Groups
Groups
Sign in
Groups
Groups
samskrita
Conversations
About
Send feedback
Help
कस्याङ्गुलीयकम्
27 views
Skip to first unread message
संस्कृत संवादः
unread,
Aug 19, 2025, 5:50:12 AM
Aug 19
Reply to author
Sign in to reply to author
Forward
Sign in to forward
Delete
You do not have permission to delete messages in this group
Copy link
Report message
Show original message
Either email addresses are anonymous for this group or you need the view member email addresses permission to view the original message
to Samv...@googlegroups.com, संस्कृतसन्देशश्रेणिः samskrta-yUthaH
आसीत् कश्चन भिक्षुर्यः प्रातः पुण्यसलिलाया नद्यास्तटे स्नानार्थमागच्छतो जनानभिक्षत।एकदा तु सेवकगणपरिवृतो मणिभूषणविभूषितः कश्चिद्राजकुमारो वेगवन्तमश्वमारुह्य तत्र स्नातुमुपाजगाम।
स भिक्षुकः सर्वान् याचते स्म किन्तु धनवैभवशालिनं तं राजपुत्रमपश्यन्निव गच्छति स्म। स्वस्यावज्ञया किञ्चित्कुपितो राजकुमारस्तं भिक्षुकमाजुहाव।
राजकुमारः।
भो भो भिक्षुक इत इतः। किं मां सर्वसम्पन्नं महादातारमपि न पश्यसि यन्मां विहाय त्वमन्येभ्यो याचसे।
भिक्षुकः।
भोः कुमार कस्ते अभिप्रायः मां प्रति।
राजकुमारः।
किं न मां याचसे। कथं मामुपेक्षितुं प्रधृष्णोषि।
भिक्षुकः।
भवान् किमिव दद्यान्मे।
राजकुमारः।
अये दुष्ट किं मां कृपणं मन्यसे। मत्सन्निधौ कृतकृत्यो भविष्यसि। अहं राजपुत्रोऽस्मि। पश्येदं ममैकमेव महारत्नखचितं काञ्चनमयमुपाहितमङ्गुलीयकम्। यद्येतत्तुभ्यं दद्यां तर्हि तव सकलवर्षस्य भोजनचिन्ता दूरीभवेत्।
भिक्षुकः।
अनेन भवदीयेनाङ्गुलीयकेन मम किं प्रयोजनम्।
राजकुमारः।
किं मां केवलं वाचालं कल्पयसि। गृहाण तर्हीदम्। अधुनाप्रभृत्येषा मुद्रिका तवैव।
भिक्षुकः।
किं सत्यम् अस्याः स्वामित्वं मह्यं प्रयच्छसि।
राजकुमारः।
बाढम् इयं तवैव। यथेच्छं भुङ्क्ष्व।
इत्युक्ते सति भिक्षुकस्तां मुद्रिकां गृहीत्वैव तत्क्षणं पार्श्वस्थे सरसि अतिवेगेन निचिक्षेप। तद्विलोक्य राजकुमारो भृशं चुक्रोध।
राजकुमारः।
हा हा मूढमते अक्षैप्सीः। किं सर्वां बुद्धिं विक्रीय भिक्षणम् आचरसि। किमर्थं मम अङ्गुलीयकं तत्र अक्षैप्सीः। शीघ्रं ब्रूहि किमर्थमेवं कृतवानसि। नोचेत्त्वामप्यत्रैव जले निमज्ज्य मारयिष्यामि।
भिक्षुकः।
किं तद् भवतः अङ्गुलीयकम्। मया चिन्तितं यत्तस्य स्वामित्वं मह्यं ददासि। तथापि मा विषीद। यन्मया क्षिप्तं तल्लोष्टमात्रमासीत्। इदं भवदीयमङ्गुलीयकं ममान्यस्मिन् पाणौ सुरक्षितमस्ति। गृहाण स्वकम्। अहम् अन्यत्र गत्वा भिक्षे।
इत्युक्त्वा स भिक्षुको राजकुमारस्य हस्ते तत् प्रतिदाय गन्तुमैच्छत्। तदा राजकुमारो दत्त्वापि वस्तुनि स्वकीयं ममत्वं विज्ञाय नितरां लज्जितोऽभवत्।
राजकुमारः।
भो भो भिक्षुक तिष्ठ। मम अपराधः क्षम्यताम्। मयाद्य ज्ञातं यद् दानस्य सारो न वस्तुनि किन्तु त्यागे वर्तते। दत्त्वापि यन्ममत्वं नापयाति तद्दानं निष्फलमेव। भवान् न साधारणो भिक्षुः अपितु कश्चित् प्राज्ञ एव। कृपया मामज्ञं शिष्यं मत्वा ज्ञानोपदेशेन मामनुगृह्यताम्। इदं च स्वाङ्गुलीयकं गुरुदक्षिणारूपेण स्वीक्रियताम्।
ततः स प्रबुद्धो भिक्षुस्तं राजकुमारं शिष्यत्वेन स्वीकृत्य ज्ञानोपदेशेन तस्य चित्तमलं न्यवारयत्॥
स्वस्तिर्भवतु।
संस्कृत संवादः
https://linktr.ee/samvadah
Reply all
Reply to author
Forward
0 new messages