संस्कृतोपनिवेशिका

19 views
Skip to first unread message

संस्कृत संवादः

unread,
Jul 25, 2025, 6:21:37 AM7/25/25
to Samv...@googlegroups.com, संस्कृतसन्देशश्रेणिः samskrta-yUthaH
जम्मूक्षेत्रे सनातनसंस्कृतेः पुनर्जागरणम् । भारतस्य प्रथमा संस्कृतोपनिवेशिका विजयते ॥

जम्मूप्रदेशस्य सुभाषनगरविस्तारः १ इतिनाम्नि उपनिवेशन्यामेकः सांस्कृतिकोऽभिनवः प्रयोगः सर्वजनप्रशंसामलभत । इयं हि भारतस्य प्रथमा नागरीयोपनिवेशिका यत्रत्यैः सर्वैरेव गृहैः संस्कृतनामानि स्वीकृतानि सन्ति । प्राचीनभाषायाः पुनरुज्जीवनार्थं सनातनधर्मस्य संरक्षणाय च एष महान् प्रकल्प इति मन्यते ॥

वार्तेयं जुलैमासस्य एकोनविंशे दिनाङ्के प्रकाशिताऽभवत् । अत्रत्यं प्रत्येकं गृहं देवनागरिलिप्यां लिखितेन संस्कृतनामफलकेन शोभते । तेषु नामसु शान्तिनिवास आनन्दभुवनं सत्यकुटीरश्चेत्यादिमनोहराणि नामानि सन्ति । एतानि नामानि न केवलं पारम्परिकानि भारतीयानि मूल्यानि प्रदर्शयन्ति अपितु तां समस्तामुपनिवेशिकां सौन्दर्येण अध्यात्मभावेन च संयुज्य एकं विशिष्टं सांस्कृतिकं केन्द्रं निर्मान्ति ॥

विद्वज्जना अभिप्रयन्ति यद् एतादृशः प्रयासः संस्कृतस्य प्रासङ्गिकताविषये स्थितान् मिथ्याभ्रमान् दूरीकरोति भाषां च दैनन्दिनं नागरिकजीवनं प्रति सार्वजनिकचेतनां प्रति चानयति । क्षितिजालस्थाने (𝕏) अपि अस्य प्रयासस्य भूरिशः प्रशंसा भवति । जना एनं भारतस्य सभ्यतया सह पुनः सम्बन्धस्थापनार्थं दूरदर्शिनं पदक्षेपं वर्णयन्ति येन व्यापको सांस्कृतिकः प्रवाहः प्रारभ्येत ॥

अयं नूतनः प्रयोगो जम्मूविश्वविद्यालयस्य संस्कृतविभागस्य प्रयत्नैः सह सामञ्जस्यं भजते । यो हि विभागः त्रिषष्ट्युत्तरैकोनविंशतिशततमे वर्षे स्थापितः सन् शिक्षाऽनुसन्धानसामुदायिककार्यक्रमाणां माध्यमेन भाषायाः प्रचारं निरन्तरं करोति । तत्र प्रचालिताः संस्कृतसम्भाषणवर्गाः ध्वनिविज्ञानप्रयोगशाला च आधुनिकसमाजस्य आवश्यकतानुसारं भाषां योजयितुं प्रयतन्ते ॥

स्वस्तिर्भवतु।
संस्कृत संवादः
https://linktr.ee/samvadah
Reply all
Reply to author
Forward
0 new messages