Veda vyasa slokas in bhagavatam

14 views
Skip to first unread message

K.N.RAMESH

unread,
Jul 23, 2024, 1:17:02 PM (4 days ago) Jul 23
to
पाराशर्यं परमपुरुषं विश्ववेदैकयोनिं
विद्याधारं विपुलमतिदं वेदवेदान्तवेद्यम्।
शश्वच्छान्तं स्वमतिविमलं शुद्धितेजोविशालं
वेदव्यासं सततयशसं सर्वदाऽहं नमामि।।

अष्टादशपुराणानि कृत्वा सत्यवतीसुतः।
भारताख्यानमखिलं चक्रे तदुपब्रुंहितम्।।

मन्वन्तरेषु सर्वेषु द्वापरे द्वापरे युगे।
प्रादुष्करोति धर्मार्थी पुराणानि यथाविधि।।

द्वापरे द्वापरे विष्णुर्व्यासरूपेण सर्वदा।
वेदमेकं स बहुधा कुरुते हितकाम्यया।।

अल्पायुषोऽल्पबुद्धींश्च विप्रान् ज्ञात्वा कलावथम्।
पुराण सम्हितां पुण्यां कुरुतेऽसौ युगे युगे।।

स्त्रीशूद्रद्विजबन्धूनां न वेद श्रवणं मतम्।
तेषामेव हितार्थाय पुराणानि कृतानि च।।

मन्वन्तरे सप्तमेऽत्र शुभे वैवश्वताभिधे।
अष्टाविंशति ये प्राप्ते द्वापरे मुनिसत्तमाः।।

व्यासः सत्यवतीसूनुर्गुर्गुर्मे धर्मवित्तमः।
एकोनत्रिंशत्संप्राप्ते द्रौणिर्व्यासो भविष्यति।।

--- श्रीमद्देवीभागवतम्. प्रथमस्कन्धम्.3 अध्यायः. 17--24श्लोकाः।

व्यासाः--

1. ब्राह्मा
2. प्रजापतिः
3. शुक्रः
4. बृहस्पतिः
5. सविता
6. मृत्युः
7. इन्द्रः
8. वशिष्ठः
9. सारस्वतः
10. त्रिधामः
11. त्रिवृषः
12. भरद्वाजः
13. अन्तरिक्षः
14. धर्मः
15. त्रैय्यारुणिः
16. धनंञ्जयः
17. मेधातिथिः
18. प्रतीः
19. अत्रिः
20. गौतमः
21.हर्यात्मा
22. वेनः, वाजश्रवः
23. सोमः, आमुष्यायणः
24. तृणबिन्दुः
25. भार्गवः
26. शक्तिः
27. जातुकर्णिः
28.कृष्णद्वैपायनः--श्रीमद्देवीभागवतम्।

सततं वेदव्यासभगवतः कृपावीक्षणं अस्मासु प्रसरत्विति संप्रार्थ्यमाना ....

सर्वेभ्यः व्यासपूर्णिमा शुभपर्वणः शुभाशयाः🙏💐💐
Reply all
Reply to author
Forward
0 new messages