Shankara Ji
This is a beautiful verse, found at the beginning of some editions of the Gurugītā from Skandapurāṇam. It is well known in the Śaiva Sampradāyas and Muktānanda Paramahaṃsa, the famous 20th century saint of Gaṇeśapurī (Maharashta) in the Siddha lineage has sung it beautifully with just a percussion instrument as his accompaniment, (I will share the mp3 of that soon). Based on my interactions with two Ācārya of he Rāmānuja and Rāmānanda orders in Haridvāra last month, I came to the conclusion that it is not widely known in Vaiṣṇava Sampradāyas.
Meanwhile, I must admit, it is a difficult verse to parse and interpret. I asked my Guru to explain and he narrated a spontaneous commentary in Samskrita which is reproduced below. Based on the commentary, I can say that हंसाभ्यां must go with परिवृत्तपत्रकमलैः, and
पत्रकमल is the correct समास with one possible meaning being पत्रयुक्तकमल (in which case it would be an example of the मध्यमपदलोपि समास). Anyway here is the verse and commentary which makes the Anvaya clear - the dualistic
point of view is apparent in the commentary and will be liked by the
Vaiṣṇava readers.
Best wishes on Gurupūrṇimā!
हंसाभ्यां परिवृत्तपत्रकमलैर्दिव्यैर्जगत्कारणैर्विर्श्वोत्कीर्णमनेकदेहनिलयैः स्वच्छन्
दमात्मेच्छया।
तद्द्योतं
पदशाम्
भवं तु चरणं दीपाङ्कुरग्राहिणं
प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ॥
हंसाभ्यां ब्रह्मजीवाभ्यां परिवृत्तपत्रकमलैः परिवृत्तं पत्रकमलवत्सूक्ष्मं
हृदयं येषां तानि परिवृत्तपत्रकमलानि तैर्जगत्कारणैः
संसारकारणभूतैरनेकदेहनिलयैरनेकदेहरूपभुवनैर्विश्वोत्कीर्णमेभिर्विश्वमुत्कीर्णं
यस्मिन् यस्मिन् विश्वमिदमुत्कीर्णं व्याप्तं वर्तत एवम्भूतं
यत्प्रपञ्चात्मकं जगत्
तद्द्योतं
तद्द्योतयतीति
तद्द्योतं
पूर्वं प्रथमान्तविग्रहः विश्वोत्कीर्णमित्यस्य कृते पुनरेवम्भूतं
यद्विश्वोत्कीर्णं तद्विश्वोत्कीर्णं प्रपञ्चात्मकं जगद्यद्द्योतयतीत्येवं
तद्द्योतं
पदशाम्
भवं "पदं व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुषु" पदशब्दस्यात्र निश्चितार्थो
निश्चितं यत्शाम्भवं शिवसम्बन्धिनमाराध्यमानं चरणमर्थाद्यं गुरुं शिवोऽप्याराधयत्येवम्भूतं दीपाङ्कुरग्राहिणं प्रकाशयुक्तं यदङ्कुररूपं जगत्कारणं तमपि यद्ग्राहयति बोधयत्येवम्भूतं प्रत्यक्षाक्षरविग्रहं प्रत्यक्षमक्षरं
ब्रह्मैव विग्रहो यस्य तादृशं गुरुपदं गुरुस्वरूपं
शाश्वतं विभुं व्यापकं ध्यायेदित्यक्षरार्थः। अत्र पदशब्दस्यार्थः चरणं
नास्ति। स्वरूपम्। गुरुरूपं वस्तु। अत एव तत्र बहुव्रीहिः घटते -
प्रत्यक्षमक्षरं ब्रह्मैव विग्रहो यस्य
तत्प्रत्यक्षाक्षरविग्रहमेवम्भूतं शाश्वतं नित्यं विभुं व्यापकं गुरुपदं गुरुस्वरूपं
ध्यायेत्।
स्वच्छन्
दमात्मेच्छया?
तत्र ब्रह्मजीवयोः कृते यत्स्वच्छन्दं किन्त्वात्मेच्छया निजेच्छयैव हंसाभ्यां ब्रह्मजीवाभ्यां शरीरे निवासो विधीयते अत आ
त्मेच्छया न त्वन्येच्छया सामान्यजीवानां त्वन्येच्छया शरीरे निवासो भवति किन्तु परमात्मजीवात्मनोस्तु स्वेच्छयैव शरीरे निवासो भवति।
एकः क्षेत्री भवति अपर अन्तर्यामी भवति।
व्यवस्थाहेतोः शरीरे इमौ निवसतः।
अतः स्वच्छन्
दमात्मेच्छया स्वच्छन्दमात्मेच्छया निजेच्छया हंसाभ्यां
ब्रह्मजीवाभ्यां
परिवृत्तपत्रकमलैराच्छादितपत्ररूपकमलवत्सूक्ष्मैरेवम्भूतैर्जगत्कारणैः
संसारहेतुभिः पुनश्चानेकदेहनिलयैरनेकदेहरूपभुवनैर्विश्वोत्कीर्णं
विश्वमुत्कीर्णं यस्मिन्नेवम्भूतं यत्प्रपञ्चात्मकं जगत्तत्प्रपञ्चात्मकं
जगद्योतयति तद्द्योतं
तत्प्रपञ्चात्मकं जगद्येन प्रकाश्यते
तादृशं निश्चितं शाम्भवं शिवसम्बन्धि यच्चरणरूपं यस्य चरणकमलं यच्च
दीपाङ्कुरग्राहिणं भगवत्तत्त्वज्ञानरूपप्रकाशेनाङ्कुरस्य जगत्कारणस्य
ग्राहिणं बोधकमेवम्भूतं
प्रत्यक्षाक्षरविग्रहं प्रत्यक्षमक्षररूपो विग्रहो यस्य तादृशं शाश्वतं विभुं व्यापकं गुरुपदं गुरुस्वरूपं ध्यायेत्।
Thanks, Nityanand
Nityānanda Miśra
Member, Advisory Council, Jagadguru Rambhadracharya Handicapped University
Chitrakoot, Uttar Pradesh, India
http://nmisra.googlepages.com
http://jagadgururambhadracharya.org/jrhu/donate|| आत्मा तत्त्वमसि श्वेतकेतो ||
(Thou art from/for/of/in That Ātman, O Śvetaketu)
- Ṛṣi Uddālaka to his son, Chāndogyopaniṣad 6.8.7, The Sāma Veda