छे च - Panini Sutram - Sanskrit

204 views
Skip to first unread message

K.N.RAMESH

unread,
Dec 19, 2017, 12:18:18 PM12/19/17
to
courtesy: Sri. Ramesh Prasad Shukla

।।श्रीमते रामानुजाय नमः।।

' छे च '
-----------

केचन च्छान्दोग्योपनिषदिति लिखन्ति । किमेतादृशस्थलेषु यदा न सधिः कृता यदा वा वाक्यस्य प्रथमशब्दतया प्रयोगः क्कृतः तदा अर्धाक्षरस्यापेक्षा भवति।

पाणिनीयानुसारेण – 

छे च ६।१।७३

ह्रस्वस्य तुकिति वर्तते। छकारे परतः संहितायां विषये ह्रस्वस्य तुगागमो भवति।  

दीर्घात् छे तुकिति वर्तते। पदान्ताद् दीर्घात् परो यः छकारः तस्मिन् पूर्वस्य तस्य एव दीर्घस्य पूर्वेण नित्यं प्राप्तो वा तुगागमो भवति। कुटीच्छाया, कुटीछाया। इति दीर्घस्य विकल्पेन तुगागमः, पदान्ताद् वा भवति, ह्रस्वस्य नित्यमेव।

शिवच्छाया, शिवस्य च्छत्रम्’ इति। लक्ष्मीच्छाया, लक्ष्मीछाया इति विकल्पेन दीर्घात् विकल्पेन तुक्, तस्य श्चुत्वेन चकारः इति पाणिनीयप्रक्रिया। विसर्गस्य तु कुत्रापि न तुक् विधीयते, नापि छकारस्य चकारः।

                 –जय श्रीमन्नारायण
Reply all
Reply to author
Forward
0 new messages