Train journey - Sanskrit joke

41 views
Skip to first unread message

K.N.RAMESH

unread,
Sep 21, 2021, 6:07:16 AM9/21/21
to
*रेलयानेन यात्रा।*

कश्चन पुरुषः रेलयानेन यात्रां कर्तुम् इष्टवान्। 
सः गुवाहाटीनगरस्य रेलस्थानकं गतवान्।

तत्र गत्वा सः रेलयानस्य एकां कक्षां प्रविष्टवान्, परन्तु सा कक्षा जनैः पूर्णा आसीत्। 
तस्य कृते रिक्त आसन्दः नासीत्। 

तदानीं सः एकम् उपायं विचिन्त्य सर्पः सर्पः इति कृत्वा चित्कारम् अकरोत्। 

सर्पः कक्षां प्रविष्टवान् इति मत्वा कक्षायां स्थिताः सर्वे अवतीर्य अन्यां कक्षां गतवन्तः। 

क्षणाभ्यन्तरे कक्षा रिक्ता अभवत्। 
तदा सः उपरि स्थितम् आसन्दम् आरुह्य सुखेन शयनं कृतवान्। 

प्रातःकाले चायविक्रेता कक्षां प्रविश्य चायं चायम् इति यदा रटति स्म तदा तस्य निद्राभङ्गः अभवत्। स च तम् अपृच्छत् भोः! एतस्य स्थानस्य किं नाम इति!

सः चायविक्रेता अवदत् गुवाहाटीनगरम् इति। 

सः पुरुषः तदा प्रत्यवदत् भोः! ह्यः रात्रौ अहं गुवाहाटीनगरम् आगत्य रेलयानम् आरुढवान्। किम् इदानीं पर्यन्तं गुवाहाटीनगर एव अस्ति? 

चायविक्रेता अवदत् महोदय! ह्यः रात्रौ एतां कक्षां सर्पः प्रविष्टः इति कारणतः एतां कक्षाम् अनीत्वा हि रेलयानं गतम्। 

सः पुरुषः तदा अचिन्तयत् यद् अहम् अधिकं चातुर्यम् अदर्शयम् इति कारणतः मम इयं दशा अभवत्। 
तदा सः विलापम् अकरोत्। 
*-प्रदीपः!*
Reply all
Reply to author
Forward
0 new messages