गुरुकुलानि आसन् येषु गुरवः छात्रेभ्यः शिक्षणं यच्छन्ति स्म । किन्तु इदानीं जनसङ्ख्यायाः वर्धनात्  पाश्चात्यसंस्कृत्याः प्रभावेन च शिक्षणपद्धतिः परिवर्तिता अस्ति । वर्तमानकाले प्रतिनगरं प्रतिग्रामं शिक्षणप्रदानार्थं शैक्षणिकसंस्थाः सन्ति । तथापि सर्वेभ्यः शिक्षणं न प्राप्यते ।
शिक्षणाय विद्यालयानां निर्माणं छात्राणां भवनानां शिक्षकाणां च प्रबन्धनं प्रशासनस्य कर्तव्यम् उत्तरदायित्वं च अस्ति । किन्तु तेषु शिक्षकः प्रमुखः  महत्वपूर्णः च अस्ति । शिक्षकाः चरित्रवन्तः  लोभरहिताः परोपकारिणः च भवन्ति चेत् छात्रान् सम्यक्तया मानवतायाः पाठं पाठयितुं शक्नुवन्ति । प्राचीनकाले सर्वेऽपि गुरवः उपर्युक्तस्वभाववन्तः आसन् । वर्तमानकालः धनप्रधानः अस्ति इत्यतः शिक्षकेभ्यः अपि वेतनस्य अत्यावश्यकता वर्तते । शिक्षक: एव प्रत्येकं जनं मौलिकजीवनम् अध्यापयति । अतः शिक्षकाणां सम्माननाय शिक्षकदिवसस्य आचरणस्य परम्परा प्रारब्धा ।
३ ) शिक्षकदिवसस्य आयोजनम् ---
 
शिक्षकदिवसे शिक्षणसंस्थाः सांस्कृतिकोत्सवं आयोजयन्ति । अस्मिन् दिवसे शालासु विद्यालयेषु वा स्पर्धाः भवन्ति । तासु स्पर्धासु विद्यार्थिनः उत्साहपूर्वकं भागं गृह्णन्ति स्वशिक्षकान् आनन्दयन्ति च । महाविद्यालयेषु, विश्वविद्यालयेषु च शिक्षकदिवसे योग्यानां पदवीधरछात्राणां शिक्षकत्वेन चयनं भवति । शिक्षकाः तादृशान् छात्रान् प्रेरयित्वा अन्यत्र पाठनार्थं प्रेषयन्ति ।                                      ४ ) शिक्षकाणां सम्माननम् ---

शिक्षकदिवसे शैक्षणिकसंस्थाः केवलं पुष्पमालां प्रमाणपत्रं च   दत्त्वा श्रेष्ठशिक्षकान् सम्मानयन्ति । किन्तु अन्यां कामपि विशिष्टव्यवस्थां न ददति । वर्तमानकाले कोऽपि जनः शिक्षकस्य महत्वं न जानाति । अतः जनान् शिक्षकस्य महत्वं बोधयित्वा शिक्षकेभ्यः सर्वत्र उत्तमस्थानं कल्पनीयम् ।   
शिक्षकाणामपि दायित्वमस्ति यत् तैः आदर्शचरित्रानुसारं समाजस्य मार्गदर्शनं करणीयम् । शिक्षकैः धूम्रपानं मदिरापानं  अन्यत्  दुर्व्यसनं वा न करणीयम् । शिक्षकैः विशेषशिक्षणवर्गाः न चालनीयाः । तैः छात्रेभ्यः विद्यालये एव सम्पूर्णशिक्षणं दातव्यम् । श्रेष्ठशिक्षकाः सदैव सम्मानं प्राप्नुवन्ति ।                           
      🌹जयतु शिक्षकदिनम् l🌹

KN.Ramesh

unread,
Nov 14, 2017, 6:00:01 AM11/14/17
to samskrita
Reply all
Reply to author
Forward
0 new messages