श्रीरामस्यैकपत्नीव्रतविमर्शः शङ्करस्य च पार्वतीनिष्ठा।

5 views
Skip to first unread message

संस्कृत संवादः

unread,
Jul 1, 2026, 11:30:40 PM (2 days ago) Jul 1
to Samv...@googlegroups.com, संस्कृतसन्देशश्रेणिः samskrta-yUthaH
जना दाशरथिं राममेकपत्नीनिष्ठत्वेन कथं पूजयन्तीत्येतन्मम मतिमतिक्रामति। तस्य पूजनस्यैतन्मूलकारणमहं न पश्यामि। तस्य पूजनायान्ये बहवो हेतवो विद्यन्ते। स वानरसेनां सङ्गृह्य वानराशनान् राक्षसान् जघान। एतत्तादृशमेव साहसं यादृशं कश्चिद्वृषभो मूषकसेनां निर्माय सिंहतुल्यरावणेन पोषितान् मार्जारान् प्रति युयुत्सेत तत्रापि च विजयं लेभे। किञ्च स मुहूर्त्तत्रयमात्रेणैवाखिलेरण्ये चतुर्दशसहस्रराक्षसानेकाक्येव जघान। स्वभार्याया एकेनैव वचनेन स काञ्चनमृगमन्वससार। स स्वभार्यां रक्षितुं सुमित्रानन्दनेन सुन्दरीरूपधारिण्याः शूर्पणखाया नासिकाकर्णौच्छेदयामास। अथ किमर्थमहमेकभार्यानिष्ठापूजनहेतुं न पश्यामीति वच्मि।

अयोध्यापुनरागमनात्कतिपयमासानन्तरमेव जानकी गर्भिणी बभूव। तदर्थं जना आक्षेपं चक्रुः। स्वप्रतिष्ठारक्षणार्थं तां शुद्धां मत्वा ज्ञात्वापि स तां तत्याज। एतदेव मनुजचरित्रम्। स यज्ञेषु काञ्चनमयीं सीतां निर्माय स्वप्रयोजनं साधयामास। तेन ज्ञायते यत्स पुनर्विवाहं न चकार। परन्तु स किमर्थं न चकार। तस्य पिता दशरथोऽपि त्रिवारं विवाहं चकार। दाशरथिश्च सुज्ञातः पितृपूजकः। तत्र कारणमात्मग्लानिरेवास्ति। यदि स गर्भिणीं सीतां नात्यक्ष्यत्तर्हि स पुनर्विवाहं नूनमेवाकरिष्यदिति मम मतिः। तव देहं त्यजामि परन्तु हृदयेन न त्यजामीति स्वप्रेम दर्शयितुमेषैव पुरुषप्रवृत्तिर्विद्यते। यथा च कविकुलगुरुकालिदासरचिते रघुवंशे निगदितम्।

सीतां हित्वा दशमुखरिपुर्नोपयेमे यदन्यां
तस्या एव प्रतिकृतिसखो यत्क्रतूनाजहार ।
वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः
सा दुर्वारं कथमपि परित्यागदुःखं विषेहे॥


स एव दाशरथिर्वासुदेवदेहं धृत्वा सीतां रुक्मिणीरूपिणीं पुनर्विवाह्य जाम्बवत्यादीरपि स्वीचकार। किं स आत्मानं न जज्ञावहमस्मि राम इति। कथमहं पुनर्विवाहं कुर्यामिति। स विवाहसमये सम्यग्जज्ञौ यदहमेव दाशरथिरेषैव रुक्मिणी च सीतास्मिन् युगे इति। तर्हि स एव दाशरथिः स एवात्मा सैव स्मृतिः पुनः किमर्थमन्यां भार्यां जग्राह। किं देहपरिवर्तनेनात्मनः परिवर्तनमपि भवति। यदि वस्तुतः कश्चिदेकपत्नीनिष्ठो वर्तते स वर्तते महादेवः शिवः। शिवस्य गुणं विष्णौ नारोपयितुमर्हामः। सत्या मृत्योरनन्तरं कथं तस्या देहं धृत्वा स इतस्ततो बभ्राम शोकं च चकार तन्महदद्भुतम्। तस्यां दिवङ्गतायां कथं हतोत्साहः स पुनर्विवाहं न करिष्यामीति सङ्कल्पं चकार। केवलं देवानामेवावरोधनेन स पुनर्विवाहार्थं सज्जो बभूव। तदपि स तयैव सत्या पार्वतीरूपधरया विवाहं चकार नान्यया कदाचिदपि। रामचरितमानसे यदि कश्चिच्छिवविवाहपाठं पठेत् तर्हि स तत्प्रेम तद्दुःखं च ज्ञातुं शक्नोति॥

#Sanskritartcles @samvadah

स्वस्तिर्भवतु।
संस्कृत संवादः
https://linktr.ee/samvadah


Reply all
Reply to author
Forward
0 new messages