अथ स्त्रीणां जातिचतुष्टयप्रकरणम् ।
पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा ।
प्रत्येकं च वरस्त्रीणां ख्यातं जातिचतुष्टयम् । । २९ । ।
पद्मिनी यथा भवति कमलनेत्रा नासिकादूर्ध्वरन्ध्रा अविरलकुचयुग्मा दीर्घकेशा कृशाङ्गी । । ३० । ।
मृदुगमनसुशीला नृत्यगीतानुरक्ता सकलगुणसुवेषा पद्मिनी पद्मगन्धा । । ३१ । ।
शशिवदना बिम्बौष्ठी तन्वी ताम्रनखी तथा ।
मन्दगा लज्जिता श्यामा रक्तप्रान्तविलोचना । । ३२ । ।
गायनी सुरताढ्या च पारावतकलस्वना ।
स्वल्पाहारा सुकेशी च पद्मगन्धा च पद्मिनी । । ३३ । ।
चित्रिणी यथा भवति विपुलकेशा नातिदीर्घा न खर्वा तिलकुसुमसुनासा स्निग्धदेहोत्पलाक्षी । । ३४ । ।
कठिनघनकुचाढ्या सुन्दरी बन्धशीला निखिलगुणविचित्रा चित्रिणी चित्रवेषा । । ३५ । ।
गौराङ्गी त्यक्तलज्जा च बाह्यसंभोगसंरता ।
उत्तानशायिनी चोष्णा पारावतकलस्वना । । ३६ । ।
स्निग्धाङ्गी मांसगन्धा च स्वल्पकामा कृशोदरी ।
धूर्ता गुरुनितम्बा च चित्रिणी श्रीफलस्तनी । । ३७ । ।
दीर्घाकृतिदीर्घसुवर्णनेत्रा दीर्घाधरा दीर्घनितम्बबिम्बा ।
लेषातपालङ्कृतकण्ठदेशा पुंसैकचित्ता खलु शङ्खिनी स्यात् । । ३८ । ।
शोभना कोमला चोष्णा दीर्घा दीर्घशिरोरुहा ।
मृद्वङ्गी क्षारगन्धा च नातिस्थूला न दुर्बला । । ३९ । ।
गौराङ्गी तीक्ष्णनासा च पीनस्तनी विचक्षणा ।
विशालजघना क्रूरा सुरताढ्या च शङ्खिनी । । ४० । ।
हस्तिनी यथा स्थूलाकृतिः स्थूलपयोधरा च स्थूलाधरा स्थूलनितम्बबिम्बा ।
कामोत्सुका गाढरतिप्रिया च मध्ये च पुष्टा करिणी मता च । । ४१ । ।
स्थूला कठिनकुचा क्रूरा नात्युष्णा नातिशीतला ।
गौराङ्गी क्षीणनासा च पीनस्तनविलक्षणा । । ४२ । ।
विशालजघना क्रूरा फुल्लनासातिशीतला ।
खर्वा च खर्वनासा च बहुलोमा च कामुकी । । ४३ । ।
मदगन्धतनुर्नित्यं मत्तमातङ्गगामिनी ।
लुब्धा पीनस्तनी क्रुद्धा हस्तिनी सा प्रकीर्तिता । । ४४ । ।
पद्मिनी पिकवाणी च स्निग्धवाणी च चित्रिणी ।
शङ्खिनी क्रूरवाणी च मेघवाणी च हस्तिनी । । ४५ । ।
पद्मिनी पादशोभा च केशशोभा च चित्रिणी ।
शङ्खिनी मुखशोभा च कटिशोभा च हस्तिनी । । ४६ । ।
पद्मिनी पद्मगन्धा च क्षीरगन्धा च चित्रिणी ।
शङ्खिनी मीनगन्धा च मदगन्धा च हस्तिनी । । ४७ । ।
पद्मिनी पद्मनिद्रा च दीर्घनिद्रा च चित्रिणी ।
शङ्खिनी घोरनिद्रा च गजनिद्रा च हस्तिनी । । ४८ । ।
पद्मिनी पद्मबन्धेन नागबन्धेन चित्रिणी ।
शङ्खिनी मीनबन्धेन गजबन्धेन हस्तिनी । । ४९ । ।
पद्मिनी स्वल्पभोगा च लघुभोगा च चित्रिणी ।
शङ्खिनी बहुभोगा च गजभोगा च हस्तिनी । । ५० । ।
शशकः पद्मिनीं चैव चित्रिणीं च मृगस्तथा । । ५१ । ।
शङ्खिनीं वृषभश्चैव हस्तिनीं तु हयस्तथा ।
रमते तुल्यभावेन तदा समरतं भवेत् । । ५२ । ।
उच्चनीचातिनीचं च तथात्युच्चं च वर्जितम् । । ५३ । ।
ख्यातं समरतं चैव तद्विरहत्यन्यथा स्त्रियः । । ५४ । ।
इति स्त्रीणां जातिचतुष्टयम् ।
Regards
G Joshi
> --
> You received this message because you are subscribed to the Google Groups "samskrita" group.
> To post to this group, send email to sams...@googlegroups.com.
> To unsubscribe from this group, send email to samskrita+...@googlegroups.com.
> For more options, visit this group at http://groups.google.com/group/samskrita?hl=en.
>
- prouDha etc, based on certain classification,
- vasakasajjika etc, based on another,
- padminI etc based on yet another classification....
the author states that if we need to know total number of combinations, we need to basically multiply the number from each of these classifications (permutations & combinations).
So, I am trying to say that - for an alankara treatise it is considered a valid classification. It must be in use.
स्वाधीनपतिकोत्का च तथा वासकसज्जिका ।
सन्धिता विप्रलब्धा च खण्डिता चाभिसारिका । । १.७२ । ।
प्रोषितप्रेयसी चैवं नायिकाः पूर्वसूचिताः ।
ता एवात्र भवन्त्यष्टाववस्थाभिः पुनर्यथा । । १.७३ । ।
यस्या रतिगुणाकृष्टः पतिः पार्श्वं न मुञ्चति ।
विचित्रविभ्रमासक्ता स्वाधीनपतिका यथा । । १.७४ । ।
लिखति कुचयोः पत्रं कण्ठे नियोजयति स्रजं
तिलकं अलिके कुर्वन्गण्डादुदस्यति कुन्तलान् ।
इति चटुशतैर्वारं वारं वपुः परितः स्पृशन्
विरहविधुरो नास्याः पार्श्वं विमुञ्चति वल्लभः । । १.७४अ । । (Sकं ६६१)
उत्का भवति सा यस्याः सङ्केतं नागतः प्रियः ।
तस्यानागमने हेतुं चिन्तयन्त्याकुला यथा । । १.७५ । ।
किं रुद्धः प्रियया कयाचिदथवा सख्या तयोद्वेजितः
किं वा कारणगौरवं किं अपि यन्नाद्यागतो वल्लभः ।
इत्यालोच्य मृगीदृशा करतले संस्थाप्य वक्त्राम्बुजं
दीर्घे निःश्वसितं चिरं च रुदितं क्षिप्ताश्च पुष्पस्रजः । । १.७५अ । ।
भवेद्वासकसज्जासौ सज्जिताङ्गरतालया ।
निशित्यागमनं भर्तुर्द्वारेक्षणपरा यथा । । १.७६ । ।
दृष्ट्वा दर्पणमण्डले निजमुखं भूषां मनोहारिणीं
दीपार्चिःकपिशं च मोहनगृहं त्रस्यात्कुरङ्गीदृशा ।
एवं नौ सुरतं भविष्यति चिरादद्येति सानन्दया
मन्दं कान्तदिदृक्षयातिललितं द्वारे दृगारोपित्म् । । १.७६अ । । (Sकं ६५७)
निरस्तो मन्युना कान्तो नमन्नपि यया पुनः ।
दुःस्थिता तं विना साति- सन्धिताभिमता यथा । । १.७७ । ।
यत्पादप्रणतः प्रियः परुषया वाचा स निर्वारितो
यत्सख्या न कृतं वचो जडतया यन्मन्युरेको धृतः ।
पापस्यास्य फलं तदेतदधुना यच्चन्दनेन्दुद्युति
प्रालेयाम्बुसमीरपङ्कजविसैर्गात्रं मुहुर्दह्यते । । १.७७अ । । (Sकं ६७४)
प्रेष्य दूतीं स्वयं दत्त्वा सङ्केतं नागतः प्रियः ।
यस्यास्तेन विना दुःस्था विप्रलब्धा तु सा यथा । । १.७८ । ।
यत्सङ्केतगृहं प्रियेण कथितं सम्प्रेष्य दूतीं स्वयं
तच्छून्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भग्नाशया ।
स्थानोपासनसूचनाय विगलत्सान्द्राञ्जनैर्लोचनैर्
भूमावक्षरमालिकेव लिखिता दीर्घं रुदत्या शनैः । । १.७८अ । । (Sकं ६७०)
कुतश्चिन्नागतो यस्या उचिते वासके प्रियः ।
तदनागं असन्तप्ता खण्डिता सा मता यथा । । १.७९ । ।
सोत्कण्ठं रुदितं सकम्पं असकृद्यातं सबाष्पं चिरं
चक्षुर्दिक्षु निवेशितं सकरुणं सख्या समं जल्पितम् ।
नागच्छत्युचितेऽपि वासकविधौ कान्ते समुद्विग्नया
तत्तत्किंचिदनुष्ठितं मृगदृशा नो यत्र वाचां गतिः । । १.७९अ । । (Sकं ६६९)
या निर्लज्जीकृता बाढं मदने मदनेन च ।
अभियाति प्रियं साभि- सारिकेति मता यथा । । १.८० । ।
नो भीतं तडितो दृशा जलमुचा तद्दर्शनाकाङ्क्षया
नो गर्जिर्गणिता भृशं श्रुतिमुखं तद्वाचि संचिन्त्य च ।
धारापातसमुद्भवा न च मता पीडा तदालिङ्गनं
वाञ्छन्त्या दयिताभिसारणविधौ तन्व्या परं तत्परम् । । १.८०अ । ।
कुतश्चित्कारणाद्यस्याः पतिर्देशान्तरं गतः ।
दत्त्वावधिं भृशार्ता सा प्रोषितप्रेयसी यथा । । १.८१ । ।
उत्क्षिप्यालकमालिकां विलुलितां आपाण्डुगण्डस्थला
द्विश्लिष्यद्वलयप्रपातभयतः प्रोद्यम्य किञ्चित्करौ ।
द्वारस्तम्भनिषण्णगात्रलतिका केनापि पुण्यात्मना
मार्गालोकनदत्तदृष्टिरबला तत्कालं आलिङ्ग्यते । । १.८१अ । । (Sकं ७६३)
रुद्रभट्ट शृङ्गारतिलक gives this classification based on the abovementioned वासकसज्जिका etc. as mentioned by vishvanath
padmini, hastini etc is a classification based on jAti and not avastha. Rati manjari describes them thus - <skipped>. More details can be obtained from kama shastra.
shrImiMchu padminIbhAmAmaNi kinuMDu -This is describing vishnu as the husband of lakshmi, a padmini jAti shtrI, who is the giver of wealth ...