।। शारदा शुभदा पञ्चकम् ।।
अतिप्रसिद्धश्रृङ्गशैलसुन्दराङ्गमन्दिरे
प्रतिष्ठितादिशङ्करेणचक्रराजमध्यगे ।
सुवर्णरत्नमण्डपे सुभासिते पद्मासने
सुधाम्शुशोभमानने शुभङ्करोतु शारदे ।।1
सुबुद्धिसिद्धिदायिके सुमङ्गलप्रदायिके
सनन्दनादिसेविते सुनादगीतलोलुपे ।
सुमन्दहाससुप्रसन्नसुन्दरास्यपङ्कजे
सुधाघटेनशोभिते शुभङ्करोतु शारदे ।।2
सुगन्धपुष्पमालिके सुदीप्तरत्नभूषिते
प्रदीप्तसूर्यतेजसे प्रवालमौक्तिकान्विते ।
सुहम्सवाहनाधिरूढसर्वलोकपालिके
सदाशिवस्यसानुजे शुभङ्करोतु शारदे ।।3
मुदाकरात्तमुद्रिके सदाप्रसन्नमानसे
सुरासुरैर्नमस्कृते सुशान्तचारुविग्रहे ।
सुतुङ्गभद्रातीरलोलपङ्कजासनप्रिये
सदामुनीन्द्रसेविते शुभङ्करोतु शारदे ।।4
सुवासिनीसुपूजिते सुतप्तकाञ्चनप्रभे
सुभद्रदानवारिधे स्वभक्तरक्षणेरते ।
सुहृज्जनैस्सुपूजिते सुशान्तिशर्मदायिके
शुभानने सुहर्षदे शुभङ्करोतु शारदे ।।5
🙏🏾 Pālāmadai Ananthasubramanian 🙏🏾