Guna - Sanskrit Essay

27 views
Skip to first unread message

K.N.RAMESH

unread,
Jun 4, 2018, 10:33:20 AM6/4/18
to samskrita
Many thanks to Sri.S.L.Abhyankar ji for proof-reading this..

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः) 
💝सोमवासरः (16-04-18) अमावास्या👌
✍प्रस्तावविषयः-- सद्गुणाः👏


येषां न विद्या न तपो 
न दानंज्ञानं न शीलं 
न गुणो न धर्मः । 
ते मृत्युलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति।। 


यस्मिन् गुणाः न सन्ति सः पशुतुल्यं जीवति।जनैः गुणाः पूज्यन्ते न तु अन्यत् किमपि। जीवने अस्माभिः कृतानि गुणकर्माण्येव अस्माकं कृते ख्यातिं शान्तिञ्च प्रदास्यन्ति। सज्जनानां संसर्गेण सद्गुणाः प्राप्यन्ते। कुटुम्बे यादृशी परिस्थितिः भवति तादृशी मनोकल्पना  भवति बालकानाम्।धर्माचरणेन एव बालानां सद्गुणानां पोषणं साध्यम्।। 

एवं समाजे अपि व्यक्तिः गुणानुसारमेव पूजार्हो भवति न तु केवलम् उन्नतस्थानस्य आधारेण। प्रायः जनाः तादृशानां जनानां पुरतः श्रद्धादरं केवलं दर्शनार्थमेव प्रदर्शयेयुः न तु आत्मार्थभावेन  एतदेव  खलु सूचयति सुभाषितम् 

उच्चासनगतो  नीचः 
नीच एव न  चोत्तमः |
प्रासादशिखरस्थोSपि काकः किं गरुडायते||

सत्यं दया कारुण्यं धर्मबोधः परोपकारः परस्परविश्वासः एतादृशान् 
देशकालातीतान् सद्गुणान् सदा वयं पालयामः। सद्गुणानां पालनेन सकलविधानां विभूतीनां सामीप्यं प्राप्तुं शक्नुमः। उदाहरणत्वेन एका कथा स्मर्यते मया। 

एकस्मिन् देशे एको राजा आसीत्। नीतिमान् धर्म्मिष्ठ सः सम्यक् देशस्य पालनं करोति स्म अनेनैव तस्य देशः समृद्धश्चासीत्। अथैकदा नदीस्नानं कृत्वा राजप्रासादप्रत्यागमनसमये प्रासादतः काचित् सुन्दरी युवती आगतवती  राजा आश्चर्येण तां पृष्टवान् भवती का इति। तदानीं तया प्रोक्तम् अहं धनदेवता अस्मि चिरकालम् अहम् एकस्मिन्नेव स्थाने न वसामि अतोऽधुना भवतः देशात् निर्गच्छामि इति। एतत्‌ श्रुत्वा राजा विषण्णो भूत्वा अस्तु भवत्या इच्छानुसारम् भवतु इत्युक्त्वा अग्रे गतवान्  तदा अपरा काचित् सुन्दरी बहिरागत्य महाराजम् उक्तवती अहं सद्गुणानां देवता अस्मि मम सोदरी धनदेवता अधुनैव इतः गतवती अतोऽहमपि गच्छामि इति।  अधुना राजा नितरां दुःखम् अनुभवन् अस्तु इति उक्त्वा  ततोऽग्रे गतवान्। पुनरेका सुन्दरी प्रासादात् बहिरागत्य गन्तुं उद्युक्ता अभवत् कुतूहलेन राजा भवती का इति पृष्टवान् एतत्‌ श्रुत्वा सा अहं नीतिदेवता अस्मि यत्र सद्गुणदेवतायाः वासः तत्रैव भवति ममापि वास इत्युक्ता ततः गतवती। यदा नीतिदेवता अनतिदूरं गता तदानीमेव अपरा एका प्रासादात् आगतवती तदानीं राजा अतीव दुःखेन भूयोऽपि पृष्टवान् भवती अपि देवता वा? एतत् श्रुत्वा सा अवदत् अाम् अहं सत्यस्य देवता अस्मि यत्र मम सहोदर्यः वसन्ति तत्रैव ममापि स्थानम् अतः अहमपि गच्छामि इति। सत्यदेवता अपि देशं त्यक्त्वा गच्छति इति ज्ञात्वा राजा रोदनं कृत्वा तां नमस्कृत्य प्रोक्तवान् इतरदेवताः मां त्यक्त्वा गतवत्यः सत्यगुणी तु अस्तीति विश्वासेन एव मया किमपि नोक्तम् अतः कृपया देवि अत्रैव स्थित्वा अस्माकं देशस्य रक्षणं करोतु इति। राज्ञः सत्यभक्त्या प्रसन्ना सा देवता  तत्रैव अत्रैव स्थास्यामि इत्युक्ते सति नीतिदेवता प्रत्यागतवती यत्र सत्यं तत्रैव स्थातुं शक्नोमि अतोऽहमपि अत्रैव भवामि इत्युक्त्वा राजभवनम् गतवती  अचिरादेव सद्गुणानां देवता आगत्य उक्तवती सत्यनीतिभ्यां विना मम अस्तित्वमेव नास्ति  एतत् श्रुत्वा धनदेवताऽपि आगत्य उक्तवती यत्र सत्यं नीतिः सद्गुणाः न भवन्ति तत्र मम वासः लोकोपकारकः न भविष्यति अपितु मम निवासेन दुष्टानां वर्धनमेव जायते। अतोऽहमपि भवतः देशे एव वसामि इति कथितवती। एतत्‌ श्रुत्वा राजा अतीव प्रसन्नो भूत्वा सर्वान् सद्गुणपालनस्य महत्त्वं बोधयन् देशं परिपालितवान्।। 

Ramakrishnan D

unread,
Jun 5, 2018, 9:02:55 AM6/5/18
to sams...@googlegroups.com

अहो महत् भाग्य्ं मम, कथां पठितुम् !



--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at https://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.
Reply all
Reply to author
Forward
0 new messages