Changing your fate - Sanskrit essay

25 views
Skip to first unread message

K.N.RAMESH

unread,
Apr 21, 2025, 5:41:50 PM4/21/25
to
*विधेः विधानम्।*

भगवत्याः सीतायाः विवाहस्य भगवतः श्रीरामस्य राज्याभिषेकस्य च मुहूर्तः श्रेष्ठः आसीत्। परन्तु तथापि तयोः विवाहजीवनं सफलं न अभवत्, न च भगवतः श्रीरामस्य राज्याभिषेकः अभवत्।

अस्मिन् विषये मुनेः वसिष्ठस्य मतं यद् विधिना यद् निर्धारितम् अस्ति तदेव भवति इति।

अर्थात् श्रेष्ठः मुहूर्तः भगवतः श्रीरामस्य जीवनं परिवर्तयितुं न अशक्नोत् न च भगवतः श्रीकृष्णस्य जीवनम्। 
न च भगवान् शिवः सतीं मृत्योः रक्षितुम् अशक्नोत्। महामृत्युंजयमन्त्रः किन्तु तस्यैव भगवतः शिवस्य आह्वानं करोति। 

महाशक्तिशाली रावणः अपि आत्मानं रक्षितुं न अशक्नोत् न च कंसः। तौ तु महाशक्तिशालिनौ आस्ताम्। 

मनुष्यः स्वकर्मणः अनुसारं जन्मना सह तस्य सर्वं निर्धारितं भवति।
अतः यदि केनापि स्वजीवने परिवर्तनम् इष्यते तर्हि स्वीयं कर्म परिवर्तनीयं भवेत्। 

तस्य साहाय्यार्थं परमात्मा सर्वदा सज्जः भवति। तमेव आह्वयेत्। सः परमात्मा हि मनुष्यस्य परमं मित्रं स्यात्। 
जय श्रीमन्नारायण।🙏🏽
*-प्रदीपः!*

Subrahmanian R

unread,
Apr 22, 2025, 10:43:47 PM4/22/25
to sams...@googlegroups.com
अर्थात् श्रेष्ठः मुहूर्तः भगवतः श्रीरामस्य जीवनं परिवर्तयितुं न अशक्नोत् न च भगवतः
महाशक्तिशाली रावणः अपि आत्मानं रक्षितुं न अशक्नोत् न च कंसः 
The statements 'न अशक्नोत्' - with double negatives appear to be incorrect.
Namaskaram
Subrahmanian R

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/samskrita/CAOSP8JcWraev%2Bn7DbjeDDraGb_%3Dot4Ohw4LG%2Bogjm5H9hzKyJA%40mail.gmail.com.

T.K Gopalan

unread,
Apr 22, 2025, 11:48:39 PM4/22/25
to sams...@googlegroups.com
But अशक्नोत् is imperfect 3rd person singular of √ शक्। There is no negative connotation here.

***


Reply all
Reply to author
Forward
0 new messages