Learning together Sanskrit and GeetA (Chapter 1 verses -35 to 38) - Post # 22

45 views
Skip to first unread message

SL Abhyankar

unread,
Mar 21, 2011, 1:31:01 PM3/21/11
to sams...@googlegroups.com
नमो नमः !
सहर्षं निवेदयामि यत् http://study1geetaa2sanskrit.wordpress.com/ एतस्मिन् जालपुटे -
Learning together Sanskrit and GeetA (Chapter 1 verses -35 to 38) - Post # 22
संस्कृतभाषायाः तथा श्रीमद्भगवद्गीतायाः (अध्यायः १ श्लोकाः -३५ तः ३८) अध्ययनस्य द्वाविंशतितमः (२) सोपानः ।

उपरीकृतः अधुनैव ।
विद्वज्जनाः टीका-टिप्पणीभिः उपकुर्वन्तु कृपया ।
सस्नेहम्,
अभ्यंकरकुलोत्पन्नः श्रीपादः ।
"श्रीपतेः पदयुगं स्मरणीयम् ।"

hnbhat B.R.

unread,
Mar 22, 2011, 11:07:01 AM3/22/11
to S. L. Abhyankar, sams...@googlegroups.com

आततायिन् = 
आततेन = विस्तीर्णेन, उद्यतेन, शस्त्रखड्गादिना, अयितुं शीलमस्य - वधार्थमुद्यतः।
आततं यथा स्यात् तथा वा, अयितुं शीलमस्येति पूर्ववत्; 
who rounds up in order to murder(literally);  Technically it is defined as comprised of six types:

अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः।
क्षेत्रदारापहर्ता च षडेते ह्याततायिनः॥ (मनुः ८.३५०);

"आततायिनमायान्तं हन्यादेवाविचारयन्।
नाततायिवधे दोषो हन्तुर्भवति कश्चन॥"(मनुः तत्रैव)

"स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः।
अर्थशास्त्राच्च बलवद् धर्मशास्त्रमिति स्थितिः॥ (याज्ञवल्क्यः २.२१)
इति धर्मशास्त्रस्य बलवत्तरत्वात् पापप्राप्तिरेव बलीयसीति अभिप्रायः।

३-७ जनार्दन (= one, who hurts people, an epithet of Krishna) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि विशेषनाम अपि । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • ३-७-१ जनस्य अर्दनम् येन सः जनार्दनः । बहुव्रीहिः ।
  • ३-७-२ जनस्य "जन" (= people) इति पुल्लिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-७-३ अर्दनम् "अर्-द्" १प (= to afflict, to torment, to hurt) इति धातुः । तस्मात् नपुंसकलिङ्गि नाम "अर्दन" (= pain, affliction, hurting) । तस्य प्रथमा विभक्तिः एकवचनं च ।
  • ३-७-४ It is confusing how a word meaning "one, who hurts people" becomes also an epithet of Krishna.

1. अर्द हिंसायाम् चुरादिः;
जनान् -  देवविरुद्धान् असुरादीन्, अर्दयति पीडयतीति
जनम् = जननम्, अर्दयति - हिनसि, नाशयतीति वा;
जन्मसंसारबन्धनान् मोचयतीति यावत्;
कर्तरि ल्युः, 

2. अर्द गतौ प्रार्थने च -  भ्वादिः -

जनैः = अर्द्यते अधिकारिपुरुषैरभ्युदयादिकं प्रार्थ्यते इति वा जनार्दनः;
पुरुषार्थम्, अभ्युदयलक्षणनि:श्रेयसलक्षणं वा याच्यते इति शङ्कराचार्याः;
कर्मणि ल्युट्; 
अथवा,  
जनान् अर्दयति =
स्वस्वपापपुण्यानुसारेण नरकं वा स्वर्गं वा,  उत्तमां गतिं वा प्रापयति इति वा जनार्दनः;
 

३-२३ माधव (= one who is honey-like sweet, an epithet of Krishna) इति विशेषणम् । अत्र पुल्लिङ्गि विशेषनाम अपि । तस्य संबोधन-प्रथमा विभक्तिः एकवचनम् च ।

  • ३-२३-१ मधु इव इति माधवः ।

 Beautiful imagination, but bad etymology as it could not be supported by grammar.

Proper etymology that would be found everywhere for the word meaning Krishna, or Vishnu as:

मायाः = लक्ष्म्याः, धवः = पतिः - मा+धव = माधवः;

The other etymologies deriving the word from मधु would give many things related to honey or sweetness, but rarely found used for Krishna or Vishnu. Madhu means the मधु month, and dozens of meanings, epithets of different persons, etc.
 

३-२७ कुलक्षयकृतम् "कुलक्षयकृत" (= causing annihilation of lineage) इति सामासिकं विशेषणम् । अत्र पुल्लिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

  • ३-२७-१ कुलस्य क्षयः कुलक्षयः । षष्ठी-तत्पुरुषः ।
  • ३-२७-२ कुलक्षयः कृतः येन सः कुलक्षयकृतः । बहुव्रीहिः ।
  • ३-२७-३ कुलस्य "कुल" (= family, lineage) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-२७-४ क्षयः "क्षि" १, ५, ९ प (= to destroy) इति धातुः । तस्मात् पुल्लिङ्गि नाम "क्षय" (= destruction, annihilation) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
  • ३-२७-५ कृतः "कृ" ८ उ (= to do) इति धातुः । तस्मात् भूतकालवाचकं विशेषणम् "कृत" (= done) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

 
It is not बहुब्रीहि, in which case it would denote one who has committed the annihilation of his own genre. and could not be related to दोष as you have explained. But only तृतीया तत्पुरुषः, qualifying the दोष. The दोष the adverse effect of the कुलक्षय has been explained in the next three verse beginning with कुलक्षये प्रणश्यन्ति स्त्रियः etc. and the same is referred to here.
 
  • ३-२९-१ मित्रस्य द्रोहः मित्रद्रोहः । षष्ठी-तत्पुरुषः ।
  • ३-२९-२ मित्रस्य "मित्र" (= friend) इति नपुंसकलिङ्गि नाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।
  • ३-२९-३ द्रोहः "द्रुह्" ४ प (= to subvert) इति धातुः । तस्मात् पुल्लिङ्गि नाम "द्रोह" (= subversion, treachery) । तस्य प्रथमा विभक्तिः एकवचनम् च ।

मित्रेभ्यो द्रोहः = जिघांसा, द्रुह जिघांसायाम्, = intention of killing, treachery, in general betrayal of confidence of the friends. 

मित्राय द्रुह्यति ; 

३-३० च (= and) इति अव्ययम् ।
३-३१ पातकम् "पत्" १ प (= to fall) इति धातुः । तस्य प्रयोजकात् विशेषणम् तथा प्रायः नपुंसकलिङ्गि नाम अपि "पातक" (= what causes falling from grace) । तस्य द्वितीया विभक्तिः एकवचनम् च ।
३-३२ ज्ञेयम् "ज्ञा" ९ उ (= to know) इति धातुः । तस्मात् विध्यर्थवाचकं विशेषणम् तथा प्रायः नपुंसकलिङ्गि नाम अपि "ज्ञेय" (= what should be known or understood or thought of) । तस्य प्रथमा विभक्तिः एकवचनम् च ।
३-३३ अस्मात् "इदम्" (= this) इति सर्वनाम । अत्र नपुंसकलिङ्गि । तस्य पञ्चमी विभक्तिः एकवचनं च ।
३-३४ निवर्तितुम् "नि + वृत्" १ आ (= to withdraw, to stay away) इति धातुः । तस्मात् क्रियाविशेषणात्मकं तुमन्तं अव्ययम् "निवर्तितुम्" (= staying away) ।


The suffix तुमुन् = means only to convey the intention or purpose of another verb simultaneously performed in order. Here it means in order to stay away or avert the sin, why should we not understand the adverse effects of the total family lineage. and continues to enumerate the effects in oder in the next verses. 
  • ४-५ यदि अपि लोभोपहतचेतसः एते कुलक्षयकृतं दोषं मित्रद्रोहे पातकम् च न पश्यन्ति = Even if these, who are overcome with greed and do not see the sin devolving from faults of destroying the lineage and of subversion of friendship,
  • ४-६ जनार्दन, कुलक्षयकृतं दोषं प्रपश्यद्भि: अस्माभिः अस्मात् पापात् निवर्तितुम् कथं न ज्ञेयम् ? = oh Janardan, how come we, who can see the faults of destruction of lineage, do not understand staying away from the sin ?

Even though they do not see any sin in killing their friends and the destruction of their own clan as their mind is blurred with greed, why should we not know it, in order to avert this sin,  who can see the adverse effect of destruction of lineage.

शुभमस्तु ।

-o-O-o-


--
Dr. Hari Narayana Bhat B.R.
EFEO,
PONDICHERRY
Reply all
Reply to author
Forward
0 new messages