तत्त्वबिन्दुः - शब्दार्थयोस्सम्बन्धः

4 views
Skip to first unread message

श्रीमल्ललितालालितः

unread,
Dec 17, 2011, 5:38:11 AM12/17/11
to bhAratIya-vidvat-pariShat, Samskrita Google Group
तत्त्वबिन्दौ तावच्छब्दार्थयोसम्बन्धस्य स्वाभाविकत्वोपपादनायोक्तं -
"तत्रानादिवृद्धव्यवहारपरम्परायां पदतदर्थसम्बन्धबोधोपाये सति असत्यपि सम्बन्धरि शब्दादर्थप्रतीतेरुपपत्तेः , अर्थभेदनिरूपणस्य च ज्ञानभेदनिबन्धनत्वात् , ज्ञानभेदस्यार्थाभेदात्तदनभिधानेऽभिधानाभावात् , अर्थभेदाभिधाने वा तत एव सिद्धेस्तदभिधानानुपपत्तेः , तद्धेतुतया तु तत्कल्पने ताल्वादिव्यापारस्यापि वाच्यत्वप्रसङ्गात् , स्वाभाविकश्शब्दार्थयोस्सम्बन्ध - इति स्थितिः ।"
- इति ।
तत्र तत्त्वविभावना टीका नोपलभ्यते ।
टिप्पण्यां तु -
"वृद्धव्यवहारपरम्परारूपे शब्दार्थसम्बन्धज्ञानकारणे सति अनेन शब्देनायं बोध्य इत्युपदेष्टर्यसत्यपि बोधदर्शनात् , तत्तदर्थगतभेदप्रतिपादनस्य तत्तद्विषयकज्ञानाकारभेदप्रयुक्तत्वात् , ज्ञानगतवैलक्षण्यस्य विषयतासम्बन्धेन तत्तदर्थरूपतयाऽर्थाभेदात् , ज्ञानगतवैलक्षण्यस्य वस्तुतस्सत्त्वेऽपि तस्य बोधविषयत्वाभावेन पदेषु तत्तज्ज्ञानगतवैलक्षण्यनिरूपितशक्तेर्वक्तुमशक्यतया , अर्थानामिव तत्तदर्थगतवैलक्षण्यस्यापि वाच्यत्वाङ्गीकारे तावन्मात्रेण शक्त्यैवेतरव्यावृत्ततत्तदर्थविषयकशाब्दधिय उपपादयितुं शक्यतया , अन्वयांशे पदवाच्यताभ्युपगमवैयर्थ्यात् , अर्थगतवैलक्षण्यबोधस्य त्वन्वयप्रयोज्यत्वमात्रेण स्वरूपतोऽर्थाभेदात्तद्वैलक्षण्यनिर्वाहकान्वयांशस्यापि वाच्यत्वाभ्युपगमे भिन्नभिन्नार्थबोधकारणीभूतपदप्रत्यक्षकारणपदोच्चारणकुक्षिप्रविष्टताल्वादिव्यापारस्यापि परम्परयेतरव्यावृत्तार्थबोधं प्रत्युपयोगित्वेनानिष्टस्य वाच्यत्वस्यापत्तेः , शब्दार्थसम्बन्धस्स्वाभाविक एव - इति सिद्धान्त - इत्यर्थः"
- इत्युक्तम् ।
शब्दार्थयोस्सम्बन्धस्य स्वाभाविकत्वे हेतूनामन्वयः कथम् । हेतुग्रन्थानां वा कथं परस्परमन्वयः । टिप्पणी वा कथमपरार्द्धे मूलानुगा ।


श्रीमल्ललितालालितः

unread,
Dec 27, 2011, 12:51:46 AM12/27/11
to bvpar...@googlegroups.com, Samskrita Google Group
इयमत्र मे मतिर्निरूपिता शङ्कास्वरूपख्यापनाय । दृष्ट्वा स्वाभिमतं प्रकाशनीयं विद्वद्भिः
- इति ।
2011/12/17 श्रीमल्ललितालालितः <lalitaa...@lalitaalaalitah.com>

तत्त्वबिन्दौ तावच्छब्दार्थयोसम्बन्धस्य स्वाभाविकत्वोपपादनायोक्तं -
"तत्रानादिवृद्धव्यवहारपरम्परायां पदतदर्थसम्बन्धबोधोपाये सति असत्यपि सम्बन्धरि शब्दादर्थप्रतीतेरुपपत्तेः

अनादिवृद्धव्यवहारपरम्परात्मके शक्तिग्राहके सति शक्तेरप्यनादित्वात्स्वाभाविकत्वं सिद्ध्यति । अतो न पदतदर्थयोरर्वाचीनस्सम्बन्धोपदेष्टापेक्षितः ।
एतदेवोक्तं टिप्पणीकारेण -
वृद्धव्यवहारपरम्परारूपे शब्दार्थसम्बन्धज्ञानकारणे सति अनेन शब्देनायं बोध्य इत्युपदेष्टर्यसत्यपि बोधदर्शनात् । इति ।
अत्र पुनरियं शङ्का -
ननु येऽर्था इदानीमेव निर्मिता, यथा सङ्गणकादयः , विशिष्टशब्दवाच्यत्वेन च निर्दिष्टा , तेषां किं स्वाभिधायकैर्न सङ्गणकादिपदैः स्वाभाविकस्सम्बन्धः इति ।
 
, अर्थभेदनिरूपणस्य च ज्ञानभेदनिबन्धनत्वात् ,

ज्ञानगतभेदेनैवार्थभेदस्य निरूपणम् - अभिधानम् । यथा घटाकारज्ञानस्य पटाकारज्ञानाद् यो भेदस्तदधीन एव घटपटयोर्भेदस्य निश्चयस्ततश्च घटपदेन घटस्य पटभिन्नत्वेनाभिधानं , पटपदेन च पटस्य घटभिन्नत्वेन ।
एतदुक्तं - तत्तदर्थगतभेदप्रतिपादनस्य तत्तद्विषयकज्ञानाकारभेदप्रयुक्तत्वात् इति ।
अग्रिमग्रन्थदर्शने ज्ञायते यत् अर्थभेदनिरूपणस्य ज्ञानभेदनिरूपणाधीनत्वमेव विवक्षितम् । तथापि निश्चयो नात्र मे ।

ज्ञानभेदस्यार्थाभेदात्

अत्र टिप्पणीकारः -  ज्ञानगतवैलक्षण्यस्य विषयतासम्बन्धेन तत्तदर्थरूपतयाऽर्थाभेदात् इति ।
कथमेतत् ।
ज्ञानभेदस्यार्थभेदाधीनत्वमेव प्रतीयते , न त्वर्थात्मकत्वमपि । ज्ञानस्य विषयेण साकं विषयताख्यसम्बन्धसत्त्वेऽपि तद्गतवैलक्षण्यस्य तत्कथमुक्तं टिप्पणीकारेण ।
 
तदनभिधानेऽभिधानाभावात् ,

ज्ञानगतवैलक्षण्यस्य वस्तुतस्सत्त्वेऽपि तस्य बोधविषयत्वाभावेन पदेषु तत्तज्ज्ञानगतवैलक्षण्यनिरूपितशक्तेर्वक्तुमशक्यतया , - इति हि टिप्पणी ।
ज्ञाने वैलक्षण्यस्यार्थनिमित्तकस्य वस्तुतस्सत्त्वेपि शब्देनार्थस्येतरभिन्नत्वेनाभिधानस्याभावे ज्ञानगतवैलक्षण्यस्यानभिधानम् । घटज्ञानं वस्तुतः पटज्ञानाद्भिन्नं यद्यपि , तथापि घटशब्देन पटादिभिन्नत्वेन घटस्यानभिधाने घटज्ञानगतवैलक्षण्यस्याप्यनभिधानम् । ज्ञानगतवैलक्षण्यस्यार्थात्मकत्वात् । इति मूलस्यार्थः ।
टिप्पणी च -
इतरभिन्नत्वेनार्थानभिधाने ज्ञानभेदस्याप्यनभिधानाच्छब्दे ज्ञानभेदवाचकत्वं नास्ति - इतिपरा ।
ननु कस्यैतन्मतं यज्ज्ञानभेदोपि शब्दस्य वाच्य एव , यन्निराक्रियतेऽत्र इति ।
 
अर्थभेदाभिधाने वा तत एव सिद्धेस्तदभिधानानुपपत्तेः ,

पदेनेतरभिन्नतयार्थाभिधानस्वीकारे तु ज्ञानभेदस्यार्थभेदाभिधानेनैव सिद्धत्वात् , ज्ञानभेदस्य शब्देनाभिधानं न स्वीकार्यम् । अनन्यलभ्यस्यैव शब्दार्थत्वात् ।
अत्रैषा टिप्पणी - अर्थानामिव तत्तदर्थगतवैलक्षण्यस्यापि वाच्यत्वाङ्गीकारे तावन्मात्रेण शक्त्यैवेतरव्यावृत्ततत्तदर्थविषयकशाब्दधिय उपपादयितुं शक्यतया , अन्वयांशे पदवाच्यताभ्युपगमवैयर्थ्यात् , -इति  कथमन्वीयात् ।

तद्धेतुतया तु तत्कल्पने ताल्वादिव्यापारस्यापि वाच्यत्वप्रसङ्गात् ,

ज्ञानभेदसाधकत्वेन तु शब्दकल्पने । अन्यलभ्यस्यापि ज्ञानभेदस्यार्थभेदकत्वेन वाच्यत्वस्वीकारे इत्यर्थः । ताल्वादिव्यापारस्याप्यर्थभेदकस्य वाच्यत्वप्रसङ्गः ।
अत्र टिप्पणी -
अर्थगतवैलक्षण्यबोधस्य त्वन्वयप्रयोज्यत्वमात्रेण स्वरूपतोऽर्थाभेदात्तद्वैलक्षण्यनिर्वाहकान्वयांशस्यापि वाच्यत्वाभ्युपगमे भिन्नभिन्नार्थबोधकारणीभूतपदप्रत्यक्षकारणपदोच्चारणकुक्षिप्रविष्टताल्वादिव्यापारस्यापि परम्परयेतरव्यावृत्तार्थबोधं प्रत्युपयोगित्वेनानिष्टस्य वाच्यत्वस्यापत्तेः , -  इति मदीयां मतिमतीत्यैव स्थिता ।

स्वाभाविकश्शब्दार्थयोस्सम्बन्ध - इति स्थितिः ।"

किमेतत्स्वाभाविकत्वं नाम पदतदर्थयोस्सम्बन्धस्य । कथं वैतदुपपन्नं , नूतनवस्तूनां नूतनशब्देनाभिधाने स्वाभाविकत्वस्य वक्तुमयुक्तत्वात् । अनादित्वमपि कथं येन मीमांसकैरुपपाद्यते एतत् ।
Reply all
Reply to author
Forward
0 new messages