Sutalaloka varnanam - Sanskrit poem

10 views
Skip to first unread message

K.N.RAMESH

unread,
Oct 16, 2021, 3:29:22 AM10/16/21
to
🌷🌷🌷🌷🌷🌷🌷🌷
।।सुतललोकवर्णनम् ।।
🌷🌷🌷🌷🌷🌷🌷🌷
वितलस्य अधस्ताद्वै दससहस्रयोजनम् ।
दिव्यस्सुतललोकस्सप्तलोकेषु चोत्तमः ।।१।।
पुण्यश्लोको नृपो यत्र विरोचनात्मजो महान् ।
प्रह्लादस्य च पौत्रो हि बलिः सुशोभते सदा ।।२।।
बुद्धिमान्गुणवानेष बलशाली च वीर्यवान् ।
सर्वदानसमर्थो हि ब्राह्मणानां च पूजकः ।।३।।
ब्रह्मवेता यशस्वी स सत्यवक्ता दृढव्रतः ।
धर्मात्मा च महात्मा वै योद्धा च समराङ्गणे ।।४।।
देवैस्स प्रार्थितो विष्णुर्लोकं च प्रापणाय वै ।
तेषां च प्रार्थनां श्रुत्वा प्रासीदच्च हरिस्तदा ।।५।।
भगवान्काश्यपो विष्णुर्देवानां कार्यसाधकः ।
महेन्द्रस्य प्रियं कर्तुमदितिसुतो बभूव ।।६।।
वटुरूपं समास्थाय जगाम वामनः प्रभुः ।
त्रीणि पदानि भूर्हेतोर्बलिद्वारे स्थितो हरिः ।।७।।
त्रींल्लोकान्प्राप्य विष्णुर्वै देवताभ्यो ददौ यथा ।
बलिनृपाय लोकं वै सुतलं प्रददौ तथा ।।८।।
प्रार्थयामास तं विष्णुं करबद्धो बलिस्तदा ।
त्वां विहाय न किञ्चिद्वै वाञ्छामि भगवन् प्रभो ।।९।।
एकं मन्वन्तरं यावत्त्रिलोकस्य सुखं यथा ।
भगवद्दर्शनं सर्वं तिष्ठति शाश्वतं सुखम् ।।१०।।
द्वारपालस्सदाविष्णुर्भगवांस्तत्र च स्थितः ।
दिव्यमद्भुतलोकं वै मुनयस्तं ब्रुवन्ति ह ।।११।।
एकदा रावणस्तत्र सुतलमाजगाम ह ।
येनाङ्गुष्ठेन पादेन पातयामास तं हरिः ।।१२।।
गदापाणिस्सदा विष्णू रक्षति सुतलं सदा ।
दृढभक्त्या भजन्ते वै जना विष्णुञ्च सर्वदा ।।१३।।
यादृश्यस्सम्पदस्तत्र वर्तन्ते सुतले यथा ।
तादृश्यस्सम्पदो नास्ति देवेन्द्रस्य च मन्दरे ।।१४।।
स्वधर्मेण बलिस्तत्र विष्णुद्भक्तिं करोति वै ।
आस्तेऽधुनापि राजा वसति निर्भयेन च ।।१५।।
पुण्यश्लोको बली राजा पुण्यश्लोका कथा ननु ।
पुण्यसुतललोकोऽयं वै पुण्यचरितं महत् ।।१६।।
शिवान्या कृतमेतद्वै सुतललोकवर्णनम् ।
पठन्ति श्रद्धया ये याः विष्णुस्तेषु प्रसीदति ।।१७।।
   (अनुष्टुप् छन्दः ) 
डा. शिवानी शर्मा, जयन्तीपुरम्, हरियाणाराज्यम् ।
🌷🌷🌷🌷🌷🌷🌷🌷
Reply all
Reply to author
Forward
0 new messages