तिरुपतिस्थसंस्कृतविद्यापीठे वाग्वर्धिन्याः प्रथमे सत्रे शास्त्रार्थगोष्ठी

22 views
Skip to first unread message

संस्कृत संवादः

unread,
Jul 25, 2025, 3:47:35 AM7/25/25
to Samv...@googlegroups.com, संस्कृतसन्देशश्रेणिः samskrta-yUthaH
तिरुपतिस्थसंस्कृतविद्यापीठे वाग्वर्धिन्याः प्रथमे सत्रे शास्त्रार्थगोष्ठी॥

अथ तिरुपतिस्थस्य राष्ट्रियसंस्कृतविद्यापीठस्य वाग्वर्धिनीपरिषदः प्रथमे साप्ताहिके सत्रे वेदशास्त्रविषयिणी महती स्पर्धा समायोजिता । वाचं वर्धयति या सा वाग्वर्धिनीति नाम्नः सार्थक्यमिव साधयन्ती परिषद् छात्रेषु शास्त्रोत्साहं वर्धयितुं प्रायतत ॥

कार्यक्रमस्यास्य शोभां वर्धयितुं ज्ञानवृद्ध आचार्यप्रवरौ सी•राघवन्महोदयश्च नारायणमहोदयश्चातिथित्वेन समागतौ । तौ संस्कृतज्ञानविवृद्धये बहुमूल्यैः परामर्शैः छात्रान् सम्यक् प्रबोधितवन्तौ ॥

शास्त्रार्थनिर्णयार्थं प्रख्यातौ पण्डितौ डो•मिश्रनिरञ्जनश्च डो•मूर्तिदत्तात्रेयश्च नियुक्ता आस्ताम् । ताभ्यां शास्त्रसम्मता निष्पक्षा च समीक्षा कृता ॥

अस्य सत्रस्य कुशलं संयोजनं डो•रथोपाह्वयेन भरतभूषणेन च डो•बागुपाह्वयेन प्रदीपकुमारेण च डो•हेगडयुपाह्वयेनोदयनेन च कृतम् । तेषां प्रयत्नैरेव कार्यक्रमोऽयं सुचारुरूपेण सम्पन्नोऽभवत्॥

t.me/ramdootah

स्वस्तिर्भवतु।
संस्कृत संवादः
https://linktr.ee/samvadah
1000083507.jpg
1000083506.jpg
1000083505.jpg
Reply all
Reply to author
Forward
0 new messages