Jokes Sanskrit essay

31 views
Skip to first unread message

K.N.RAMESH

unread,
Jul 15, 2019, 11:45:01 PM7/15/19
to
*स्वर्वाणीप्रकाशः* (वाट्साप् गणः) 
🤣रविवासरः ज्येष्ठकृष्णषष्ठी (23-06-2019)😆
✍प्रस्तावविषयः-- हास्यकणिकाः😂
हास्यकणिकाः

  अस्माकं जीवने हास्यस्य प्राधान्यं अधिकं वर्तते।यतो हि तेन हास्येन बाधातप्तस्य जनस्य हृदयं आनन्देन विकसति। कदाचित् अस्माकं जीवने एव पश्यामः। पुनः अग्रिमे काले तद्हास्यप्रसङस्मरणेन हसामः। हासमेवानन्दो भवति। 

  मद्श्वशुरः हासभावं मुखे अप्रकटीकृत्यैव हास्यभाषणं कुर्वन्ति स्म। तेषां भाषणे वयं सत्यभ्रमां प्राप्नुवामः। विचिन्त्यैव तद्हास्येन प्रयुक्तः इति अस्माभिः ज्ञायते स्म। 

‌         एकदा ते तेषां मातुलगृहं गतवन्तःकिल।तदा सा मातुलानी अत्यन्तप्रेम्णा मद्श्वशुराय भोजयति किल। भुक्त्वा मद्श्वशुरवर्यः विश्रान्तः आसीत्।तदा तेषां मातुलः  गृहमागत्य मद्श्शूरमुद्दिश्य तव मातुलानी किं शाकादिकं कृतवती ते रुचिकराणि भवन्ति वा इति अपृच्छत् किल। तदा मद्श्वशुरः " मातुल! शाकानि स्वादिष्टानि। किन्तु जम्भीरसूपे तिन्त्रणीं न मिलितवती मातुलानी " इति अत्यन्तोदारमुखेन समाधानं दत्तवन्तः।तदा ते तां मातुलानीमुद्दिश्य " वशि!बद्धिमान्द्येन पचनं करोषि? रामः(मद्श्शुरः) बहुकालानन्तरं आगतवान्। तित्रिणीरसविहीनजम्भीरसूपं प्रपच्य कथं परिवेषितवतीति ?" इति कृद्धःसन् उच्चैरवदन्। तदा सा मातुलानी " स्वामिन्! रामस्य हास्यं भवान् न जानाति?‌ आम्लरसयुतजम्भीरे कोऽपि तिन्त्रणीं प्रक्षिपति?" इति अहसत् किल।😂

    तद्वदेव एकदा मद्श्वशूरः एकस्य शिष्यस्य गृहं गतवानासीत्। तदा तेषां गृहे नवोद्वाहितपुत्रवधू एवास्ति। भोजनाय सा पचनं करोति किल। तदा सा मद्श्वशुरं अपृच्छत्- " गुरवः! सूपे  लवणं कियत्परिमाणं कदा योजनीयम्? " इति।तदा मद्श्वशुरः अकथयत्"- वत्से!यदा सूपपात्रं चुल्लिकायां  स्थापयिष्यसि तदा एव तस्मिन् सूपे लवणमपि योजनीयम्। सूपस्य परिमाणं कियदस्ति तावदेव लवणमपि अपेक्षितम्"।इति अकथयत् किल।😀

   --बाला...✍️🌷🙏
Reply all
Reply to author
Forward
0 new messages