शङ्करजयन्ति
[A poem on Adi shankara by (late) Sri. P. Kunhiraman Nair, a renowned Malayalam poet]
शङ्करजयन्ति
तत् प्रेमसार इव निर्ग्गलितं पुरस्तात्
त्वत् स्तन्यभूतममृतं किल जाह्नवीयम् ।
यत् सेवनेन मनुजस्य हि देवभाव:
यद् व्योमयानमिह विष्णुपदाप्तयेऽपि ॥ (1)
सन्ध्याकरारचित पुष्प विचित्र पत्रा:
सन्तापवृत्तिमय पीवर बाहुशाखा:।
तिष्ठन्ति रक्षिण इव स्वयमत्र वृक्षा:
शुभ्रांबरोचित समुच्छितमूर्द्धभागा: ॥ (2)
बोधोदय: प्राथमिकोयदभ्रे
चुकूज काव्यं किलयन्निकुञ्जे ।
जलान्तरद्वीप वृदापिधार्यो
यत् प्रेमसन्देश सवर्ण्ण रश्मि: ॥ (3)
आयात्युषश्रीरपि यत् सखीव
पुष्पोपहाराർक्क सुवर्णपात्रा ।
साजन्मभूमिर्म्ममवीर भूमि-
स्तपप्रभावोदित पुण्यभूमि:॥ (4 )
प्रबुद्ध: प्रचलत्यद्य
वाणिवेणुविनिर्ग्गत: ।
चूर्णी तरंगपाळीषु
सप्त: शीतळमारुत:॥ (5)
हिमाद्रि कन्या परिलाळितां कला-
समुद सह्याचल रंगनर्त्तकीम् ।
मरुत् पराधीशवरप्रभावनीम्
परश्वधाराधितनित्यकन्यकां॥ (6)
नवोदयाताम्र सुवर्णकेतव:
प्रकाश तारापथ नादबिन्दव:।
वसन्तमासोत्थित पुष्परेणव:
पुनन्त्वमी शङ्करपादपांसव: ॥ (7)