आत्मीयाः,
यद्यपि विषयोऽयं संस्कृतं न, तथापि कणं व्याहर्तुं अभिलषामि। यथा संप्रति सदस्येन केचनित् प्रार्थितं, भाषया व्यवह्रियते।
> i have also heard that without sandhyvandana, chanting veda/murti puja does not have effect
विचारयोग्यम्। नित्यकर्माणि काञ्चन मानसिकस्थितिं कल्पन्ते, यस्मात् अन्येषां कर्मणां वृद्धिर्भवति। नात्र संशयः। तथापि -- बहवो नित्यं सन्ध्यावन्दनादिकं कुर्वन्ति, परिणामं विना (तन्नाम यथापूर्वं षड्रिपव आत्मानं बाधन्ते, मनस्तु जगत्पङ्के लीनम्)। एषां वेदोच्चारणे कृतस्य नित्यकर्मणः फलं कथं भवतीति विचार्यम्।
संस्कृतवाङ्मये निन्दास्तुतिस्तु प्रसिद्धा। कस्यचित् वस्तुनः निन्दा यद्यपि क्रियते, तत्र विषयान्तरस्य प्रशंसा एव प्रयोजनम्। ईदृक्वाक्यानां अपि तथैव बहुधा। सन्ध्यावन्दनस्य प्रशंसाऽत्र प्रयोजनम्।
वेदान्तक्षेत्रे, अधिकारिणस्तु शमदमादिवन्तो मुमुक्षव एव। तथापि कोटिशः सर्वोऽपि लोकः वेदान्तकक्ष्यां उपासते। न च ते गौणाधिकारिणो निराकृताश्च। अत्रापि तद्वत्। फलं नास्तीति न, प्रत्युत, शास्त्रोक्तपूर्णफलप्राप्त्यै वेदोच्चारणं अङ्गमात्रम्।
सस्नेहम्,