अथ सिद्धान्तकौमुद्याः समासप्रकरणवर्गः प्रारभ्यते॥विदितमेवैतद्भवतां यद्वयं प्राक्कारकप्रकरणमधीत्य समापितवन्तः। अधुना तदनन्तरं समासप्रकरणस्याध्ययनमारप्स्यामहे। अस्य वर्गस्य विवरणमधो लिख्यते।
•
वर्गारम्भः। अस्य आङ्ग्लमासस्य त्रिंशद्दिनाङ्कात्।
•
दिनानि। प्रतिसप्ताहं मङ्गलबुधगुरुवासरेषु।
•
समयः। रात्रौ दशाधिकनववादनतो ९।१० दशोनदशवादनपर्यन्तम् ९।५०)।
•
आचार्या। विदुषी चारुशीलामहाभागा।
•
माध्यमम्। संस्कृतम्।
•
शुल्कम्। पञ्चशतं रूप्यकाणि ₹५००।
•
शिक्षणोपकरणम्। गूगल्मीटितिमाध्यमेन।
अथ ध्यातव्या अंशाः।
• वर्गः पाठिकासमयानुसारमेव भविष्यति। अतः कदाचित् कस्मिंश्चित् सप्ताहे वर्गो न स्यादपि।
• अस्य वर्गस्य कोऽपि निश्चितः कालावधिर्नास्ति। ये एतान् नियमानङ्गीकुर्वन्ति त एव प्रवेशार्हाः।
• कारकप्रकरणे ये नियमिततयोपस्थिता आसन् तैः सम्पूर्णं शुल्कं न देयम्। ते केवलं शतं रूप्यकाणि ₹१०० प्रदाय पञ्जीकरणं कर्तुमर्हन्ति।
• अध्ययनोत्सुकाः कृपया अधः प्रदत्तेन सूत्रेण गूगलपत्रकं सम्पूर्य प्रवेशं लभन्ताम्। तत्रैव सूत्रेण वाट्सैब्गणेऽपि सम्मेलनं करणीयम्। सर्वाः समयादिसूचनाः तत्रैव ज्ञापयिष्यन्ते।
• भवन्तः स्वपरिचितेषु व्याकरणजिज्ञासुषु सूचनामिमां प्रसारयन्तु इत्यभ्यर्थना।
अधिकविवरणार्थं सम्पर्कसंख्या।
+918605051087पञ्जीकरणाय। t.ly/HIBvr