नमांसि !
अतिवृष्टि-अनावृष्टि-विषये पृष्टस्य प्रश्नस्य उत्तरे आस्ताम् द्वे सूत्रे निर्दिष्टे -
1-4-58 प्रादयः ।प्र। परा। अप। सम्। अनु। अव। निस्। निर्। दुस्। दुर्। वि। आङ्। नि। अधि। अपि। अति। सु। उद्। अभि। प्रति। परि। उप्। एते प्रादयः॥
1-4-59 उपसर्गाः क्रियायोगे ।
मम प्रश्नाः -
- सन्ति अन्येऽपि उपसर्गाः खलु ? यथा "बलम्"-इति नाम्नः "स"-उपसर्गेण "सबल"-इति विशेषणं प्राप्यते |
- यद्येवं उपसर्गाः न केवलं क्रियायोगे ?
- उपसर्गाणां अन्ये प्रयोगाः केषु सूत्रेषु विवृताः ?
यद्येवम्, किं न अनावृष्टि-शब्दे अन् च आ च इति द्वौ उपसर्गौ ?
यथा मया अवगतं, आस्तां तत्र द्वौ आक्षेपौ प्रस्तुतौ -
- अन्-इति न कोऽपि उपसर्गः प्रादीनां सूच्याम्
- आ-उपसर्गः क्रियायोगे एव | वृष्टि-शब्दः न क्रियायोगः | अतः आ-इत्यपि उपसर्गः न |
- अनुनासिक-शब्दे अनु-इति उपसर्गः अस्त्येव खलु ? "नासिक"शब्दः न तु क्रियायोगः ?
- दुर्बल-शब्दे दुर्-इति उपसर्गः अस्त्येव खलु ? "बल"-शब्दोऽपि न कोऽपि क्रियायोगः ?
- यदि अन् च आ च इति द्वावपि नोपसर्गौ, अनावृष्टि-शब्दस्य विश्लेषणं किम् ?
यदि ममावगमने केऽपि दोषाः, तेषां निराकरणं प्रार्थये |
नमांसि !
"उपसर्गाः न केवलं क्रियायोगे"अस्य विचारस्य इदमपि उदाहरणम् -
- "बलम्"-इति नाम्नः "दुर्"-उपसर्गेण "दुर्बल"-इति विशेषणं प्राप्यते |
- "दुर्"-उपसर्गः क्रियायोगे च नाम्नः विशेषणं प्राप्तुं च ?!


"डॉ. धवल पटेल"-महोदयेन संकलितायां उपसर्गवृत्त्यामपि प्र-उपसर्गस्य बहवः अर्थाः विवृताः यथा -
1) प्र । आदिकर्मोदीर्णभृशार्थैश्वर्यसंभववियोगनियोगतृप्तिशुद्धीच्छाशक्तिशांतिपूजाग्रदर्शनेषु प्रेत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।
1-1) आदिकर्मणि प्रगतः प्रबलो राजा । -
1-2) उदीर्णे प्रबला मूषिका ।
1-3) भृशार्थे प्रवदन्ति दायादाः ।
1-4) ऐश्वर्ये प्रभुर्देवदत्तः ।
1-5) संभवे हिमवतो गंगा प्रभवति ।
1-6) वियोगे प्रेषितः।
1-7) नियोगे प्रयुक्तः ।
1-8) तृप्तौ प्रभुक्तं अन्नम् ।
1-9) शुद्धौ प्रसन्नमुदकम् ।
1-10) इच्छायां प्रार्थयते कन्याम् ।
1-11) शक्तौ प्रशक्तो विद्यायाम् ।
1-12) शांतौ प्रशांतोऽग्निः ।
1-13) पूजायां प्रांजलि स्थितः ।
1-14) अग्रे प्रवालो वृक्षस्य ।
1-15) दर्शने प्रलोकयति कन्याम् ।
इत्ययं प्रोपसर्गः ॥ १ ॥
एतेषु उदाहरणेष्वपि कानिचन उदाहरणानि "विशेषणस्य पूर्वं, नाम्नः पूर्वं" एतद्विधानि | तथापि तानि "प्र-इति उपसर्गः" एवं मत्त्वैव संकलितानि दृश्यन्ते | अथ किं तानि उदाहरणानि अयोग्यानि ?
नमांसि श्रीमन् !
उपसर्गाः न केवलं क्रियायोगे" इति मम धारणा योग्या वा न वा इत्यस्मिन् विचारयता मया प्र-उपसर्गस्य विषये आपटे-महाभागस्य शब्दकोषे निम्नमिव विवरणं प्राप्तम् -
क्रियायोगे, विशेषणस्य पूर्वं, नाम्नः पूर्वं च अर्थभिन्नत्वं स्पष्टीकृतमस्ति !
तेन विचारयन्नस्मि
- यदि प्र-इति उपसर्गः क्रियायोगे एव
- का तस्य संज्ञा यदि तत् विशेषणस्य पूर्वं, नाम्नः पूर्वं वा प्रयुज्यते |
- प्र. Ind. इत्येव दत्तम्। न पुनः Pefix इति, उपसर्गः इति वा संज्ञा कृता विवर्णसूच्यामेव।
नमांसि श्रीमन् !".. का तस्य संज्ञा यदि (सः उपसर्गः) विशेषणस्य पूर्वं, नाम्नः पूर्वं वा प्रयुज्यते ? .."इत्यस्य मम प्रश्नस्योत्तरे भवता व्याख्यातं "... भवतां प्रश्नस्योत्तरं तत्रैव आप्ते कोशे एव वर्तते ..."
परन्तु यत्किमपि शब्दकोशे तद्विषये - ".. न तु कोशशास्त्रीया Prefix इति संज्ञा .." इत्यपि भवतां आक्षेपः | यदि कोशे विवृतस्य शास्त्रीयः आधारःन भवति, तर्हि तत्र प्रापणीयं उत्तरमपि अग्राह्यं भवति खलु ? तेन मम प्रश्नोऽपि अनुत्तरितः वर्तते ?!
चकितोऽभवं दृष्ट्वा श्रीमतां "काशिनाथ अभ्यंकर"-महोदयानां "संस्कृत-व्याकरणस्य शब्दकोषे" यत् तैः "प्र"-इति न कश्चित् शब्दः एव विवृतः |

अन्यच्च - "प्रादयः (1-4-58)" इति सूत्रेण विंशति/द्वाविंशति उपसर्गाः स्वयमेव मन्तव्याः, वा ते स्वयं पाणिनिना कस्मिन्नपि अन्यस्मिन् सूत्रे विवृताः ?
मम मित्रेण श्रीमता "धनञ्जय नानिवडेकर" महोदयेन अस्त्युत्थापितः विचारः "उपसर्गतुल्यानां" शब्दानां विषये | "अलंकृत्य, स्वीकृत्य"-एतद्विधेषु कृदन्तेषु ल्यप्-प्रत्ययः योग्यः, यतः तेषु अलं-, स्वी-, एतद्विधाः "उपसर्गतुल्याः" | अपि समीचीनः एषः विचारः ? अस्ति "उपसर्गतुल्य"त्वस्य (एतद्विधायाः संज्ञायाः) कश्चित् शास्त्रीयः आधारः ?
इति यः महाभारतस्य प्रथमः श्लोकः मन्यते, तत्र "नमस्कृत्य" इति ल्यबन्तम् | तथापि "नमस्कृत्वा भूय एवाह कृष्णम्" इत्यस्मिन् गीतायां 11-35 श्लोके न ल्यप्-प्रत्ययः | अतः अत्र नमस्-इति अव्ययमेव |
मयापि आसीत् निर्दिष्टं नम्-धातोः अभ्यासे - "नारायणं नमस्कृत्य .."
तेन मनस्यागच्छति "यः ल्यप्-प्रत्ययं अपेक्षते सः उपसर्गः" एवमपि उपसर्गस्य कापि व्याख्या खलु ?
भवता सह संवादेन उद्बोधनं भवति | अतः भवते कष्टान् ददामि | यदि ते कष्टाः त्रासप्रदाः, न युक्ताः, तर्हि क्षमस्व मम उत्साहम् |
सस्नेहम्
अभ्यंकरकुलोत्पन्नः श्रीपादः ।
"श्रीपतेः पदयुगं स्मरणीयम् ।"


