Atalaloka varnanam Sanskrit poem

15 views
Skip to first unread message

K.N.RAMESH

unread,
Oct 23, 2021, 7:14:18 AM10/23/21
to
🌷🌷🌷🌷🌷🌷🌷🌷
।।अतललोकवर्णनम् ।।
🌷🌷🌷🌷🌷🌷🌷🌷
जम्बुद्वीपे च वर्तन्ते सुन्दरास्सप्तपर्वताः ।
जानन्तु तांश्च सर्वान्वै बोधयामि पुनस्तथा ।।१।।
हिमावान् हेमकूटश्च मेरुश्च निषधस्तथा ।
नीलश्श्वेतस्तथैवं च शृङ्गवानपि पर्वतः ।।२।।
सप्तद्वीपाश्च वर्तन्ते सप्ताब्धिभिस्तु चावृता ।
वर्णयामि च नामानि धैर्येण हि पठन्तु वै ।।३।।
जम्बूद्वीपः कुशद्वीपः शाकः क्रौञ्चस्तथैव च ।
गोमेदश्शाल्मलिश्चैव पुष्करो हि शुभस्तथा ।।४।।
पुण्या भूमिरस्माकं वै पवित्रास्सप्तसागराः ।
सप्तद्वीपैरपेक्षायां द्विगुणिताश्च सागराः ।।५।।
क्षारो दुग्धं सुरा चैव दधिः घृतं च वै यथा ।
स्वादुजलेन युक्तो हि वै क्षीरसागरस्तथा ।।६।।
सप्तलोकास्सदा ज्ञेयाः भूर्भुवस्स्वस्तथा ।
महो जनस्तपो लोकस्सत्यलोको विशिष्यते ।।७।।
सप्तपाताललोकास्सन्ति च नरपुङ्गवाः ।
एते भूविवराश्चैव स्वर्गादपि वरोत्तमाः ।। ८।।
अतलं वितलं ज्ञेयं सुतलं च तलातलम् ।
महातलं च पातालं रसातलं च सुन्दरम् ।।९।।
दैत्याश्च दानवा नागा निवसन्ति च तलेषु वै ।
कामभोगैस्तथैश्वर्यैः सुसमृद्धा हि सर्वदा ।।१०।।
तलावस्थानमेवञ्च दससहस्रयोजनम् ।
प्रत्येकं विस्तृतं चैव धनधान्यसमन्वितम् ।।११।।
पुर्यो विनिर्मिता यत्र मायाविना मयेन च ।
नानामणिप्रवरैश्च भवनानि गृहाणि च ।।१२।।
कुसुमफलयुक्तानि वै उद्यानानि सन्ति हि ।
सुशोभितेषु वृक्षेषु निवसन्ति शुकादयः ।।१३।।
विहङ्गमजलाशया अमलजलपूरिताः ।
प्रमुदिताश्च सर्वे तं दृष्ट्वा मायाविनोदिनः ।।१४।।
नानापानं च कुर्वन्ति दिव्यौषधरसायनम् ।
तान्प्राणिनश्च दैत्यान्वै जराव्याधिर्न बाधते ।।१५।।
प्रकाशो नास्ति सूर्यस्य मणयस्सन्ति केवलम् ।
नागमणिप्रकाशेन सर्वं तमो विनश्यति ।।१६।।
मयदानवपुत्रो वै अथातले बलो यथा ।
षण्णवतिप्रकारेण मायाः रचितवान् सः ।।१७।।
सुन्दराः पुरुषाश्चात्र सुन्दर्यो योषितश्शुभाः ।
तद् हाटकरसं पीत्वा हि मदान्धाश्च भवन्ति ते ।।१८।।
अहं सिद्धश्च भोगी वै अहमीश्वर एव च ।
प्रलपन्ति तु चेत्थं हि मायाविनः परस्परम् ।।१९।।
मृत्युं करोति तेषां तु विष्णुचक्रसुदर्शनम् ।
आप्नुवन्ति च ते मोक्षं विष्णुलोकं च यान्ति हि ।।२०।।
शास्त्रेषु वर्णनं चास्य विस्तृतं लिखितं यथा ।
संक्षेपेण शिवान्या वै अतलं वर्णितं तथा ।।२१।।
  ( अनुष्टुप् छन्दः ) 
डा. शिवानी शर्मा, जयन्तीपुरम्, हरियाणा ।
Reply all
Reply to author
Forward
0 new messages