वर्णव्यवस्थाप्रयोजनं कर्म्मयोगमहत्त्वञ्च।

9 views
Skip to first unread message

संस्कृत संवादः

unread,
Jun 12, 2026, 4:02:50 AM (21 hours ago) Jun 12
to Samv...@googlegroups.com, संस्कृतसन्देशश्रेणिः samskrta-yUthaH
अथ वर्णव्यवस्थायाः किं प्रयोजनमिति अवगन्तुमर्हम्। प्रथमस्तु जन्मनैव वर्णव्यवस्थेति स्फुटं सत्यम्। यो जनो मनागपि शास्त्राध्ययनं कुर्यात् स जानीयाद् एव यद् जन्मनैवादिकालादेषा व्यवस्था बभूव। परन्त्वाङ्ग्लमतेन पराभूतं भारतवर्षं स्वकीयां सुपवित्रां परम्परामप्यवमन्यते। परन्तु किमर्थमेष वर्णाश्रमधर्म्मः स्थापित इति चेत् तद्धेतुः कर्मयोगः। वस्तुतः तु यज्ञार्थात्कर्मणोऽन्यत्र क्रियमाणानि सर्वाणि कर्माण्येव जीवस्य बन्धनानि भवन्ति। निष्कामभावेन स्वधर्म्मं पालयन्नेव जन्तुः पापात् प्रमुच्यते। ब्राह्मणानामध्यापनं याजनं क्षत्त्रियाणां रक्षणं शासनं वैश्यानां कृषिगोरक्ष्यवाणिज्यं शूद्राणाञ्च द्विजशुश्रूषेति।

तत्र ब्राह्मणानां धर्म्मः सर्व्वदोषेभ्यो हिंसाधनतृष्णापरवश्यतादिभ्यः परिशुद्धः ततश्च ब्राह्मणाः श्रेष्ठाः कथिताः तद्वत् स्त्रीशूद्राणां धर्मं च परिचर्यां परवश्यताक्षुद्रतादिदोषैर्म्लानां निकृष्टतमामाहुः। किमनया व्याख्यया स्त्रीशूद्रादयो ब्राह्मणेभ्यः पापिष्ठा इति सिद्ध्यति। मैवम्। यथा पिता माता अग्रजो वा सदा नरात् श्रेष्ठः अपि सन्तः पापकर्म्माणो भवितुं शक्यन्ते तद्वत् ब्राह्मणोऽपि पापी स्त्रीशूद्रादयोऽपि पुण्यभागिनः भवितुमर्हन्ति। तथापि स्त्रीशूद्रादयोऽभिमानदोषनिवारणाय ब्राह्मणादीन् जातु नावमन्येरन्। पूजितस्तु निर्जीवशिलाखण्डोऽपि दैवो भवति किं पुनर्यदि ब्राह्मणो दुष्टोऽपि वा पूजितः।

परम्पराप्राप्तो यद्धर्म्मः स एव धर्म्मः। तदभावे नरः कामाचारेण कर्म्म करोति यथा वर्तमाने युगे प्रचलति। यो यदिच्छति तदेव कर्म्म स्वीकरोति। परन्तु कामः तु क्षणिको नश्वरश्च। कामस्य नाशः तु अवश्यंभावी। पूर्णे सति कामो नश्यति पुनश्च हते उत्साहेऽपि अपूर्णः कामो नश्यति एव। तस्मिन् कामे नष्टे सति कामाचरणेन स्वीकृतं कर्म भारवद्भवति। तस्मात्कर्ममार्गात्कथं मुक्तिः सम्भवेत्। कर्मयोगादन्येऽपि योगाः सन्ति परन्तु कर्मयोग इहलोके परलोके चोत्थानकारणमस्ति यत् कृत्वा पाणिनिः पाणिनिर्बभूव पृथ्वीराजश्च पृथ्वीराजः अम्बानी अम्बानी दशरथमाँझी चापि माँझी।

भगवान्स्वयमागत्य धर्मोपदेशं न करोति। स आदिदेवः शास्त्रेण विदुषा वोपदिशति। वर्तमानयुगे आत्मनैव आत्मानं बद्ध्वा जनाः तस्य धर्म्मस्य पालने अशक्ताः सन्ति। तथापि यदि किञ्चिन्मात्रं धर्मबोधः शेषोऽस्ति तर्हि तस्य पुनरुत्थानायायं प्रयासो विधीयते। यद्येकोऽपि जन उन्मीलितचक्षुर्भवेत्तर्हि तन्महापुण्यमेव। श्रीमद्भगवद्गीतायामपि यथोक्तम्।
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः॥
स्वस्तिर्भवतु।
संस्कृत संवादः
https://linktr.ee/samvadah


Reply all
Reply to author
Forward
0 new messages