Re: [New post] Learning Sanskrit by fresh approach – Lesson No. 96

113 views
Skip to first unread message

hnbhat B.R.

unread,
Jun 22, 2011, 6:14:55 AM6/22/11
to S. L. Abhyankar, sams...@googlegroups.com

 

स्वाध्यायः १ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा पुनर्लिखतु ।

सहसा विदधीत न क्रियाम् अविवेकः परमा-आपदां पदम् ।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयं एव हि संपदः ॥ (किरातार्जुनीयम् २.३०)
अत्र सन्धयः -
  1. क्रियाम् अविवेकः = क्रियामविवेकः (व्यञ्जन-संधिः)
  2. परमापदाम् =  परमा-आपदाम् (स्वर-संधिः)
  3. स्वयमेव = स्वयं एव (व्यञ्जन-संधिः)
  4. किरातार्जुनीयम् = किरात-अर्जुनीयम्

The first संधि is not actually shown. It can be seen that when putting the verse into four quarters,  the words क्रियाम् and अविवेकः would be at the end of first quarter and at the beginning of second quarter respectively. Hence it becomes better to leave them to be without their सन्धि.

 
 
I don't think a consonant + vowel form a sandhi, than a syllable.
 
I have not seen any such sundhi named as व्यञ्जनसन्धिः।
 
  1. (मनुजः) क्रियाम् सहसाविदधीत ।
  2. अविवेकः परमापदां पदम् (भवति) ।
  3. गुणलुब्धाः संपदः विमृश्यकारिणं स्वयं एव हि वृणते हि ।
  4. किरातार्जुनीयम्

१ मनुजः "मनुज" इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • १-१ मनुतः (मनुवंशे) जातः इति मनुजः । उपपद-तत्पुरुषः ।
  • १-२ मनुतः "मनु" (= the personage regarded as the progenitor of human race) इति पुल्लिङ्गि नाम । तस्मात् "तः"-प्रत्ययेन (तं गृहीत्वा अग्रतः = ahead from the one) इत्यर्थेन तद्धितम् मनुतः (= ahead from Manu) ।
  • १-३ जातः "जन्" (= to be born) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् "जात" (= born) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १-४ मनुजः = descendant of Manu, human being, any person. (Has the English word "Man" also a derivation from Manu ?

 
 
There is no word मनुजः requiring any elaborate etymology in the verse itself.
 
 
६ परमापदाम् "परमापत्" इति सामासिकं स्त्रीलिङ्गि नाम । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
६-१ परमा आपत् इति परमापत् । कर्मधारयः ।
  • ६-२ परमा "परम" (= extreme) इति विशेषणम् । अत्र स्त्रीलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ६-३ आपदाम् "आ + पत्" १ प (= to befall) इति धातुः । तस्मात् स्त्रीलिङ्गि नाम "आपत्" (= trouble) । तस्य षष्ठी विभक्तिः बहुवचनम् च ।
  • ६-४ परमापत् = extreme trouble

७ पदम् "पद" (= step) इति नपुंसकलिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

 
 
It has been commented as परम् आपदां पदम् - आत्यन्तिकम्, आपदाम् = विपदाम्, कारणम्।
 
The ultimate source of all the disasters (contranst with sampat, success, it would be failure).
 
 
 
१० विमृश्यकारिणम् "विमृश्यकारिन्" इति तद्धितं विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।
१०-१ विमृश्य करोति इति विमृश्यकारिन् = one who acts on exercising discretion
१०-२ विमृश्य "वि + मृश्" ६ प (= to discern) इति धातुः । तस्मात् भूतकालवाचकं अव्ययम् "विमृश्य" (= on exercising discretion) ।
 
विमृश्यकारिन् is उपपदसमासः and not तद्धितम् according to Panini.
 
Monier Williams explains it as "one who is acting after due deliberation"

१२ किरातार्जुनीयम् इति सामासिकं तद्धितं च विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

  • १२-१ किरातः च अर्जुनः च किरातार्जुनौ इति इतरेतर-द्वन्द्वः ।
  • १२-२ किरातार्जुनयोः इदं किरातार्जुनीयम् इति तद्धितम् विशेषणम् ।
  • १२-३ किरातः "किरात" (= ) इति पुल्लिङ्गि नाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • १२-४ किरातार्जुनीयम् = something which is related to Kiraata and Arjuna

 
 
किरातार्जुनौ अधिकृत्य कृतो ग्रन्थः - किरातार्जुनीयम्। and it is not anything relating to any hunter and Arjuna, but it denotes the poem by Bharavi.

गुणलुब्धाः संपदः विमृश्यकारिणं स्वयं एव हि वृणते हि ।
Glory (good results) always enticed by virtuosity prefer one who exercises discretion.

Series of Sucess (in contrast to failure on each step) is attracted by the virtues and chose one who acts upon deliberating on the possibilities of success and failures of his endeavour.
 
 

सहसा विदधीत न क्रियाम् । वर्णाः १०
अविवेकः परमापदां पदम् । वर्णाः ११
वृणते हि विमृश्यकारिणं । वर्णाः १०
गुणलुब्धाः स्वयमेव हि संपदः ॥ वर्णाः १२

अत्र किमपि मात्रावृत्तम्  ।

 
नात्र किमपि मात्रावृत्तम्, किं तु विषमवृत्तं वियोगिनी नाम गणवृत्तम्।
१० + ११, १०+११ correctly. You have one redundant letter वर्ण in the last पाद.
 
वियोगिनी वृत्तम् -
"विषमे ससजा गुरुः समे सभरा लो ऽथ गुरुर्वियोगिनी" इति लक्षणात्।
 

सहसा [स] विदधी[] त न क्रि[ज] या- [गुरुः] । वर्णाः १०
मविवे[स] कः पर[भ]-मापदां[र] प [ल]दम्[गुरुः]  । वर्णाः ११
वृणते[स] हि विमृ[स]श्यकारि[ज]णं । वर्णाः १०
गुणलु[स]ब्धाः स्वय[स]मेव <हि> सं[र]प[ल]दः[गुरुः]  ॥ वर्णाः १२

 The highlighted syllable "hi" is redundant in the verse. It is not available in the original text.

Exercise 6 Comments, Notes, Observations, if any.

उदाहरणार्थं श्लोकमॆकम् अत्र दत्तम् ।
न नोननुन्नो नुन्नानो (नुन्नेनो ?) नाना नानानना ननु ।
नुन्नोऽनुन्नो ननुन्नेना नानेना नुन्ननुन्ननुत् ॥ किरा. ॥

 
न नोननुन्नो नुन्नोनो नाना नानानना ननु ।
नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् ॥॥ किरा.१५.१४॥
पदच्छेदः:
न  ना+ऊननुन्नः+ नुन्नोनः+ ना+अना नानाननाः+ ननु ।
नुन्नोऽनुन्नो ननुन्नेनः ना+ अनेनाः+ नुन्ननुन्ननुत् ॥ किरा.१५.१४॥
 

६-४ The mention भारवेरर्थगौरवम् is a part of a shloka which brings out specialties of different Sanskrit poets. It reads as follows -

उपमा कालिदासस्य भारवेरर्थगौरवम् ।
दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ।।
 
Some read नैषधे instead of दण्डिनः
 
६-५ In the note under (६-२) it is mentioned that भारविः was not the real name of the poet. It was his pen name. See "...भारवॆः मूलनाम दामोदरः आसीत् । भारविः तस्य उपाधिः आसीत् ।...."
  • I am left wondering about the coining of the pen name as भारविः. I guess it could have been derived as भाति रविः इव इति भारविः One who shines like the sun !

 
 
"तावद् भा भारवेर्भाति यावन् माघस्य नोदयः" is an
 
It another saying comparing both भारवि (one who is having the shining like the sun, and poets name) and माघ where pun is used intended to convey pun in भारवि and माघ (rainy season and poets name) based on the fact that in the rainy season, the rays of the sun diminished by the clouds. This obviously shows the superiority of Magha to Bharavi.

६-६ I seek guidance on the name of the meter of this सुभाषितम्

It is a श्लोकवाक्य of the महाकाव्य किरातार्जुनीयम्, commented in this lesson. And I have analysed the verse and checked the meter and analysed it as वियोगिनी.

--
Dr. Hari Narayana Bhat B.R. M.A., Ph.D.,
Research Scholar,
EFEO,
PONDICHERRY - 605 001


SL Abhyankar

unread,
Jun 21, 2011, 10:07:14 PM6/21/11
to sams...@googlegroups.com
नमो नमः !
सहर्षं निवेदयामि यत् http://slabhyankar.wordpress.com/ एतस्मिन् जालपुटे -

Learning Sanskrit by fresh approach – Lesson No. 96
संस्कृतभाषायाः नूतनाध्ययनस्य षट्-नवतितमः (९६) पाठः ।


उपरीकृतः अधुनैव ।
विद्वज्जनाः टीका-टिप्पणीभिः उपकुर्वन्तु कृपया ।
सस्नेहम्,
अभ्यंकरकुलोत्पन्नः श्रीपादः ।
"श्रीपतेः पदयुगं स्मरणीयम् ।"

hnbhat B.R.

unread,
Jun 24, 2011, 12:51:18 PM6/24/11
to SL Abhyankar, sams...@googlegroups.com



2011/6/24 SL Abhyankar <sanskr...@gmail.com>
नमो नमः श्रीमन् "हरि नारायण भट"-महोदय !
यथामति मम प्रतिक्रियाः निम्नमिव -
    1. I don't think a consonant + vowel form a sandhi, than a syllable. 
      1. स्वयमेव = स्वयं एव (व्यञ्जन-संधिः) 
      1. किम् अत्रापि संधिः न माननीयः ?
      2. मम विचारेण यत्र कुत्रापि द्वौ शब्दौ असंलग्नौ दर्शनीयौ तत्र संधि-विच्छेदः कर्तव्यः । यदा संलग्नौ दर्शनीयौ उच्चारणीयौ तदा संधिः भवति इति मे मतिः ।

    पाणिनीयानुसारेण मकारस्य हलि परे एवानुस्वारो भवतीति नियमः। कथं भवता तत्र सन्धिः अचि परे अनुस्वारः मान्यते? केन प्रमाणेन इति स्पष्टीकृतं चेत् माननीय एव। अत्र स्पष्टा व्याख्या वर्तते -


    भवदुक्तः व्यञ्जनसन्धिः अत्र दृश्यते वा इति दृश्यताम् --


    अत्रापि आंगलभाषायां विवरणं वर्तते व्यञ्जनसन्धेः।



     
      1. There is no word मनुजः requiring any elaborate etymology in the verse itself.
        1. मनुजः इति शब्दः सुभाषिते तु नास्त्येव । परन्तु "क्रियाम् सहसा न विदधीत ।" अस्य वाक्यांशस्य कर्तृपदं स्पष्टीकर्तुं (मनुजः) आवश्यकः ।
        2. ये केऽपि शब्दाः स्पष्टीकृताः तेषां विवरणम् कर्तव्यं इति पद्धतिः मया अनुसृता, इत्येव ।

      भवता अनुस्रियते इति तु सत्यम्। परं तत्र मनुजः इति किं नियामकम्? पुरुषः इति वा, नरः इति वा यत्किमपि पदं स्यात्। यः को ऽपि पुरुष अपेक्षित एवान्वयार्थमिति व्याख्यानं विनापि ज्ञायते, अनपेक्षितस्य अधिकस्य दानेन श्लोकस्याभिप्रायपरिज्ञाने किमपि प्रयोजनं नास्ति इत्येव मयाभिप्रेतम्। यदि अन्ये बहवः शब्दाः व्युत्पादयितुं शक्याः, किमिति मनुजशब्दमात्रे आग्रहः?
        1. It has been commented as परम् आपदां पदम् - आत्यन्तिकम्, आपदाम् = विपदाम्, कारणम्।
          1. सुष्ठु ज्ञापितं भवता । धन्यवादाः ! "परमापदां पदम्" इति वाक्यांशस्य विवरणम् द्विप्रकारेण भवति खलु ।
          2. परमापदां पदम् = "परमाः आपदः, तासां पदम्" अथवा 
          3. परमापदां पदम् = आपदां परं पदम् ।
          4. अपि युक्तमेतत् ?
        अयुक्तमिति न वदामि। युक्ततरैः तथाव्याख्यानं प्रकरणानुसारेण वक्तव्यस्यार्थस्य समर्थकं भवति यदि, तत् स्वीकर्तुं युज्यत एव। मल्लिनाथापेक्षया नाहं समर्थः इति तु निश्चप्रचं वक्तुं शक्यते।
         
          1. विमृश्यकारिन् is उपपदसमासः and not तद्धितम् according to Panini.
            1. अहमपि संदिग्धः आसम् । परन्तु यतः "विमृश्य" इति पूर्वपदम् अव्ययमस्ति तथा "कारिन्" इति कोऽपि प्रत्ययरूपी, तेन मया "विमृश्यकारिन्"-शब्दः तद्धितः इति मानीतः ।
            2. पाणिनेः केन सूत्रेण भवति एषः उपपदसमासः?

          सूत्राभावे समास एव न भवतीति न। "उपपदमतिङ्" (2-2-19) इति कृतः समासः  उपपदसमासः इति व्याकरणे प्रसिद्धम्। अस्य सूत्रस्य विवरणं दृश्यताम् -


          किरातार्जुनौ अधिकृत्य कृतो ग्रन्थः - किरातार्जुनीयम्। and it is not anything relating to any hunter and Arjuna, but it denotes the poem by Bharavi.
            1. आङ्ग्लभाषायां relate इति शब्दः बह्वर्थकः खलु ? यदि केऽपि नामानि कस्मिन्नपि काव्ये उद्धृतानि तदापि relate इति शब्दः युज्यते खलु ?

          किरातार्जुनीयम् इति शब्दस्य तद्धितान्तस्य व्य्त्पत्तिः, संस्कृतव्याकरणरीत्या प्रदर्शितः, न तु आङ्गलभाषया विवरणमपेक्ष्य। यदि व्युत्पत्तिः प्रदर्श्यते, संस्कृतव्याकरणमेव मान्यं मम| आङ्गलभाषायां विवरणं संस्कृतव्युत्पन्नार्थस्य अनुवादकश्चेदेव व्युत्पत्तिरिति कथयितुं शक्यते इति मे मतिः। 

          यत्किमपि ययोः कयोश्चित् संबद्धं चेत् किरातार्जुनीयमिति नोच्यते, संस्कृतव्याकरणानुसारेण, किं तु प्रकृते भारविनिर्मितस्यैव महाकाव्यग्रन्थस्यैव नाम अभिधीयते अनेन पदेन। छप्रत्ययान्तेन तद्धितपदेन। द्वन्द्वसमासात् निष्पन्नः (4-3-88 ) शिशुक्रन्दयमसभद्वन्द्वैन्द्रजननाऽदिभ्यः छः "

          इति सूत्रेण। अत्र अन्यान्युदाहरणानि दृश्यानि -


          1. Series of Success (in contrast to failure on each step) is attracted by the virtues and chose one who acts upon deliberating on the possibilities of success and failures of his endeavour.
            1. दृश्यते यत् भवता "संपदः"-शब्दस्य अर्थः Series of Success एवम् अनुवादितः । 
            2. मया तस्य अनुवादः "Glory (good results)" एवम् गृहीतः ।
          बहुचचनानुसारेण सम्पत्परम्परा एव स्वयं वृणुते इति तात्पर्यात् तथोक्तं मया।  अत्र सम्पत्पदेन कार्यसम्पत्तिरुच्यते, पूर्वमेव विमृश्य साफल्यवैफल्यपर्यालोचनया करणे, प्रारब्धस्य कार्यस्य सम्पत्तिः सुखेन साफल्यं स्वतः सिद्धमेव इति उक्तस्य श्लोकस्य तात्पर्यात्। विमर्शकरणाभावः - अविवेकः परमापदां पदमिति पूर्वार्धे सर्वापदाम् आत्यन्तिकं कारणमिति प्रतिपादितात् व्यतिरेकः अत्र प्रदर्श्यते।

          "deliberating on the possibilities of success and failures" एतत्तु "विमृश्यकारिणः"-शब्दस्य विवरणम् दृश्यते । मह्यं तु "endeavour." प्रयत्नस्य महत्त्वम् अधिकतरम् । तेनैव एडिसन-शास्त्रज्ञः कतिपयं शोधकार्यं कृतवान् । अविरत-प्रयत्नः एव गुणः । यद्यपि सर्वे प्रयत्नाः सफलाः न भवन्ति, तथापि संपदः प्रयत्न-गुणेनापि अवश्यं लुब्धाः भवन्ति । प्रयत्नः अविरतः भवितव्यः सः एव विमर्शः । कथमिदम् ? 

          उपर्येव उत्तरं दत्तम्। विमृश्यकरणमेव विवेकः इति पूर्वार्धव्यतिरेकेण अत्र प्रतिपादने एव तात्पर्यात् कवेः। यत्नं विना किमपि न सिद्ध्यति, यत्नाकरणम् आलस्यमित्युच्यते, न तु अविवेकः इति। विमर्शशब्दस्य पूर्वमेव प्रारिप्सितस्य कार्यस्य चिन्त्यमानस्य् साधकबाधकपर्यालोचने एव रूढिः, अत एव कोशे तथा दृश्यते। साधकबाधकपर्यालोचनाभव एव अविवेकः सर्वेषां अनथाणामात्यन्तिकं कारणमिति कविनैव प्रतिपादिते, अत्र भवता अन्यथा अर्थस्य अप्रसिद्धस्य आनयनं न शोभते। कथमिति यदि भवता प्रयोगेण प्रदर्श्यते, तत् स्वीकर्तुं युज्यते, अन्यथा कथं स्वीक्रियते यत् भवता कल्पितो ऽर्थ, ग्रन्थाननुकूलश्च। अत्रैव उद्दिष्टार्थस्य साहसकरणाभावेन, विमर्शकरणस्य सर्वात्मना प्राधान्येन अन्वयव्यतिरेकाभ्यां प्रतिपादने कवेस्त्तात्पर्यात्। ’सहसा विदधीत न क्रियामिति" विविकाभावेन न प्रवर्तितव्यम्, कार्यप्रारम्भात् पूर्वमेव विमर्शस्य् करणम्, न तु प्रारम्भानन्तरमित् च।

          अन्तिमे पादे "हि" इति redundant letter वर्ण: अपि निर्देशितः । मया तु संपूर्णं सुभाषितम् या चर्चा अभवत् तस्याः गृहीतम् । तत्रापि सः वर्णः आसीत् खलु ? अनेन वर्णेन अर्थदोषः वा उच्चारण-बाधापि न भवति, इति दृश्यते ।

          वृत्तं तु संगच्छते खलु? किमपपाठसमर्थनेन छन्दोभङ्गे आग्रहेण? भवता बाधा न स्यात्, छन्दोबाधा तु भवत्येव, सम्पूर्णे द्वितीयसर्वे वियोगिनीवृत्तमेव प्रयुक्तम्। कथमत्र छन्दोभङगः आश्रीयते? किमर्थं च? इति न जानामि।

          अर्थे च, वाक्ये हि इति अव्ययद्वयमधिकमेव दृश्यते -

          "वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः।"

          एकेनैव हि इत्यव्ययेन वक्तव्यस्यार्थस्य समर्थनार्थं प्रयोगात्, द्वयोः प्रयोगे नार्थाधिक्यं किंचित्, इति अनर्थकपदप्रयोगः दोषायैव। छन्दोभङगस्तु स्पष्ट एव,  वियोगिनीवृत्तभङ्गात्। 

          सादरम्

          SL Abhyankar

          unread,
          Jun 24, 2011, 11:34:47 AM6/24/11
          to hnbhat B.R., sams...@googlegroups.com
          नमो नमः श्रीमन् "हरि नारायण भट"-महोदय !
          यथामति मम प्रतिक्रियाः निम्नमिव -
          1. I don't think a consonant + vowel form a sandhi, than a syllable.
            1. स्वयमेव = स्वयं एव (व्यञ्जन-संधिः)
            1. किम् अत्रापि संधिः न माननीयः ?
            1. मम विचारेण यत्र कुत्रापि द्वौ शब्दौ असंलग्नौ दर्शनीयौ तत्र संधि-विच्छेदः कर्तव्यः । यदा संलग्नौ दर्शनीयौ उच्चारणीयौ तदा संधिः भवति इति मे मतिः ।
          1. There is no word मनुजः requiring any elaborate etymology in the verse itself.
            1. मनुजः इति शब्दः सुभाषिते तु नास्त्येव । परन्तु "क्रियाम् सहसाविदधीत ।" अस्य वाक्यांशस्य कर्तृपदं स्पष्टीकर्तुं (मनुजः) आवश्यकः ।
            1. ये केऽपि शब्दाः स्पष्टीकृताः तेषां विवरणम् कर्तव्यं इति पद्धतिः मया अनुसृता, इत्येव ।
          1. It has been commented as परम् आपदां पदम् - आत्यन्तिकम्, आपदाम् = विपदाम्, कारणम्।
            1. सुष्ठु ज्ञापितं भवता । धन्यवादाः ! "परमापदां पदम्" इति वाक्यांशस्य विवरणम् द्विप्रकारेण भवति खलु ।
            2. परमापदां पदम् = "परमाः आपदः, तासां पदम्" अथवा
            3. परमापदां पदम् = आपदां परं पदम् ।
            4. अपि युक्तमेतत् ?
          1. विमृश्यकारिन् is उपपदसमासः and not तद्धितम् according to Panini.
            1. अहमपि संदिग्धः आसम् । परन्तु यतः "विमृश्य" इति पूर्वपदम् अव्ययमस्ति तथा "कारिन्" इति कोऽपि प्रत्ययरूपी, तेन मया "विमृश्यकारिन्"-शब्दः तद्धितः इति मानीतः ।
            2. पाणिनेः केन सूत्रेण भवति एषः उपपदसमासः?
          1. किरातार्जुनौ अधिकृत्य कृतो ग्रन्थः - किरातार्जुनीयम्। and it is not anything relating to any hunter and Arjuna, but it denotes the poem by Bharavi.
            1. आङ्ग्लभाषायां relate इति शब्दः बह्वर्थकः खलु ? यदि केऽपि नामानि कस्मिन्नपि काव्ये उद्धृतानि तदापि relate इति शब्दः युज्यते खलु ?
          1. Series of Success (in contrast to failure on each step) is attracted by the virtues and chose one who acts upon deliberating on the possibilities of success and failures of his endeavour.
            1. दृश्यते यत् भवता "संपदः"-शब्दस्य अर्थः Series of Success एवम् अनुवादितः ।
            2. मया तस्य अनुवादः "Glory (good results)" एवम् गृहीतः ।
            1. "deliberating on the possibilities of success and failures" एतत्तु "विमृश्यकारिणः"-शब्दस्य विवरणम् दृश्यते । मह्यं तु "endeavour." प्रयत्नस्य महत्त्वम् अधिकतरम् । तेनैव एडिसन-शास्त्रज्ञः कतिपयं शोधकार्यं कृतवान् । अविरत-प्रयत्नः एव गुणः । यद्यपि सर्वे प्रयत्नाः सफलाः न भवन्ति, तथापि संपदः प्रयत्न-गुणेनापि अवश्यं लुब्धाः भवन्ति । प्रयत्नः अविरतः भवितव्यः सः एव विमर्शः । कथमिदम् ?
          1. नात्र किमपि मात्रावृत्तम्, किं तु विषमवृत्तं वियोगिनी नाम गणवृत्तम् । You have one redundant letter वर्ण in the last पाद.
            1. धन्यवादाः यत् भवता वियोगिनी नाम गणवृत्तम् निर्देशितम् ।
            1. अन्तिमे पादे "हि" इति redundant letter वर्ण: अपि निर्देशितः । मया तु संपूर्णं सुभाषितम् या चर्चा अभवत् तस्याः गृहीतम् । तत्रापि सः वर्णः आसीत् खलु ? अनेन वर्णेन अर्थदोषः वा उच्चारण-बाधापि न भवति, इति दृश्यते ।
          1. न नोननुन्नो नुन्नोनो नाना नानानना ननु ।
            नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् ॥॥ किरा.१५.१४॥
            पदच्छेदः:
            न  ना+ऊननुन्नः+ नुन्नोनः+ ना+अना नानाननाः+ ननु ।
            नुन्नोऽनुन्नो ननुन्नेनः ना+ अनेनाः+ नुन्ननुन्ननुत् ॥ किरा.१५.१४॥
            1. अनुग्रहीतोस्मि खलु यत् भवता संपूर्णं सुभाषितम् पदच्छेदेन सह विवृतम् । तेन तस्य अध्ययनं निश्चयेन सुकरं भवति ।
          1. "तावद् भा भारवेर्भाति यावन् माघस्य नोदयः" अतिरोचकः अयम् सन्दर्भः !
          सस्नेहम् 
          अभ्यंकरकुलोत्पन्नः श्रीपादः ।
          "श्रीपतेः पदयुगं स्मरणीयम् ।"



          2011/6/22 hnbhat B.R. <hnbh...@gmail.com>

          --
          You received this message because you are subscribed to the Google Groups "samskrita" group.
          To post to this group, send email to sams...@googlegroups.com.
          To unsubscribe from this group, send email to samskrita+...@googlegroups.com.
          For more options, visit this group at http://groups.google.com/group/samskrita?hl=en.

          Usha Sanka

          unread,
          Jan 3, 2015, 10:31:49 PM1/3/15
          to sams...@googlegroups.com
          Namaste
          What is the source of this verse?
          उपमा कालिदासस्य भारवेरर्थगौरवम् ।
          दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ।।  
          I checked internet resources but could not find any mention of source anywhere. 
          Only found the shloka in another discussion in this group.
          And-
          What is generally done in research papers/articles when certain quote source is not found? Just mention "source not found"?
          Thankyou in advance
          -vinItA
          उषा

          On Wednesday, June 22, 2011 3:44:55 PM UTC+5:30, hnbhat wrote:
           

          ६-४ The mention भारवेरर्थगौरवम् is a part of a shloka which brings out specialties of different Sanskrit poets. It reads as follows -

          उपमा कालिदासस्य भारवेरर्थगौरवम् ।
          दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ।।
           
          Some read नैषधे instead of दण्डिनः
           
          -- 

          Hnbhat B.R.

          unread,
          Jan 3, 2015, 11:05:03 PM1/3/15
          to sams...@googlegroups.com
          What is generally done in research papers/articles when certain quote source is not found? Just mention "source not found"?
          Thankyou in advance
          -vinItA
          उषा

          There is nothing wrong, if the source could not be traced and noted as source not traced. Or simply say often quoted verse.

          Only if the soruce could be traced to any definite source, then only one can note the source correctly. Or the secondary source, if it is found quoted in some other source than the original source.


          Ajit Gargeshwari

          unread,
          Jan 3, 2015, 11:46:25 PM1/3/15
          to Samskrita Google Group
          In the verse माघे सन्ति त्रयो गुणाः is a misnomer for its difficult to find रयो गुणा: in the works of Magha

          Regards
          Ajit Gargeshwari
          न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः।
          अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे।।2.20।।



          Reply all
          Reply to author
          Forward
          0 new messages