Light-Sanskrit essay

35 views
Skip to first unread message

K.N.RAMESH

unread,
May 25, 2018, 7:17:26 AM5/25/18
to
*स्वर्वाणीप्रकाशः* (वाट्साप् गणः) 
💐शुक्रवासरः (13-04-18) चैत्रकृष्णद्वादशी🌹
✍प्रस्तावविषयः-- कान्तिः💥


कान्तिः नाम शोभा इत्यर्थः। यत्र प्रकाशस्य सानिध्येन या प्रभा दृश्यते सा कान्तिः। द्युतिः शुभा दीप्तिः भा भासा भाः श्रीः एतानि पर्यायपदानि कान्तेः।कान्तिषु ज्ञानकान्तिरेव श्रेष्ठा। 
कान्तियुक्तानि वस्तूनि अस्मान् रञ्जयन्ति। प्रभारहितं रूपं तावददिकाकर्षकं न भवतीति सत्यम्। मानवाः प्रायः भूषणप्रियाः। ते भूषणैः स्वकान्तिं वर्धयितुम् इच्छन्ति। स्त्रियः भूषणानां सम्पादने उपयोगे च अग्रगण्याः।कान्तिः ऐश्वरस्य लक्षणत्त्वेन एव सर्वैः परिगण्यते। अस्माकं पुरातनकथासु तेजस्विनां पुरुषाणां तथा शोभनानां महिलानां च वर्णनं तत्र तत्र दृश्यन्ते। मन्त्रसाधनया एव ऋषयः साधकाश्च तेजोयुक्ताः भवन्ति नतु भूषणैः। 
देवानां कान्तिः वर्णनातीता ते सहस्रकोटिसूर्यप्रकाशतुल्यं शोभन्ते। 

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता। 
यदि भाः सदृशी 
सा स्याद्भासस्तस्य महात्मनः।।

इति गीतायां विश्वरूपदर्शनयोगे भगवतः कान्तेः वर्णनम्। 
भारतीयानां मतानुसारं यत्र यत्र दिव्यत्त्वं प्रभावञ्च दृश्येते तत्र तत्र भगवतः चैतन्यम् अधिकं भवति इत्येव अनुमानम्। 

सूर्यचद्रयोः प्रभा भगवदनुग्रहस्य लक्षणम् यथा गीतायां प्रभास्मि शशि सूर्ययो: तदर्थमेव स्यात् सूर्ये चन्द्रेच जनानां पूजाभावस्यापि हेतुः।  सूर्यस्य प्रभायाः कान्तेश्च वृध्दिं इच्छन्तः सनातनधर्मानुयायिनो वयं नित्यम् उदायास्तमये सूर्यं नत्वा तस्मै दीपं समर्पयामः खलु। 

भगवान् एव प्रमाणीकरोति यत् 

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा।

तत्तदेवावगच्छ त्वं 
मम तेजोंऽशसंभवम्।। 


🙏🙏🙏

~ सुनीश् नम्बूतिरि

Ramakrishnan D

unread,
May 25, 2018, 8:46:32 AM5/25/18
to sams...@googlegroups.com
धन्यवादाः महोदय !

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at https://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.
Reply all
Reply to author
Forward
0 new messages