Sri Ganesha charitam- Sanskrit poem

16 views
Skip to first unread message

K.N.RAMESH

unread,
Oct 26, 2021, 10:18:48 AM10/26/21
to
।।श्रीगणेशचरितम् ।।
    ********************
विघ्नराजगणेशं च गौरीपुत्रविनायकम् ।
वक्रतुण्डं महाकायं तं नमामि पुनः पुनः ।।१।।
श्रीवराहपुराणे या ऋषिभिः कथिता कथा ।
वृत्तान्तं श्रीगणेशस्य श्रावयामि शुभे दिने ।।२।।
एकदा मुनयस्सर्वे उपरुद्रं समागताः ।
कथं सम्पद्यते कर्म निर्विघ्नं ब्रूहि हे प्रभो ! ।।३।।
मुनीनां प्रार्थनां श्रुत्वा हृदयं द्रवितं तदा ।
दृष्टा शिवेन सा गौरी कुमारो जायते ततः ।।४।।
तेजस्वी हि कुमारोऽयं सर्वगुणसमन्वितः ।
शिवमुखाद्धि जातोऽयं साक्षान्नारायणस्तदा ।।५।।
तया ध्यानेन दृष्टोऽयं रुद्रेणेव हि भासते ।
पार्वती कुपिता जाता कुमारश्शापितस्तया ।।६।।
गजवक्त्रं भव त्वं हि लम्बोदरं तथाहि च ।
सर्परूपेण वीतो हि तव गात्रे भविष्यति ।।७।।
रुद्रो हि क्रोधितस्तत्र प्रकटिता विनायकाः ।
क्षुब्धा च धरणी जाता देवैस्तैः प्रार्थितः शिवः ।।८।।
प्रसन्नीभूय रुद्रेण वरं दत्तं हि तत्क्षणे ।
सर्वे विनायकास्तत्र कुमारे हि समागता ।।९।।
मुखादुत्पद्यते यश्च विख्यातो हि भविष्यति ।
विनायकगणानाञ्च नायकस्सः प्रकीर्तितः ।।१०।।
गणेशचरितं पूतं शिवान्या रचितं यथा ।
पठन्ति ये नरा भक्त्या सिद्धिं विन्दन्ति सर्वथा ।।११।।
       (अनुष्टुप्छन्दः)
डा. शिवानी शर्मा, ग्रामो ढाटरथः, जयन्तीपुरं (जीन्दनगरम्), हरियाणाराज्यम् ।
*************************
Reply all
Reply to author
Forward
0 new messages