Vandeham skandamatram - Sanskrit

12 views
Skip to first unread message

K.N.RAMESH

unread,
Oct 21, 2021, 7:01:31 AM10/21/21
to
५.।।वन्देऽहं स्कन्दमातरम् ।।
  **********************
आभा स्वर्णमयी यस्यास्सर्वलोकेषु विद्यते ।
दुर्गायाः पञ्चमं रूपं प्रणौमि तत् पुनः पुनः ।।१।।
या चिच्छक्तिश्शिवस्यैव लोककल्याणकारिणी ।
स्कन्दस्य किल सा माता वन्देऽहं स्कन्दमातरम् ।।२।।
केसरीवाहनं यस्याश्चतुर्भुजा च धीश्वरी ।
दण्डयति हि दुष्टान् सा तां देवीं प्रणमाम्यहम् ।।३।।
करे स्कन्दं च नीत्वा सा सरसिजे च हस्तयोः ।
वरदहस्तमुद्राम्बां पद्मासनां विचिन्तये ।।४।।
या माता सर्वजीवेषु चेतना ज्ञायते किल ।
स्वभक्तानां सदा देवी सुबुद्धिदायिनी शुभा ।।५।।
लीला चानुपमा लोके क्रियते सततं यया।
दैत्यानां हि विनाशाय सम्भूयते युगे युगे ।।६।।
दुर्गा च पार्वती सैव सुखदा शैलजा तथा ।
सैव शिवप्रिया गौरी स्कन्दमात्रे नमोऽस्तु ते ।।७।।
आरोग्यदायिनी माता स्नेहमयी सदा शुभा ।
भद्रकाली च या माता सर्वसौभाग्यदायिनी ।।८।।
प्रियं हि भोजने मातुः पायसं शर्करायुतम् ।
सर्वफलेषु यस्यै च रोचते कदलीफलम् ।।९।।
कथं जाता यथा माता स्कन्दस्य च ब्रवीम्यहम् ।
दुर्गामातुस्स्वरूपं हि ध्यानेन शृणु बान्धव !।।१०।।
महत्तपः कृतं येन स आसीत् तारकासुरः ।
तपो दृष्ट्वा तथा ब्रह्मा प्रकटितो हि तत्क्षणे ।।११।।
वरं ब्रूहि महादैत्य याचस्व गौरवेण वै ।
प्रदास्यामि च तुभ्यं वै यद्वदसि हि मां प्रति ।।१२।।
इत्थमुवाच तं देवं तच्छ्रुत्वा तारकासुरः ।
अभिलषामि लोकेऽहममरत्वं पदं सदा ।।१३।।
ब्रह्मोवाच-
त्रिभुवनेषु या देवी दुर्गा माताऽजराऽमरा ।
तां विहाय च नास्त्येव कश्चिद्धि जगतीतले ।।१४।।
दुर्गा हि दुर्गमा लोके यस्या: कीर्तिश्च संसृतौ ।
तारकासुर ! तामेव सेवस्व मातरं सदा ।।१५।।
ब्रह्मणो वचनं श्रुत्वा निवेदयन्हि योऽसुर:।
मुक्तिकरं वरं देहि वाक्यमित्थमुवाच सः ।।१६।।
पुत्रो भवतु लोके च शिवगौरीसमन्वितः ।
मृत्युं तस्य करादेव वाञ्छामि हे जगत्पितः ।।१७।।
तथास्तु कथितं तेन दत्तं वै ब्रह्मणा वरम् ।
श्रीमातुश्चिन्तनं कुर्वन् ब्रह्मदेवो जगाम ह ।।१८।।
शिवगौरीविवाहेन बभूव लोकमङ्गलम् ।
स्कन्दपुत्रस्तदा जातस् तारकनाशनाय च ।।१९।।
गौरीमात्रा सुतोऽयं हि स शिक्षितोऽस्त्रविद्यया ।
तदर्थं स्कन्दमाता सा भुवनेषु प्रकीर्तिता ।।२०।।
कार्तिकेयस्तथा ज्ञेयस्स्कन्दस्यापरनाम हि ।
सेनापतिश्च देवानां जघान तारकासुरम् ।।२१।।
कण्ठचक्रं यथा ज्ञेयं नवचक्रेषु पञ्चमम् ।
विशुद्धचक्रनाम्ना तत् तथा जानन्ति साधकाः ।।२२।।
चक्रेऽस्मिन्हि भवत्येव षोडशदलपङ्कजम् ।
यद्ध्यात्वा प्राप्यते लोको गत्वा निवर्तते न हि ।।२३।।
अकारः प्रथमो वर्णः व्यञ्जनस्य च वर्तते ।
शीतोष्णसुखदुःखानि चेच्छा सत्त्वरजस्तमाः ।।२४।।
प्राप्य चाकाशतत्त्वं तत् समर्थास्सन्ति योगिनः।                
विन्दन्ति सर्वसिद्धीश्च नात्र च कोऽपि संशयः ।।२५।।
शुभ्रज्योत्स्ना हि या तत्र दृश्यते चैव योगिभिः ।
ध्यानं च स्कन्दमातुस्ते कुर्वन्ति योगिनस्सदा ।।२६।।
या देवी सर्वलोकेषु विद्यते शुभदा सदा ।
भुक्तिमुक्ती सदा दत्ते तां ध्यायामि हि मातरम् ।।२७।।
धन्या सा स्कन्दमातेति धन्यस्स्कन्दसुतो महान् ।
धन्या जाता शिवानीयं चरितं लिखितं यया ।।२८।।
   (अनुष्टुप्छन्दः)
डा. शिवानी शर्मा, जयन्तीपुरं,हरियाणाराज्यम् ।
************************
Reply all
Reply to author
Forward
0 new messages