नवराष्ट्रपतिमहोदयानामभिनन्दनाष्टकम्
********************************
(१)
शान्ता कान्ता गुणैर्या घनवनमहिला ह्यौडिशाराज्यकन्या
नम्रा कम्रापि वाचा सकलजनसुहृत् कर्मशीला सुशीला।
श्रेष्ठा निष्ठावती यातिसरलहृदया भारते राष्ट्रमुख्या
सेयं देशे विदेशे जयतु निजपदाद् द्रौपदीमुर्मुनाम्नी।।
(२)
जाता यापि मयूरभञ्जधरणौ सान्तालवंशे वने
कन्धानां कुलवर्धनाय निरता कन्धस्य कन्या यतः।
वन्यानां प्रविकाशनाय सततं यस्याः सुचेष्टाखिला
वाणब्रह्मतमा पदेन गरिमा राष्ट्रस्य मुख्याभवत्।।
(३)
शिक्षामाप्य सुशिक्षिका पुनरियं तद्राजनीतिं गता
सभ्या सा च विधायिका स्वनगरे श्रेष्ठापि कार्येभवत्।
नेत्री तत्र च भाजपाजनगणे मन्त्री बभूवोत्कले
लेभे मानदराज्यपालपदवीं तद्झाडखण्डे ततः।।
(४)
राष्ट्रस्वार्थैकचित्ता शमविनयनता राष्ट्रमानप्रदात्री
यस्याः कीर्तिर्विनन्द्या वनजनवनिता
स्वार्थचिन्ताविहीना।
राष्ट्रोन्नत्त्यै समानां मतमपि दधती याति राष्ट्राधिपार्थं
हिन्दुस्थानस्य मुख्या भवति गुणयुता द्रौपदी नाम मुर्मुः।।
(५)
मोदी यद्गुणदर्शको हितकरो यस्याश्च मोदप्रद
स्तद्भावं परिगृह्य सर्वसुहृदो गायन्ति तन्नाम च।
राज्यस्य प्रमुखः सुनीतिनिपुणस्तस्या नवीनः प्रियः
साभूद् राष्ट्रपतिस्ततो बहुमतैर्देशे गुणिद्रौपदी।।
(६)
दिल्लीसिंहासने त्वं नवघनरुचिरा प्रास्य देशस्य कार्यं
दृष्ट्वा नीतिं विधाय प्रबलहितकृते शासनं संधरिष्ये।
नीतेस्ते देशभक्तेर्नयनपथगतादुत्कलीयाः प्रफुल्लाः
सन्तो गास्यन्ति कीर्तिं जयतु जयतु हि द्रौपदी वन्यजन्मा।।
(७)
पैदापोसीसुता त्वं रिपुगणरहिता रायिरङ्गस्य नारी
राष्ट्राध्यक्षेण देशे निवससि सरला रायिसीनानिवासे
मिथ्यानिन्दातिदूरा विगतकुटिलता राजधर्मातिसाध्वी
कुर्मः सुस्वागतं ते प्रणमनसहितं द्रौपदीमुर्मुभागे !।।
(८)
श्रुत्वा ते विजयं विमुग्धजनता स्फोटैर्मुहुर्नृत्यति
ग्रामे ते लडुकं सुरस्य निकटे संपूज्य वै वण्ट्यते।
धन्येयं वसुधौडिशा च मनुजा धन्या अरण्यौकस
स्त्वत्कीर्त्तिः परिराजतां प्रतिदिनं नौमि व्रजः सादरम्।।
(व्रजकिशोरः)