UpasargavRutti (उपसर्गवृत्तिः)

76 views
Skip to first unread message

dhaval patel

unread,
May 27, 2011, 1:54:13 PM5/27/11
to samskrita
Hi all,
I am presenting to you all a work which I have recently edited from a manuscript.
This is a very beautiful work related to the usage of Upasarga in sanskrit Grammar.

If there are any corrections or typological errors, bring it to my notice.


Yours sincerely,

Dr. Dhaval Patel (Indian Administrative Service)


उपसर्गवृत्तिः

 

प्रप्रत्यपिपरापोपपर्यन्ववविसंस्वति ।

निर्न्युदधिदुरभ्याड्‌ उपसर्गाश्च विंशतिः ॥ १ ॥

 

इति विंशति उपसर्गाः । एषां वृत्तिसूत्रमभिधास्यामः ।

 

 

प्र आदिकर्मोदीर्णभृशार्थैश्वर्यसंभववियोगनियोगतृप्तिशुद्धीच्छाशक्तिशांतिपूजाग्रदर्शनेषु प्रेत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

 

आदिकर्मणि प्रगतः प्रबलो राजा ।

उदीर्णे प्रबला मूषिका ।

भृशार्थे प्रवदन्ति दायादाः ।

ऐश्वर्ये प्रभुर्देवदत्तः ।

संभवे हिमवतो गंगा प्रभवति ।

वियोगे प्रेषितः।

नियोगे प्रयुक्तः ।

तृप्तौ प्रभुक्तं अन्नम्‌ ।

शुद्धौ प्रसन्नमुदकम्‌ ।

इच्छायां प्रार्थयते कन्याम्‌ ।

शक्तौ प्रशक्तो विद्यायाम्‌ ।

शांतौ प्रशांतोऽग्निः ।

पूजायां प्रांजलि स्थितः ।

अग्रे प्रवालो वृक्षस्य ।

दर्शने प्रलोकयति कन्याम्‌ ।

इत्ययं प्रोपसर्गः ॥ १ ॥

 

 

 

परा वधमर्षणगतिविक्रमाभिमुख्यभृशार्थाप्राधान्यविमोक्षप्रातिलोम्येषु । परा इत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

 

वधे पराघातः ।

मर्षणे परामृषू ।

गतौ परागतः ।

विक्रमे पराक्रान्तः ।

अभिमुख्ये परावृत्तः ।

भृशार्थे पराजितः ।

अप्रधाने पराधीनः ।

विमोक्षे पराक्षतः ।

प्रातिलोम्ये पराङ्मुखः ॥ २ ॥

 

 

अप वर्जनवियोगचौर्यहर्षनिर्द्देशविकृतिवारणविपर्ययेषु । अयमपोपसर्ग एतेष्वर्थेषु वर्तते ।

 

वर्जने अपसांकाश्यादृष्टो देवः ।

वियोगे अपयाति ।

चौर्ये अपहरति ।

निर्द्देशे अपदिशति ।

विकृतौऽपकृतम्‌ ।

वारण अपसरति ।

विपर्यये अपशब्दः ॥ ३ ॥

 

 

सम्‌ । योगऐक्यप्रभ्वसत्यसमंततोभावविभूषणाभिमुख्यश्लेषसिद्धिक्रोधस्वीकरणेषु । समयं उपसर्ग एतेष्वर्थेषु वर्तते ।

 

योगे संगतः पुत्रेण ।

वियोगे संवियुक्तः प्रियेण ।

ऐक्ये संप्रवदन्ति मुख्याः |

प्रभवे संभवति अग्निः काष्ठैः ।

सत्य संवादः ।

समक्षे संकथा वर्तते ।

समंतताभावे संकीर्णः ।

भूषणे संस्कृता कन्या ।

अभिमुख्ये संमुखं वर्तते ।

श्लेषे संधते कार्यम्‌।

सिद्धौ संसिद्धिः ।

क्रोधे संकृद्धः ।

स्वीकरणे संगृह्णाति ॥ ४॥

 

अनु । पश्चाद्भावाधिष्ठानसामीप्यस्वाध्यायानुबंधविसर्गसादृश्याभिमुख्यलक्षणहीनेषु ।

 

इत्यनूपसर्ग एतेष्वर्थेषु वर्तते ।

पश्चाद्भावे अनुरथं पदातयः ।

अधिष्ठाने अनुष्ठानं पाटलिपुत्रम्‌ ।

सामीप्ये अमुमेघं गगनम्‌ ।

स्वाध्याये व्याकरणमनुवदति ।

अनुबंधे अनुशयः ।

विसर्गे अनुज्ञातो गच्छति ।

सादृश्ये अनुकृतिः ।

भिमुख्ये अनुवत्सो मातरं धावति ।

लक्षणे अनुवनमसौ निर्गतः ।

हीने अन्वर्जनं योद्धारः ॥ ५ ॥

 

 

अव । विज्ञानावलंबने शुद्धीषदर्थव्याप्तिपरिभववियोगेषु अवेत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

 

विज्ञाने अवगतोऽर्थः ।

 

अवलंबने अवष्टभ्य यष्टिं गच्छति ।

 

शुद्धौ अवदात्तं मुखम्‌ ।

 

ईषदर्थे अवभुक्तम्‌ ।

 

व्याप्तौ अवकीर्णं पांशुभिः ।

 

परिभवे अवहसति ।

 

वियोगे अवमुक्ता कान्ता ॥ ६ ॥

 

 

निर्‌ । वियोगभृशार्थपापात्ययावधारणादेशातिक्रमलाभेषु निरित्युपसर्ग अयमेतेषु अर्थेषु वर्तते ।

 

वियोगे निःशल्यम्‌ ।

 

भृशार्थे निर्नीतः ।

 

पापे निर्मर्यादः ।

 

अत्यये निर्दाधं गमनम्‌ ।

 

अवधारणे निश्चितः ।

 

आदेशे निर्दिष्टः ।

 

अतिक्रमे निःक्रांतः ।

 

लाभे निर्विशेषः ॥ ७ ॥

 

 

दुर्‌ । ईषदर्थकुत्सनवैवर्ण्यासंपत्यलाभेषु दुरित्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

 

ईषदर्थे दुर्गृहीतः ।

 

कुत्सने दुर्बलः ।

वैवर्ण्ये दुर्वर्णः ।

 

असंपत्तौ दुर्गतः ।

 

अलाभे दुःप्राप्यः ॥ ८ ॥

 

 

वि । नानार्थवियोगातिशयभयदूरार्थभृथार्थकलहैश्वर्यमोहपौशून्योत्कर्षकुत्सनेषदर्थानाभिमुख्यानवस्थानाप्राधान्यदर्शनशौर्येषु । वि इत्ययं उपसर्ग एतेष्वर्थेषु वर्तते ।

 

नानार्थे विचित्रा कृतिः पाणिनेः ।

 

वियोगे वियुक्तः ।

 

अतिशये विकीर्णः ।

 

भये विभीषणः ।

 

ईषदर्थे विप्रकृष्टमध्वानम्‌ ।

 

भृशार्थे विसुद्धा नदी ।

 

 

कलहे विभज्य धनम्‌ ।

 

ऐश्वर्ये विभुर्देवदत्तस्य ।

 

मोहे विमनस्कः ।

 

पैशून्ये विकरः ।

 

उत्कर्षे विस्मितो देवदत्तः ।

 

कुत्सने विरुपः ।

 

ईषदर्थे विलोपितः ।

 

अनाभिमुख्ये विमुखः ।

 

अनवस्थाने विभ्रांतः ।

 

अप्रधान्ये विनिष्टः ।

 

दर्शने विलोकनीया कन्या ।

 

शौर्ये विक्रांतः ॥ ९ ॥

 

 

आड्‌ । प्राप्तीच्छाबंधनभयवाक्यश्लेषाभिविधिसाध्यकृच्छ्रादिकर्मग्रहणनिलयसामीप्यविक्रियानिमंत्रणनिवृत्याशीरादानांतर्भावस्पर्धाभिमुख्योर्ध्वकर्मविस्मयप्रतिष्ठानिर्द्देशशक्तिमर्यादासु ।

 

आड्‌ इत्युपसर्ग एतेष्वर्थेषु वर्तते । तद्यथा ।

 

प्राप्तौ आसादितमनेन ।

 

इच्छायां आकांक्षति ।

 

बंधने आमुञ्चति कवचम्‌ ।

 

भये आकंपितः ।

 

वाक्ये आज्ञापयति ।

 

अभिविधौ आकृमारं यश पाणिनेः ।

 

श्लेषे आलिंगयति ।

 

साध्ये आचरति कपटेन ।

 

कृच्छ्रे आपद्गतः ।

 

आदिकर्मणि आरभते कर्तुम्‌ ।

 

ग्रहणे आलंबते ।

 

निलये आवसथम्‌ ।

 

सामीप्ये आसन्नं कल्याणम्‌ ।

 

विक्रियायां आस्वादयति ।

 

निमंत्रणे आमंत्रणम्‌ ।

 

निवृत्तौ आरमते ।

 

आशिषि आशास्ते ।

 

आदाने रसायनम्‌ ।

 

अंतर्भावे आपीतमुदकम्‌ सिकताभिः ।

 

स्पर्धायां मल्लो मल्लमाह्वयति ।

 

आभिमुख्ये आगच्छति देवदत्तः ।

 

उर्ध्वकर्मणि आरोहति हस्तिपकः ।

 

विस्मये आनंदिताः ।

 

प्रतिष्ठायां आस्पदम्‌ ।

 

निर्देशे आदिशति ।

 

शक्तौ आक्रमते गगनं चंद्रमाः ।

 

मर्यादायां आइलावर्धनात्संपन्नः शालयः ॥ १० ॥

 

 

 

नि । निवेशराशिभृशार्थाधोभावनिवासद्दारकर्मदर्शनोपरमबंधनकौशल्यांतर्भावसानीधमोक्षाश्रयेषु निरित्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

 

निवेशे निवेशितम्‌ ।

 

राशौ निकरो धान्यस्य ।

 

भृशार्थे निगृहीतः ।

 

अधोभावे निपतितः ।

 

निवासे निवसितो नरम्‌ ।

 

दारकर्मणि निविष्टो देवदत्तः ।

 

दर्शने निशामयति रुपम्‌ ।

 

उपरमे निवृतः ।

 

बंधने नियमितः ।

 

कौशल्ये निपुणः ।

 

अंतर्भावे निपीतमुदकम्‌ सिकताभिः ।

 

सामीप्ये निकृष्टकालः ।

 

मोक्षे निसृष्टः ।

 

आश्रये निलयः ॥ ११ ॥

 

 

अधि । वशीकरणाधिष्ठानाध्ययनैश्वर्यस्मरणाधिकेषु अधि इत्ययं उपसर्ग एतेष्वर्थेषु वर्तते ।

 

वशीकरणे अधिकरोति अर्थी ।

 

अधिष्ठाने[1] अधिगुणः ।

 

अध्ययने अधीते व्याकरणम्‌ ।

 

ऐश्वर्ये अधिपतिः ।

 

स्मरणे क्षेत्रमधिस्मरति ।

 

आधिक्ये अधिक्षेत्रे राज्ञः ॥ १२ ॥

 

 

अपि । संभावनानिवृत्तिअपेक्षासमुच्चयसंभवगर्हाशीरमर्षणप्रश्नेषु । अपीत्ययं उपसर्ग एतेष्वर्थेषु वर्तते ।

 

संभावने अपि सिंचेन्मूलसहस्रम्‌ ।

 

निवृत्तौ मांसमपि जुह्यात्‌[2]

 

अपेक्षायां अथायमपि विद्वान्‌ ।

 

समुच्चये त्वहमपि अयमपि ।

 

संभवे अपि संभवति ।

 

(अहिः स्तुहिषु)[3] गर्हायां अपि वृषलं याचयेत्‌ ।

 

आशिषि अपि वर्षं शतं जीयाः ।

 

अमर्षणे अपि भजन्न नमेत्‌ ।

 

भूषणे अपि नह्वति[4] हारम्‌ ।

 

प्रश्ने अपि गच्छति ॥ १३ ॥

 

 

अति । अतिशयभृशार्थातिक्रांतिअतिक्रमणवृद्धिषु । अति इत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

 

अतिशयो अतिमानुषं यस्य विज्ञानम्‌ ।

 

भृशार्थे अतितप्ता आयः ।

 

अतिक्रान्तौ अतिरथिम्‌ ।

 

अतिक्रमणे हस्तिनातिक्रमति[5]

 

वृद्धौ अतिमेघं गगनम्‌ ॥ १४ ॥

 

 

 

सु । पूजाभृशार्थानुमतिसमृद्धिप्रशंसाकृच्छ्रेषु । सु इति अयमुपसर्ग एतेष्वर्थेषु वर्तते ।

 

पूजायाम्‌ सुसाधुः ।

 

भृशार्थे सुतप्ता आयः ।

 

अनुमतौ सुकृतम्‌ ।

 

समृद्धौ सुमुद्रम्‌ ।

 

प्रशंसायां सुकृषिम्‌ ।

 

कृच्छ्रे सुदुःकरः ॥ १५ ॥

 

 

 

उत्‌ । प्राबल्यवियोगोर्ध्वकर्मलाभप्रकाशास्वस्थमोक्षाभावबंधनप्राधान्यशक्तिषु । उत्‌ इत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

 

प्राबल्ये उद्विलसत्सर्पः ।

 

वियोगे उत्पथेन गच्छति ।

 

उर्ध्वकर्मणि उत्तिष्ठति शयनात्‌ ।

 

लाभे उत्पन्नं द्रव्यम्‌ ।

 

प्रकाशे उच्चरन्ति नभसि मेघाः ।

 

अस्वस्थे उत्सुकः[6]

 

मोक्षे उद्वासः ।

 

 

अभावे उत्पथः ।

 

बंधने उद्बद्धा कन्या ।

 

प्राधान्ये उत्कृष्टः ।

 

शक्तौ उत्साहः ॥ १६ ॥

 

 

 

अभि । पूजाआभिमुख्यभृशार्थसादृश्यप्रयोगव्याप्तिनृत्तसारुप्यवचनादानाम्नायेषु । अभि इति अयमुपसर्ग एतेषु अर्थेषु वर्तते ।

 

पूजायां अभिवादयति ।

 

आभिमुख्ये अभिमुखं स्थितः ।

 

भृशार्थे अभिरतः ।

 

सादृश्ये अभिज्ञातः ।

 

प्रयोगे अभिजानाति ।

 

इच्छायां अभिलषति ।

 

व्याप्तौ अभिस्यन्दः ।

 

नृत्ते अभिनयः ।

 

सारुप्ये अभिरुपः ।

 

वचने अभिवचनम्‌ ।

 

आदानेऽभ्यवहरति ।

 

आम्नाये अभ्यस्यति ॥ १७ ॥

 

 

 

प्रति । सादृश्यादानहिंसातद्योगविनिमयप्रतिनिधिनिवृत्तिव्याध्याभिमुख्यव्याप्तिवारणेषु । प्रत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।

 

सादृश्ये प्रतिकृतं देवदत्तेन ।

 

आदाने प्रतिगृह्णाति ।

 

हिंसायां प्रतिहरति ।

 

तद्योगे प्रतिपन्नमनेन ।

 

विनिमयो तोलनघृतं प्रतिददाति ।

 

प्रतिनिधौ प्रतिच्छंदः ।

 

निवृत्तौ प्रतिक्रांतः ।

व्याधौ प्रतिश्यायः ।

 

अभिमुख्ये प्रतिसूर्ये गच्छति ।

 

व्याप्तौ प्रतिकीर्णं पांशुभिः ।

 

वारणे प्रतिनिवृत्तः ॥ १८ ॥

 

 

 

परि । समंततोभावव्याप्ति[7]दोषाख्यानोपरभूषणपूजावर्जनालिंगननिवसनव्याधिशोकवीप्सासु ।

परीति अयमुपसर्ग एतेष्वर्थेषु वर्तते ।

 

समंततोभावे परिक्रमति[8]

 

व्याप्तौ परिगतोऽग्निना ग्रामः ।

 

दोषाख्याने परिभ्रमति ।

 

उपरमे परिपूर्णः कुंभः ।

 

भूषणे परिष्करोति कन्याम्‌ ।

 

पूजायां परिचर्या ।

 

वर्जने परित्रिगर्तेभ्यावृष्टो देवदेवः ।

 

आलिंगने परिष्वजते कन्याम्‌ ।

 

निवसनो परिधानम्‌ ।

 

व्याधौ परिगता स्फोटकाः ।

 

शोके परिदेवना ।

 

वीप्सायां वृक्षं वृक्षं परिसिंचति ॥ १९ ॥

 

 

 

उप । सामीप्यासामर्थ्यव्याप्त्याचार्यकरणदोषाख्यानदानदाक्षिण्यवीप्सारंभपूजातद्योगओरत्ययमरणेषु ।

 

उप इति उपसर्ग एतेष्वर्थेषु वर्तते ।

 

सामीप्ये उपकुंतम्‌ ।

 

सामर्थ्ये उपकरोति देवदत्तः ।

 

व्याप्तौ उपकीर्णं पांशुभिः ।

 

आचार्यकरणे उपदिशति शिष्येभ्यः ।

 

दोषाख्याने उपघातः ।

 

दाने उपहरत्यर्थं देवदत्तायाः ।

 

दाक्षिण्ये उपचारः ।

 

वीप्सायां उपयाचते ।

 

आरंभे उपक्रमते भोक्तुम्‌ ।

 

पूजायां उपासितः ।

 

तद्योगे उपपन्नं ध्यानमाह ।

 

प्रत्यये उपपन्नं धनम्‌ ।

 

शरणे उपगतो देवदत्तः ।

 

प्रत्यये उपसर्गधर्मः ॥ २० ॥

इति उपसर्गवृत्तिः समाप्ता ॥



 

[1] पाठे आर्त्विकम्‌

[2] जुह्वात्‍ वा

[3] न सुसंबद्धः

[4] ???

[5] पाठे हस्तिनाक्रामति

[6] पाठे उत्सकः

[7] पाठे व्याग्नि

[8] पाठे परित्रमति

उपसर्गवृत्ति.doc

Vasu Srinivasan

unread,
May 28, 2011, 9:29:46 AM5/28/11
to sams...@googlegroups.com
A very beautiful work indeed. Thanks for your efforts Sri Dhaval-ji.

2011/5/27 dhaval patel <drdhav...@gmail.com>
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To post to this group, send email to sams...@googlegroups.com.
To unsubscribe from this group, send email to samskrita+...@googlegroups.com.
For more options, visit this group at http://groups.google.com/group/samskrita?hl=en.



--
Regards,
Vasu Srinivasan
-----------------------------------
vagartham.blogspot.com
vasya10.wordpress.com

bayaryn

unread,
May 28, 2011, 12:38:50 PM5/28/11
to sams...@googlegroups.com
Thank you very much, Dhaval. It is very important text for studying Sanskrit, I recommend it for my students.

With best regards,
Mihail.

Krishnanand Mankikar

unread,
May 30, 2011, 3:27:46 AM5/30/11
to sams...@googlegroups.com
Dear Dr. Patel,
This is a great reference paper indeed. Thanks for sharing.
Your efforts in going thru the MS and making it available to us are commendable.
 
 
Regards,
Mankikar


 
2011/5/27 dhaval patel <drdhav...@gmail.com>
--
Reply all
Reply to author
Forward
0 new messages