उपसर्गाः

255 views
Skip to first unread message

sanskrit2601

unread,
Jul 6, 2013, 2:51:29 AM7/6/13
to sams...@googlegroups.com
नमांसि !
अतिवृष्टि-अनावृष्टि-विषये पृष्टस्य प्रश्नस्य उत्तरे आस्ताम् द्वे सूत्रे निर्दिष्टे  -
1-4-58 प्रादयः ।
प्र। परा। अप। सम्। अनु। अव। निस्। निर्। दुस्। दुर्। वि। आङ्। नि। अधि। अपि। अति। सु। उद्। अभि। प्रति। परि। उप्। एते प्रादयः॥
1-4-59 उपसर्गाः क्रियायोगे ।
मम प्रश्नाः -
  1. सन्ति अन्येऽपि उपसर्गाः खलु ? यथा "बलम्"-इति नाम्नः "स"-उपसर्गेण "सबल"-इति विशेषणं प्राप्यते |
  2. यद्येवं उपसर्गाः न केवलं क्रियायोगे ?
  3. उपसर्गाणां अन्ये प्रयोगाः केषु सूत्रेषु विवृताः ?
  4. ".. प्र। परा। अप। सम्। अनु। अव। निस्। निर्। दुस्। दुर्। वि। आङ्। नि। अधि। अपि। अति। सु। उद्। अभि। प्रति। परि। उप्। एते प्रादयः॥ .." इयं सूचिः कुत्र / कस्मिन् सूत्रे विवृतास्ति ? 1-4-58, 1-4-59 एतयोर्मध्ये तु नास्त्येव |
सस्नेहम्,
अभ्यंकरकुलोत्पन्नः श्रीपादः ।
"श्रीपतेः पदयुगं स्मरणीयम् ।"

sanskrit2601

unread,
Jul 6, 2013, 3:02:47 AM7/6/13
to sams...@googlegroups.com
नमांसि !
"उपसर्गाः न केवलं क्रियायोगे"अस्य विचारस्य इदमपि उदाहरणम् -
  1. "बलम्"-इति नाम्नः "दुर्"-उपसर्गेण "दुर्बल"-इति विशेषणं प्राप्यते |
  2. "दुर्"-उपसर्गः क्रियायोगे च नाम्नः विशेषणं प्राप्तुं च ?!
सस्नेहम्

sanskrit2601

unread,
Jul 6, 2013, 3:45:11 AM7/6/13
to sams...@googlegroups.com
नमांसि !
"उपसर्गाः न केवलं क्रियायोगे"अस्य विचारस्य अनुनासिक-शब्दोऽपि एकं उदाहरणम् |
यद्येवम्, किं न अनावृष्टि-शब्दे अन् च आ च इति द्वौ उपसर्गौ ?
यथा मया अवगतं, आस्तां तत्र द्वौ आक्षेपौ प्रस्तुतौ -
  1. अन्-इति न कोऽपि उपसर्गः प्रादीनां सूच्याम् |
  2. आ-उपसर्गः क्रियायोगे एव | वृष्टि-शब्दः न क्रियायोगः | अतः आ-इत्यपि उपसर्गः न |
    1. अनुनासिक-शब्दे अनु-इति उपसर्गः अस्त्येव खलु ? "नासिक"शब्दः न तु क्रियायोगः ?
    2. दुर्बल-शब्दे दुर्-इति उपसर्गः अस्त्येव खलु ? "बल"-शब्दोऽपि न कोऽपि क्रियायोगः ?
  3. यदि अन् च आ च इति द्वावपि नोपसर्गौ, अनावृष्टि-शब्दस्य विश्लेषणं किम् ?
यदि ममावगमने केऽपि दोषाः, तेषां निराकरणं प्रार्थये |

सस्नेहम्

Hnbhat B.R.

unread,
Jul 6, 2013, 5:18:14 AM7/6/13
to sams...@googlegroups.com

2013/7/6 sanskrit2601 <sanskr...@gmail.com>

नमांसि !
अतिवृष्टि-अनावृष्टि-विषये पृष्टस्य प्रश्नस्य उत्तरे आस्ताम् द्वे सूत्रे निर्दिष्टे  -
1-4-58 प्रादयः ।
प्र। परा। अप। सम्। अनु। अव। निस्। निर्। दुस्। दुर्। वि। आङ्। नि। अधि। अपि। अति। सु। उद्। अभि। प्रति। परि। उप्। एते प्रादयः॥
1-4-59 उपसर्गाः क्रियायोगे ।
मम प्रश्नाः -
  1. सन्ति अन्येऽपि उपसर्गाः खलु ? यथा "बलम्"-इति नाम्नः "स"-उपसर्गेण "सबल"-इति विशेषणं प्राप्यते |
भवतां प्रश्न एवाशास्त्रीयः।

उक्तसूत्रयोर्ज्ञानाभावात्। प्रथममत्र दृश्यताम् - केषामुपसर्गसंज्ञा भवतीति --

गीतसूदाहरणेन विवृतम्। अत्र च विवृतमेव - कदा उपसर्गसंज्ञा न भवतीति। प्रादय एव क्रियायोगे एव, उपसर्गसंज्ञका भवन्तीति स्पष्टमेव। अन्येषामुपसर्गसंज्ञा न भवत्येव।

स इत्युपसर्ग इति केन सूत्रेणोक्तं भवतामुक्तिं विना? तत्र शास्त्रीया प्रक्रिया त्वेवम् ---

बलेन सह वर्तते इति विग्रहवाक्ये, बलशब्दस्य सह - इत्यव्ययेन (न प्रादौ पठितः, किं तु चादौ पठितः इति निपातसंज्ञकः।)
तस्य निपातत्वात् चादयोऽसत्त्वे॥ १।४।५७ इति निपतसंज्ञा, ॥ स्वरादिनिपातमव्ययम्॥ १।१।३६

तेन सहेति तुल्ययोगे (२।२।२८) इति सूत्रेण बहुवीहिसमासे,
तत्र सह- इत्यव्यययस्य 
 
वोपसर्जनस्य (६।३।८२) इति  सादेशे विकल्पेन सबलः इति रूपम्। सबलमिति विशेष्यस्य नपुंसकत्वे रूपम्, क्रियाविशेषणत्वे च, तदेव रूपं क्रियाविशेषणस्य प्रायेण नपुंसकत्वं द्वितीयैकवचनत्वं च प्रायेण इति नियमानुसारेण - सबलं प्रवर्तते इति क्रियाविशेषणम्, राजा सबलः प्रवर्तते इति नामविशेषणं च इति न तत्र नैव उपसर्गसंज्ञावकाशः। नापि प्रादिः समासः, नापि गतिसमासः। केवलं बहुव्रीहिसमासः।
  1. यद्येवं उपसर्गाः न केवलं क्रियायोगे ?
 कथमुपसर्ग एव न भवतीत्युक्तमेव। प्रादिरेव नास्ति, तस्य कथमुपसर्गसंज्ञावकाशः?
  1. उपसर्गाणां अन्ये प्रयोगाः केषु सूत्रेषु विवृताः ?
कुत्रान्ये प्रयोगाः इति सूच्यताम्। उपसर्गणां क्रियायोगे एव प्रयोगः, अन्यत्र योगे समासे प्रादिः समासः, गतिसमासः इत्येव नाम्ना व्यवहारः। कर्मप्रवचनीयश्च अन्यत्र योगे भवन्त्येव।
 
Hnbhat B.R.

unread,
Jul 6, 2013, 5:52:58 AM7/6/13
to sams...@googlegroups.com

"उपसर्गाः न केवलं क्रियायोगे"अस्य विचारस्य अनुनासिक-शब्दोऽपि एकं उदाहरणम् |
यद्येवम्, किं न अनावृष्टि-शब्दे अन् च आ च इति द्वौ उपसर्गौ ?
यथा मया अवगतं, आस्तां तत्र द्वौ आक्षेपौ प्रस्तुतौ -
यथाशास्त्रमुच्यताम्, न यथा भवता अवगतम्।

  1. अन्-इति न कोऽपि उपसर्गः प्रादीनां सूच्याम्

अन्- इति केनोक्तं प्रादिरिति? कथं भवता एवमवगतम्?
 
  1. आ-उपसर्गः क्रियायोगे एव | वृष्टि-शब्दः न क्रियायोगः | अतः आ-इत्यपि उपसर्गः न |
सत्यमेव। को विवादः। भवता एव उपसर्गः इतयुच्यते। स प्रादिरेव। "कुगतिप्रादयः" इति तत्पुरुषे  समासे प्रादिः समासो भवति।
 
    1. अनुनासिक-शब्दे अनु-इति उपसर्गः अस्त्येव खलु ? "नासिक"शब्दः न तु क्रियायोगः ?

 अनुगतः नासिकाम् इत्येव विग्रहवाक्ये, "अत्यादयः क्रान्ताद्यर्थे" इति प्रादिः स्तत्पुरुषः समासः। अनुनासिकः, अनु = पश्चाद् जातः अनुजः इत्येव प्र
 उपसर्गः इति केनोक्तम्? अनुः प्रादिरेव।

    1. दुर्बल-शब्दे दुर्-इति उपसर्गः अस्त्येव खलु ? "बल"-शब्दोऽपि न कोऽपि क्रियायोगः ?
  1. यदि अन् च आ च इति द्वावपि नोपसर्गौ, अनावृष्टि-शब्दस्य विश्लेषणं किम् ?
यदि ममावगमने केऽपि दोषाः, तेषां निराकरणं प्रार्थये |

अनावृष्टिशब्दस्यैव विश्लेषणं तत्र सन्देशे शास्त्रीयं प्रतिपादितम्। 

आ + वृष्टिः - प्रादिः समासः - आ = समन्ताद्, वृष्टिः - वर्षणम् - आवृष्टिः। देशे काले च वृष्टिः इत्यर्थः।  अथवा - आगता वृष्टिः - आवृष्टिः, इति प्रादिसमासे गतशब्दस्य लोपे, वर्षणमित्येवार्थः। गतशब्दं प्रत्येवोपसर्गसंज्ञा, न वृष्टिशब्दं प्रति इति न तत्रापि उपसर्गसंज्ञाया अवकाशः।
न + आवृष्टिः - अनावृष्टिः । नञ् इति नैव प्रादिः, इति उपसर्गसंज्ञाप्राप्तिशङ्का एव नास्ति।

अत्र दृश्यतामधिकम्।
 
Hnbhat B.R.

unread,
Jul 6, 2013, 10:19:14 AM7/6/13
to sams...@googlegroups.com

2013/7/6 sanskrit2601 <sanskr...@gmail.com>

नमांसि !
"उपसर्गाः न केवलं क्रियायोगे"अस्य विचारस्य इदमपि उदाहरणम् -
  1. "बलम्"-इति नाम्नः "दुर्"-उपसर्गेण "दुर्बल"-इति विशेषणं प्राप्यते |
  2. "दुर्"-उपसर्गः क्रियायोगे च नाम्नः विशेषणं प्राप्तुं च ?!

 यदि भवतामिष्टम्, क्रियायोगाभावेऽपि प्रादीनामुपसर्गशब्देन वक्तव्यमितियथेष्टमुच्यताम्, तथैव लिख्यताम्। पाणिनीयानुसारेण प्रादीनां क्रियायोगे एव व्याकरणशास्त्रे व्यवहारः। प्रादीनां क्रियायोगमन्तरेण अन्यत्र प्रयोगो नास्तीति नोच्यते, किं तु क्रियायोगे एवोपसर्गसंज्ञा। 

यथा भवता दुरित्युपसर्गः इत्युक्तम्, स क्रियायोगाभावात् उपसर्गसंजामपि न लभते इति पूर्वमेव दर्शितम्।

दुर्गतम्, दुर्गतिः इत्यादौ दुःस्थः, इत्यादौ क्रियायोगेऽपि उपसर्गसंज्ञाया प्रयोजनाभावात् 

"गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः" इति नियमानुसारेण दुस्+कर - इत्यवस्थायामेव समासः, "उपपदमतिङ्" "गतिश्व" इति सूत्राभ्यां सह गतिसमासः, उपपदसमासश्च। यदा समासव्यवहारः, तदा नोपसर्गत्वव्यवहारः।

यथायं समासः दुर्लभः इत्यत्र पूर्वमेव दर्शितम्। दुःखेन लभ्यः - दुर्लभः इति दुरित्युपपदेन लभ इति कृदन्तस्य उपपदसमासः। इति लभ-इति खल्प्रत्ययान्तेन दुरित्यस्य उपसर्गत्वाभाव एव।

अयं शास्त्रीयः पन्थाः। इत्येव दर्शितः, न पुनः भवता स्वेच्छया कथनस्याक्षेपः कोऽपि मया प्रदर्श्यते। 

इति क्षमा याचे सुदीर्घलेखनस्य। 

sanskrit2601

unread,
Jul 9, 2013, 12:45:31 AM7/9/13
to Hnbhat B.R., sams...@googlegroups.com
नमांसि श्रीमन् !
"उपसर्गाः न केवलं क्रियायोगे" इति मम धारणा योग्या वा न वा इत्यस्मिन् विचारयता मया प्र-उपसर्गस्य विषये आपटे-महाभागस्य शब्दकोषे निम्नमिव विवरणं प्राप्तम् -
Inline images 1
अग्रतः -
Inline images 2
अत्र तु प्र-उपसर्गस्य क्रियायोगे, विशेषणस्य पूर्वं, नाम्नः पूर्वं च अर्थभिन्नत्वं स्पष्टीकृतमस्ति !
तेन विचारयन्नस्मि
  1. यदि प्र-इति उपसर्गः क्रियायोगे एव 
  2. का तस्य संज्ञा यदि तत् विशेषणस्य पूर्वं, नाम्नः पूर्वं वा प्रयुज्यते |

"डॉ. धवल पटेल"-महोदयेन संकलितायां उपसर्गवृत्त्यामपि प्र-उपसर्गस्य बहवः अर्थाः विवृताः यथा -

1) प्र । आदिकर्मोदीर्णभृशार्थैश्वर्यसंभववियोगनियोगतृप्तिशुद्धीच्छाशक्तिशांतिपूजाग्रदर्शनेषु प्रेत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

1-1) आदिकर्मणि प्रगतः प्रबलो राजा । -

1-2) उदीर्णे प्रबला मूषिका ।

1-3) भृशार्थे प्रवदन्ति दायादाः ।

1-4) ऐश्वर्ये प्रभुर्देवदत्तः ।

1-5) संभवे हिमवतो गंगा प्रभवति ।

1-6) वियोगे प्रेषितः।

1-7) नियोगे प्रयुक्तः ।

1-8) तृप्तौ प्रभुक्तं अन्नम्‌ ।

1-9) शुद्धौ प्रसन्नमुदकम्‌ ।

1-10) इच्छायां प्रार्थयते कन्याम्‌ ।

1-11) शक्तौ प्रशक्तो विद्यायाम्‌ ।

1-12) शांतौ प्रशांतोऽग्निः ।

1-13) पूजायां प्रांजलि स्थितः ।

1-14) अग्रे प्रवालो वृक्षस्य ।

1-15) दर्शने प्रलोकयति कन्याम्‌ ।

इत्ययं प्रोपसर्गः ॥ १ ॥

एतेषु उदाहरणेष्वपि कानिचन उदाहरणानि "विशेषणस्य पूर्वं, नाम्नः पूर्वं" एतद्विधानि | तथापि तानि "प्र-इति उपसर्गः" एवं मत्त्वैव संकलितानि दृश्यन्ते | अथ किं तानि उदाहरणानि अयोग्यानि ?

प्र 2.jpg
प्र 1.jpg

hnbhat

unread,
Jul 9, 2013, 1:51:37 AM7/9/13
to sams...@googlegroups.com

On Tuesday, 9 July 2013 10:15:31 UTC+5:30, SL Abhyankar wrote:
नमांसि श्रीमन् !
उपसर्गाः न केवलं क्रियायोगे" इति मम धारणा योग्या वा न वा इत्यस्मिन् विचारयता मया प्र-उपसर्गस्य विषये आपटे-महाभागस्य शब्दकोषे निम्नमिव विवरणं प्राप्तम् -

मया सकृदुक्तमेव शास्त्रीयः पन्था दर्शितः इति। उपसर्गसंज्ञा इत्येव उक्तम्, न तु कोशशास्त्रीया Prefix इति संज्ञा, नापि आङ्गलभाषाव्याकरणे अस्या संज्ञायाः प्रयोजनम्।

धवलमहाभागेन प्रोक्ता उपसर्गवृत्तिः -  पाणिनीयानुसारी ग्रन्थो नास्त्येव। यथोपसगसंज्ञायाः प्रयोजनमस्ति। स्वेच्छया प्रादीनामेव उपसर्गसंज्ञा क्रियते चेत्, नास्त्येवाक्षेप इत्यप्युक्तमेव। यथेष्टं व्यवहर्तुं शक्यते, प्रयोजनाभावात्। शास्त्रे तु प्रयोजनाभावे संज्ञापि न भवति इति पन्थाः।

यथायम् -- उपसर्जनम् = उपसर्गः - इति द्वयमपि एकस्मादेव धातोः सृज् विसर्गे इति धातोः निष्पद्येते। तेन, उपपदम् इति समानार्थकं न भवति, यद्यपि उप समीपे भवति यत् पदम्। नापि तस्य उपपदसंज्ञा।

प्रथमानिर्दिष्टं समास उपसर्जनम् (1-2-43) एकविभाक्ति च अपूर्वनिपाते (1-2-44) उपसर्जनं भवति। न तस्य उपसर्गसंज्ञा।

कोशे तु

1 बलकर 2 बलकाम 3 बलकाय 4 बलकृत् 5 बलकृत 6 बलकृति 7 बलक्रम 8 बलक्षोभ 9 बलगुप्त 10 बलगुप्ता 11 बलचक्र 12 बलज 13 बलजा 14 बलज्येष्ठ 15 बलद 16 बलदा 17 बलदर्प 18 बलदावन् 19 बलदेय 20 बलदेव

बलशब्दः Prefixed to कर, काम etc. इति उपसर्गः न भवति। नापि तत्र प्र-शब्दस्य निवेशः। नाप्युपसर्गसंज्ञायाः प्रयोजनम्।

तत्रोपपदं सप्तमीस्थम्‌ (3-1-92) इति उपपदसंज्ञा विधीयते, न पुनः समासे पूर्वपदस्य समीपे विद्यमानेऽपि उपर्युक्तेषूदाहरणेषु उपपदसंज्ञा।

केवलं कुम्भकारः इत्यादौ, यत्र "कर्मणि अण्"(3-2-1 कर्मण्यण्) इति सूत्रे सप्तम्यन्तेन निर्दिष्टस्यैव उपपदसंज्ञा, इति उपपदसमासः "उपपदमतिङ्"(२-२-१९) इति, न तथा बलक्रमः, बलज्येष्ठः, बलदर्पः इत्यादौ न उपपदसमासः, नाप्युपपदसंज्ञा।

इति शास्त्रीयः व्यवहारः। प्रगतं बलम् - प्रबलम् इत्यादौ यथा उपसर्गसंज्ञा गतादिक्रियायोगे एव भवति इति दर्शितमेव, समासस्तु प्रादिः समासः इति। कोशे न शास्त्रप्रक्रिया अपेक्षते इति न शास्त्रीयः व्यवहारः।

यथेष्टं प्रादीनामेव उपसर्गशब्देन व्यवहारः, नास्त्येवाक्षेप इत्युक्तमेव।

Hnbhat B.R.

unread,
Jul 9, 2013, 11:14:11 AM7/9/13
to sams...@googlegroups.com
क्रियायोगे, विशेषणस्य पूर्वं, नाम्नः पूर्वं च अर्थभिन्नत्वं स्पष्टीकृतमस्ति ! 
तेन विचारयन्नस्मि 
  1. यदि प्र-इति उपसर्गः क्रियायोगे एव  
  2. का तस्य संज्ञा यदि तत् विशेषणस्य पूर्वं, नाम्नः पूर्वं वा प्रयुज्यते |

 भवतां प्रश्नस्योत्तरं तत्रैव आप्ते कोशे एव वर्तते ---

  1. प्र. Ind. इत्येव दत्तम्। न पुनः Pefix इति, उपसर्गः इति वा संज्ञा कृता विवर्णसूच्यामेव।

अर्थभेदस्तु - क्रियायोगे एव Prefix to इति  दत्तम्। 

अन्यत्र Indeclinable अव्ययमित्येव। अव्ययसंज्ञा च, 

असत्त्ववाचिनः प्रादयो निपातसंज्ञका भवन्ति, ते च प्रादयः क्रियायोगे उपसर्गसंज्ञकाश्च भवन्ति।

इत्येव निपातसंज्ञायाम्, "क्रियायोगे उपसर्गसंज्ञकाः, अन्यत्र, "स्वरादिनिपातमव्ययम्॥ १।१।३६" इति अव्ययसंज्ञा इति स्पष्टमेव।
विशेषणादियोगे प्र Ind. अव्ययस्य निपातस्य अव्ययसंज्ञा एवानुवर्तते, अर्थभेदप्रदर्शनेन। इति सूक्ष्मावलोकनेन ज्ञातुं शक्यते।

अतश्च, संज्ञान्तरं न कल्पनीयमेव कोशानुसारेणापि।

समासे गतिसंज्ञा, प्रादितत्पुरुषसंज्ञा च इति असकृदुक्तमेव। नाम्नः पूर्वं विशेषणपूर्वं वा। अव्ययत्वं न हीयते एव निपातस्य प्र-शब्दस्य इति कोशे स्पष्टमेव Ind. इति प्रथममेव दर्शितम्। 

  1.  

sanskrit2601

unread,
Jul 12, 2013, 1:54:32 AM7/12/13
to Hnbhat B.R., sams...@googlegroups.com
नमांसि श्रीमन् !

".. का तस्य संज्ञा यदि (सः उपसर्गः) विशेषणस्य पूर्वं, नाम्नः पूर्वं वा प्रयुज्यते ? .."इत्यस्य मम प्रश्नस्योत्तरे भवता व्याख्यातं "...  भवतां प्रश्नस्योत्तरं तत्रैव आप्ते कोशे एव वर्तते ..."

परन्तु यत्किमपि शब्दकोशे तद्विषये - ".. न तु कोशशास्त्रीया Prefix इति संज्ञा .." इत्यपि भवतां आक्षेपः | यदि कोशे विवृतस्य शास्त्रीयः आधारः
न भवति, तर्हि तत्र प्रापणीयं उत्तरमपि अग्राह्यं भवति खलु ? तेन मम प्रश्नोऽपि अनुत्तरितः वर्तते ?!

अहं चकितोऽभवं दृष्ट्वा श्रीमतां "काशिनाथ अभ्यंकर"-महोदयानां "संस्कृत-व्याकरणस्य शब्दकोषे" यत् तेन "प्र"-इति शब्दः एव न विचारितः |

अन्यच्च - "प्रादयः (1-4-58)" इति सूत्रेण विंशति/द्वाविंशति उपसर्गाः स्वयमेव मन्तव्याः, वा ते स्वयं पाणिनिना कस्मिन्नपि अन्यस्मिन् सूत्रे विवृताः ?

मम मित्रेण श्रीमता "धनञ्जय नानिवडेकर" महोदयेन अस्त्युत्थापितः विचारः "उपसर्गतुल्यानां" शब्दानां विषये | "अलंकृत्य, स्वीकृत्य"-एतद्विधेषु कृदन्तेषु ल्यप्-प्रत्ययः योग्यः, यतः तेषु अलं-, स्वी-, एतद्विधाः "उपसर्गतुल्याः" | अपि समीचीनः एषः विचारः ? अस्ति "उपसर्गतुल्य"त्वस्य (एतद्विधायाः संज्ञायाः) कश्चित् शास्त्रीयः आधारः ?

मयापि आसीत् निर्दिष्टं नम्-धातोः अभ्यासे - "नारायणं नमस्कृत्य .."
इति यः महाभारतस्य प्रथमः श्लोकः मन्यते, तत्र "नमस्कृत्य" इति ल्यबन्तम् | तथापि "नमस्कृत्वा भूय एवाह कृष्णम्" इत्यस्मिन् गीतायां 11-35 श्लोके न ल्यप्-प्रत्ययः | अतः अत्र नमस्-इति अव्ययमेव |

तेन मनस्यागच्छति "यः ल्यप्-प्रत्ययं अपेक्षते सः उपसर्गः" एवमपि उपसर्गस्य कापि व्याख्या खलु ?

भवता सह संवादेन उद्बोधनं भवति | अतः भवते कष्टान् ददामि | यदि ते कष्टाः त्रासप्रदाः, न युक्ताः, तर्हि क्षमस्व मम उत्साहम् |

sanskrit2601

unread,
Jul 12, 2013, 2:21:29 AM7/12/13
to Hnbhat B.R., sams...@googlegroups.com
नमांसि श्रीमन् !

".. का तस्य संज्ञा यदि (सः उपसर्गः) विशेषणस्य पूर्वं, नाम्नः पूर्वं वा प्रयुज्यते ? .."इत्यस्य मम प्रश्नस्योत्तरे भवता व्याख्यातं "...  भवतां प्रश्नस्योत्तरं तत्रैव आप्ते कोशे एव वर्तते ..."

परन्तु यत्किमपि शब्दकोशे तद्विषये - ".. न तु कोशशास्त्रीया Prefix इति संज्ञा .." इत्यपि भवतां आक्षेपः | यदि कोशे विवृतस्य शास्त्रीयः आधारः
न भवति, तर्हि तत्र प्रापणीयं उत्तरमपि अग्राह्यं भवति खलु ? तेन मम प्रश्नोऽपि अनुत्तरितः वर्तते ?!

चकितोऽभवं दृष्ट्वा श्रीमतां "काशिनाथ अभ्यंकर"-महोदयानां "संस्कृत-व्याकरणस्य शब्दकोषे" यत् तैः "प्र"-इति
न कश्चित् शब्दः एव विवृतः |

अन्यच्च - "प्रादयः (1-4-58)" इति सूत्रेण विंशति/द्वाविंशति उपसर्गाः स्वयमेव मन्तव्याः, वा ते स्वयं पाणिनिना कस्मिन्नपि अन्यस्मिन् सूत्रे विवृताः ?

मम मित्रेण श्रीमता "धनञ्जय नानिवडेकर" महोदयेन अस्त्युत्थापितः विचारः "उपसर्गतुल्यानां" शब्दानां विषये | "अलंकृत्य, स्वीकृत्य"-एतद्विधेषु कृदन्तेषु ल्यप्-प्रत्ययः योग्यः, यतः तेषु अलं-, स्वी-, एतद्विधाः "उपसर्गतुल्याः" | अपि समीचीनः एषः विचारः ? अस्ति "उपसर्गतुल्य"त्वस्य (एतद्विधायाः संज्ञायाः) कश्चित् शास्त्रीयः आधारः ?

मयापि आसीत् निर्दिष्टं नम्-धातोः अभ्यासे - "नारायणं नमस्कृत्य .."
इति यः महाभारतस्य प्रथमः श्लोकः मन्यते, तत्र "नमस्कृत्य" इति ल्यबन्तम् | तथापि "नमस्कृत्वा भूय एवाह कृष्णम्" इत्यस्मिन् गीतायां 11-35 श्लोके न ल्यप्-प्रत्ययः | अतः अत्र नमस्-इति अव्ययमेव |

तेन मनस्यागच्छति "यः ल्यप्-प्रत्ययं अपेक्षते सः उपसर्गः" एवमपि उपसर्गस्य कापि व्याख्या खलु ?

भवता सह संवादेन उद्बोधनं भवति | अतः भवते कष्टान् ददामि | यदि ते कष्टाः त्रासप्रदाः, न युक्ताः, तर्हि क्षमस्व मम उत्साहम् |

Hnbhat B.R.

unread,
Jul 12, 2013, 4:13:22 AM7/12/13
to sanskrit2601, sams...@googlegroups.com

2013/7/12 sanskrit2601 <sanskr...@gmail.com>

नमांसि श्रीमन् !

".. का तस्य संज्ञा यदि (सः उपसर्गः) विशेषणस्य पूर्वं, नाम्नः पूर्वं वा प्रयुज्यते ? .."इत्यस्य मम प्रश्नस्योत्तरे भवता व्याख्यातं "...  भवतां प्रश्नस्योत्तरं तत्रैव आप्ते कोशे एव वर्तते ..."

कोशशास्त्रस्य कोशशास्त्रे प्रामाण्यं केनापि नाक्षिप्यते, व्याकरणशास्त्रे कोशशास्त्रस्य प्रामाण्यमिति केनापि नाङ्गीक्रियते।
यदि तथा क्रियते, 

यस्य कस्य तरोर्मूलं .... इत्यादिश्लोकवदेव भवति।

परन्तु यत्किमपि शब्दकोशे तद्विषये - ".. न तु कोशशास्त्रीया Prefix इति संज्ञा .." इत्यपि भवतां आक्षेपः | यदि कोशे विवृतस्य शास्त्रीयः आधारः
न भवति, तर्हि तत्र प्रापणीयं उत्तरमपि अग्राह्यं भवति खलु ? तेन मम प्रश्नोऽपि अनुत्तरितः वर्तते ?!

इदानीमेव भवतां प्रश्नस्योत्तरं दत्तम्। उपसर्गः इति पाणिनीयशास्त्रीयसंज्ञा इति असलृदुक्तमेव। कोशशास्त्रीया संज्ञा कोशशास्त्रे तद्व्यवहारस्य प्रमाणभूता एव इति कथमग्राह्यत्वं भवति कोशशास्त्रस्य। तत्रापि आंगलकोशशास्त्रीया परिभाषा अन्या, संस्कृतकोशकाराणां परिभाषा अन्या एव। इति मिथं सांकर्येण संमोह एव भवति, न प्रश्नानामुत्तराणि, नापि सन्देहनिवृत्तिः।

चकितोऽभवं दृष्ट्वा श्रीमतां "काशिनाथ अभ्यंकर"-महोदयानां "संस्कृत-व्याकरणस्य शब्दकोषे" यत् तैः "प्र"-इति न कश्चित् शब्दः एव विवृतः |

व्याकरणशब्दकोश इत्येव नाम्ना एव तस्य कोशस्य व्याप्तिः प्रदर्शिता अन्वर्थसंज्ञाकरणेन। तत्रैव प्रशस्तौ स्पष्टं निरूपितं दृश्यते स्वयं अभ्यंकरोपह्वेन वासुदेवसूनुना काशीनाथेन ---
Inline image 1 

अन्यच्च, तत्र अस्य व्याकरणकोशस्य कोशान्तरस्य भदः स्फुटं व्याख्यातः तत्रैव

Inline image 2

अन्यच्च - "प्रादयः (1-4-58)" इति सूत्रेण विंशति/द्वाविंशति उपसर्गाः स्वयमेव मन्तव्याः, वा ते स्वयं पाणिनिना कस्मिन्नपि अन्यस्मिन् सूत्रे विवृताः ?

को विशेषः? पाणिनिना स्वयं वक्तव्यमिति कश्चाभिनिवेशः? पाणिनीयानां प्रामाण्यं भवता नाङ्गीक्रियते वा? तत्र किं प्रमाणम्? भवतां मतान्येव प्रादयः, न पाणिनीयैः तत्सूत्रानुसारिभिर्निदिष्टाः इति? पाणिनीयैस्तु ----

धातु-सूत्र-गणोणादि-वाक्यलिङ्गानुशासनम्।
अगमप्रत्ययादेशाः उपदेशाः प्रकीर्तिताः॥

इति सर्वैः उपदेशत्वेनाङ्गीक्रियते, यदि केवलं भवता एव पाणिनिप्रोक्तान्येव प्रमाणमित्युच्यते। गणपाठः, धातुपाठः, लिङ्गानुशासनम्, वार्तिकपाठः, इति पाणिनीयानामुपदेशः। यत्र सर्वत्र "उपदेशेऽजनुनासिक इत्" "हलन्त्यम्" इत्यादिसूत्रानुसरणं दृश्यते एव} भवता नाङ्गीक्रियते चेत्, नैषा शास्त्रगर्हा। पुरुषगर्हैषा।

मम मित्रेण श्रीमता "धनञ्जय नानिवडेकर" महोदयेन अस्त्युत्थापितः विचारः "उपसर्गतुल्यानां" शब्दानां विषये | "अलंकृत्य, स्वीकृत्य"-एतद्विधेषु कृदन्तेषु ल्यप्-प्रत्ययः योग्यः, यतः तेषु अलं-, स्वी-, एतद्विधाः "उपसर्गतुल्याः" | अपि समीचीनः एषः विचारः ? अस्ति "उपसर्गतुल्य"त्वस्य (एतद्विधायाः संज्ञायाः) कश्चित् शास्त्रीयः आधारः ?

उपसर्गः कः इत्यत्रैव नास्ति भवतां प्रमाणं पाणिनीयम्। किं पुनः उपसर्गतुल्यत्वम्? किंशास्त्रीयः आधारः अपेक्ष्यते उपसर्गतुल्यत्वस्य? उपसर्गतुल्या एव, न तूपसर्गाः इत्यसकृदुक्तमेव। तेषां पाणिनीये गणपाठे परिगणनात्। अन्यैश्च तथैव स्वीकारात्।

तत्रापि निपातसंज्ञा वर्तते एव, इत्यव्ययत्वम्, असत्ववचमे। शास्त्रीयव्यवहारस्तु भिन्न एव। \

प्रे दाज्ञः॥ ३।२।६

इत्यादौ सत्याप्यव्ययसंज्ञायां पाणिनीयः सौत्रः प्रयोगः - प्रशब्दे अव्यये, उपसर्गे इत्यर्थलभ्यः। ददातेः, जानातेश्च कर्मण्युपपदे, क प्रत्ययः इति। नास्ति तत्र उपसर्गसंज्ञा वा सूत्रे, प्रशब्दस्वरूपस्यैव सूत्रे उल्लेखात्। क्रियायोगाभावः, सत्त्ववचनं च इति नाव्यय्लत्वम्। सप्तम्यास्तु तृतीयार्थे प्रयोगः -  "सूत्रे "प्रे" इति सुब्व्यत्ययेन तृतीयार्थे सप्तमी वेदितव्या"

परं तु, सर्वप्रदः इत्यत्र, सर्वं प्रकर्षेण ददातीति विग्रहवाक्ये, प्रशब्दस्य कृषधातुना एव योगे क्रियायोगः इति नोपसर्गत्वम्। इति प्र

मयापि आसीत् निर्दिष्टं नम्-धातोः अभ्यासे - "नारायणं नमस्कृत्य .."
इति यः महाभारतस्य प्रथमः श्लोकः मन्यते, तत्र "नमस्कृत्य" इति ल्यबन्तम् | तथापि "नमस्कृत्वा भूय एवाह कृष्णम्" इत्यस्मिन् गीतायां 11-35 श्लोके न ल्यप्-प्रत्ययः | अतः अत्र नमस्-इति अव्ययमेव |

तेन मनस्यागच्छति "यः ल्यप्-प्रत्ययं अपेक्षते सः उपसर्गः" एवमपि उपसर्गस्य कापि व्याख्या खलु ?

शास्त्रीया व्याख्या त्वेवम् ---

(3332)समासेऽनञ्ञ्पूर्वे क्त्वो ल्यप्    7-1-37  
अव्ययपूर्वपदे अनञ्ञ्समासे क्त्वो ल्यबादेशः स्यात्। इति पाणिनीयं शास्त्रम्। न उपसर्गस्यापेक्षा, अव्ययपूर्वपदत्वमेवापेक्षते, क्त्वा-प्रत्ययस्य ल्यबादेशे। इति न तत्र उपसर्गापेक्षा इत् स्पष्टमेव।

(775)साक्षात्प्रभृतीनि च    1-4-74  
कृञ्ञि वा गतिसंज्ञानि स्युः।। । च्व्यर्थ इति वाच्यम् ।। इति नमस्शब्दस्य साक्षात्प्रभृतित्वात् गतिसंज्ञायाम्, 761)कुगतिप्रादयः    2-2-18  इति समासे, क्त्वाप्रत्ययस्य ल्यबादेशः। गतिसंज्ञाभावे, नमः कृत्वा इत्येव। "नमस्पुरसोर्गत्योः" इति विसर्गस्य्ल सकारः।

क्रियायोगे प्रादिभ्यः अन्येषां केषां चनाव्ययानां गतिसंज्ञा विधीयते इति न तत्रापि उपसर्गसंज्ञा ---

1-4-60 गतिः च आ कडारात् एका सञ्ज्ञा निपाताः प्रादयः क्रियायोगे 
1-4-61 ऊर्यादिच्विडाचः च आ कडारात् एका सञ्ज्ञा निपाताः क्रियायोगे गतिः 

इत्यारभ्य 1-4-79 जीविकोपनिषदौ औपम्ये आ कडारात् एका सञ्ज्ञा निपाताः गतिः कृञि 

इति यावत् सूत्रेषु विहिता गतिसंज्ञा एव क्रियायोगेऽपि। 
 
भवता सह संवादेन उद्बोधनं भवति | अतः भवते कष्टान् ददामि | यदि ते कष्टाः त्रासप्रदाः, न युक्ताः, तर्हि क्षमस्व मम उत्साहम् |

सस्नेहम्
अभ्यंकरकुलोत्पन्नः श्रीपादः ।
"श्रीपतेः पदयुगं स्मरणीयम् ।"

--
Dr. Hari Narayana Bhat B.R. M.A., Ph.D.,
Research Scholar(Retd),
Ecole française d'Extrême-OrientCentre de Pondichéry
16 & 19, Rue Dumas
image.png
image.png

Hnbhat B.R.

unread,
Jul 12, 2013, 7:53:20 AM7/12/13
to sanskrit2601, sams...@googlegroups.com
तद् यान्येतानि चत्वारि पदजातानि नामाख्याते च उपसर्गनिपाताश्च तानीमानि भवन्ति

इति यास्कमहर्षिणापि उपसर्ग-निपात-संज्ञकानां शब्दानां विवरणं दत्तम्, यानि पाणिनीयैरङ्गीकृतानि, न भिन्नानि सत्यपि मतभेदेषूभयोर्विषये।

Inline image 1
Inline image 2

अत्रोपसर्गार्थाः आङ्गलभाषायामनूदिताः - 

Inline image 3
​निरुक्तसमयसिद्धा प्रादीनामुपस्रर्गाणामर्थाः।

image.png
image.png
image.png
Reply all
Reply to author
Forward
0 new messages