रात्रिः शिवा काचन सन्निधत्ते विलोचने द्वे जाग्रतमप्रमत्ते ।समानधर्मा युवयोः सकाशं सखा भविष्यत्यचिरेण कश्चित् ॥
शिवा शुभा शिवनामाङ्किता देव्यात्मिका वा रात्रिः सन्निधत्ते सन्निहिता । हे द्वे विलोचने अप्रमत्ते जाग्रतम् । अचिरेण युवयोः नेत्रयोः सकाशं समीपे कश्चित्समानधर्मा नयनत्वविशिष्टः सखा तृतीयो भविष्यति ।
फलत्वेन त्रिनेत्रत्वाप्तिं प्रदर्श्य शिवरात्रिजागरणे प्रवर्त्तकमेतद्वचनम् । नवरात्रविषयकं वैतद्वचनं स्यात् । त्रिनेत्रत्वाप्तिश्च देवीतादाम्यं शिवत्वं वा लक्षयति । रात्रिसामान्यपरत्वे तु रात्रौ देवीदृष्टिपरमेतन्नेयम् । फलं तत्रापि पूर्वोक्तवत् ।
2011/2/10 hnbhat B.R. <hnbh...@gmail.com>त्रिः शिवा काचन सन्निधत्ते विलोचने द्वे जाग्रतमप्रमत्ते।समानधर्मा युवयोः सकाशं सखा भविष्यत्यचिरेण कश्चित्
भोः।
“रात्रिः शिवा काचन सन्निधत्ते विलोचने द्वे जाग्रतमप्रमत्ते ।“ इत्यत्र वृत्तभङ्गः दृश्यते।
प्रायेण मूलश्लोकः “रात्रिः शिवा काचन सन्निधत्ते विलोचने जाग्रतमप्रमत्ते” इति स्यात्।
इति शम्।
मूर्तिः।
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To post to this group, send email to sams...@googlegroups.com.
To unsubscribe from this group, send email to samskrita+...@googlegroups.com.
For more options, visit this group at http://groups.google.com/group/samskrita?hl=en.
धन्यवादाः।प्रमादः क्षम्यताम्। तथैव परिष्कृत्य पठनीयमित्यभ्यर्थये।