Nasadiya Sukta in Part 4 of RV with Sayana Bhashya

58 views
Skip to first unread message

Mohan Chettoor

unread,
Oct 26, 2021, 11:34:50 AM10/26/21
to sams...@googlegroups.com


Nasadiya Sukta

नासदासीनो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् ।

किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहन गभीरम् ॥१॥ 


न। असत् । आसीत् । नो इति । सत् । आसीत् । तदानीम् । न । आसीत् । रजः । नो इति । विऽऔम । परः । यत् । किम् । आ। अवरीवरिति । कुह । कस्य । शर्मन् । अम्भः। किम् । आसीत् । गहनम् । गभीरम्॥१॥


'तपसस्तन्महिनाजायतैकम् ' इत्यादिनाग्रे सृष्टिः प्रतिपादयिष्यते। अधुना ततः प्रागवस्था निरस्तसमस्तप्रपश्चा या प्रलयावस्था सा निरूप्यते। तदानीं प्रलयदशायामवस्थितं यदस्य जगतो मूलकारणं तत् असत् शशविषाणवनिरुपाख्यं vन Vआसीत् । न हि तादृशात् कारणादस्य सतो जगत उत्पत्तिः संभवति । तथा vनो 'सत् नैव सदात्मवत् सरवेन निर्वाच्यम् आसीत् । यद्यपि सदसदात्मकं प्रत्येक विलक्षणं भवति तथापि भावाभावयोः सहावस्थानमपि संभवति । कुतस्तयोः तादात्म्यमिति उभयविलक्षणमनिर्वाच्यमेवासीदित्यर्थः । ननु नो सदिति पारमार्थिकसत्वस्य निषेधः। तात्मनोऽप्यनिर्वाच्यत्वप्रसङ्गः। अथोच्येत । न । आनीदवातमिति तस्य सत्वमग्रे वक्ष्यते परिशेषामायाया एवान सत्वं निषिध्यत इति । एवमपि तदानीमिति विशेषणानर्थक्यं व्यवहारदशायामपि

------------------------------------------------------------------------------------------

१. त१.२.३.६.७.८-भ-एषो।   २. ग-त-भ२.५-सद्भावावस्थानमपि।   ३.ग-त१.२.३.६.७.भ-'न' नास्ति ।


७७८                                                                                [म. ८. अ. ६. व. ६

तस्याः पारमार्थिकसरवाभावात् । अथ व्यावहारिकसतां पृथिव्यादीनां भावाना विद्यमानत्वात् कथं नो सदिति निषेधः। तत्राह । उनासीदज इत्यादि। 'लोका रजांस्युच्यन्ते' (निरु. ४. १९) इति यास्कः । अत्र च सामान्यापेक्षमेकवचनम् । व्योनो वक्ष्यमाणत्वात्तस्याधस्तनाः पातालादयः पृथिव्यन्ता नासमित्यर्थः । तथा vव्योम अन्तरिक्षं तदपि vनो नेवासीत्। पर इति सकारान्त परस्तादित्यर्थे वर्तते। परशब्दारछान्दसोऽस्तातेरर्थेऽसिप्रत्ययः। vपरः व्योनः परस्तादुपरिदेशे घुलोकप्रभृतिसत्यलोकान्तं श्यत् अस्ति तदपि नासीदित्यर्थः । अनेन चतुर्दशभुवनगर्भ ब्रह्माण्डं स्वरूपेण निषिद्धं भवति । अथ तदावरकत्वेन पुराणेषु प्रसिद्धानि यानि वियदादिभूतानि तेपामवस्थानप्रदेशं तदावरणनिमित्तं चाक्षेपमुखेन क्रमेण निषेधयति किमावरीवरिति । किम् आवरणीयं तस्वमावरकभूतजातम् Vआवरीवः । अस्यन्तमावृणुयात् । आवार्याभावात् तदावरकमपि नासीदित्यर्थः ॥ वृणोतेर्यङ्लुगन्ताच्छान्दसे लडि तिपि रूपमेतत् ॥ यद्वा । किमिति प्रथमैव । किं तत्वमावरकमावृणुयात् । आश्रियमाणवत्तदपि स्वरूपेण नासीदित्यर्थः। आवृण्वत् तत्तवं कुह कुत्र देशेऽवस्थायावृणोति । आधारभूतस्तादशो देशोऽपि नासीदित्यर्थः ॥ किंशब्दान् सप्तम्यर्थे हप्रत्ययः । 'कु तिहोः' (पा. सू. ७.२.१०४) इति प्रकृतेः क्वादेशः । एकस्य Vशर्मन् कस्य वा भोक्तुर्जीवस्य शर्मणि सुखदुःखसाक्षात्कारलक्षणे भोगे निमित्तभूते सति तदावरकं तवमावृणुयात् । जीवानामुपभोगार्था हि सृष्टिः । तस्यां हि सत्यां ब्रह्माण्डस्य भूतैरावरणं प्रलयदशायां च भोकारो जीवा उपाधिविलयात् प्रलीना इति कस्य कश्चिदपि भोक्ता न संभवतीत्यावरणस्य निमित्ताभावादपि तन घटत इत्यर्थः । एतेन भोग्यप्रपञ्चवत् भोक्तृप्रपञ्चोऽपि तदानीं नासीदित्युनं भवति ॥ किंशब्दा. दुत्तरस्य सः ‘सावेकाचः' इति प्राप्तस्योदात्तस्वस्यः 'न गोश्वनसाववर्ण' इति प्रतिषेधः। 'सुपा सुलुक्" इति शर्मणः सप्तम्या लुक् । यद्यपि सावरणस्य ब्रह्माण्डस्य निषेधेन तदन्तर्गतमप्सत्त्वमपि निराकृतं तथापि 'आपो वा इदमग्रे सलिलमासीत् ' (तै. सं. ७. १.५.१) इति श्रुत्या कश्चिदपां सद्भावमाशङ्केत । तं प्रत्याचष्टे अम्भः किमासीत् इति । . गहनं दुष्प्रवेशं गभीरं दुरवस्थानमत्यगाधम् ईरशम् अम्भः किमासीत् । तदपि नैवासीदित्यर्थः। श्रतिस्ववान्तरप्रलयविषया ।।


न मृत्युरासीदमृतुं न तर्हि न राच्या अह आसीत्प्रकेतः।

आनीदवातं स्वधया तदेकं तस्माद्यन्यन्न परः किं चनास ॥२॥ 


न । मृत्युः । आसीत् । अमृतम् । न । तर्हि । न । रात्र्याः । अहः । आसीत् । प्रऽकेतः । आनीत । अवातम् । स्वधा । तत् । एकम् । तस्मात् । ह । अन्यत् । न । परः । किम् । चन । आस ॥२॥


ननूक्तस्य प्रतिसंहारस्य संहपेक्षरवात् स एव संहर्ता मृत्युर्विद्यत इत्यत माह vन vमृत्युरासीत् इति । ननु यदि स नासीत् तर्हि तदभावकृतम् अमृतम् अमरणं प्राणिनामवस्थानं तदानीमपि

१. त-'सत्त्वाभावात् इति तु न प्रलयदशाया एव वर्णनीयत्वेन तदुपादानौचित्यात् तदानीमपि तत्सत्वेन तदबाधात्। २. त१.३-भावाना तदामि; त७-भावानां तदपि । ३. ग-त१.२.३.०७.८. भ-तदावरणत्वेन; त४.५-तदावरत्वेन । ४. त२.७-भ२.४.८-तद्रक्षकमपि; त३.८-भ५-तत्रक्षकमपि3; त६-ततक्षकमपि। ५. त१.३.७-भ२.८-मु-शर्मणि सुखे। ६. ग-त१.२.३.६.७.८-भ-मु-प्रविलीना। ७. ग-कस्यचिदपि भागो; त१.७-भ२.४.७.८-कस्यचिदपि भोगो; त२.३.६.८-कास्यचिदपि भोगो। 4. ग-त४.५-भर प्राप्तस्योदात्तस्य; त१.२.३.६.७.८-भ-मु-प्राप्तस्य । ९. ता.२.६.७-भ२.८- मप्तत्वमपित-महत्वमपि, त५-'माप्राप्तत्वमपि; तभ३- मतस्वमपि; भ४..-'मसस्वमपि ।


म. १०. अ. ११. सू. १२९]             अष्टमोऽष्टकः                                          ७७९

स्यात् तबाह । अमृतं vन Vतर्हि इति । तर्हि तस्मिन् प्रतिहारसमये । अयं भावः। सर्वेषां प्राणिनां परिपकं भोगहेतुभूतं सर्व कर्म यदोपभुक्तमासीत् तदा भोगाभावानिष्प्रयोजनमिदं जगदिति परमेश्वरस्य मनसि संजिहीर्पा जायते । तथैव स मृत्युः सर्व जगत् संहरत इति किमनेन मृत्युना संहा तदभावकृतं वा कथममरणं स्यादिति । एतदेवाभिप्रेत्य कठैराम्नायते-'यस्य ब्रह्म च क्षत्रं चोभे भवत भोदनः। मृत्युर्यस्योपसेवनं क इस्था वेद यत्र सः' (क. उ. २. २५) इति । नन्वेतस्य सर्वस्याधिकरणभूतः कालो विद्यत इत्यत आह न राण्या इति । रात्र्याः अह्रः च "प्रकेतः प्रज्ञानं vन vआसीत् । तद्धेनुभूतयोः सूर्याचन्द्रमसोरभावात् । एतेनाहोरात्रनिषेधेन तदात्मको मासर्तुसंवत्सरप्रभृतिकः सर्वः कालः प्रत्याख्यातः । कथं ताहे नो सदासीत्तदानीमिति कालवाची प्रत्ययः । उपचारादिति बमः। यथेदानीतननिषेधस्य कालोऽवच्छेदकस्तथा मायापि तदवच्छेदहेतुरित्यवच्छेदकरवसाम्येनाकालेऽपि कालवाची प्रत्ययः । यदवादिष्म ब्रह्मणः परमार्थसस्वमग्रे वक्ष्यत इति तदिदानी दर्शयत्यानीदिति । एतत् सकलवेदान्तप्रसिद्धं ब्रह्मतत्वम् vआनीत् प्राणितवत् । नन्वेवं प्राणनकर्तुर्जीवभावापन्नस्यैव ब्रह्मणः सवं स्यात् न विवक्षितस्य निरुपाधिकस्य ब्रह्मणः। 'अप्राणो ह्यमनाः शुद्धः' इति तस्य प्राणसंबन्धाभावात् तबाह आनीदवातमिनि । अयमाशयः। आनीदिस्यत्र धात्वर्थक्रिया तस्कर्ता तस्य च भूतकालसंबन्ध इति त्रयोऽर्थाः प्रतीयन्ते । तत्र समुदायो न विधीयते यथानेयोऽष्टाकपाल इति येन ब्रह्मणः सत्वं न स्यात् । किं नमुनेन कर्तृत्वमनूद्य भूनकालसत्तालक्षणो गुणो विधीयते दक्षा जुहोतीति वाक्यान्तरविहिताग्निहोत्रानुवादेन तत्र गुणविधानम् । तत्राप्यनेन कर्तृत्वविशिष्टस्य न पूर्वकालसत्ता विधीयते' तनिषेधानुपपत्तिप्रसङ्गात् अतोऽनेन कर्तृत्वेन इदानींतनेनोपलक्षितं यनिरुपाधिकं परं ब्रह्म तस्यैव भूतकालसत्ता विधीयत इति न कश्चिदोष इति । नन्वीदृशस्य ब्रह्मणो मायया सह संबन्धासंभवात् सांख्याभिमता स्वतन्त्रा सपा सत्वरजस्तमोगुणास्मिका मूलप्रकृतिरेवाभिमतेति कथं नो सदिति निषेधः । तत्राह vस्वधया इति । स्वस्मिन् धीयते ध्रियत आश्रित्य वर्तत इति स्वधा माया। तया तद्बह्मैकमविभागापनमासीत् । 'सहयुक्तेऽप्रधाने ' (पा. सू.२.३.१९) इति तृतीया सहशब्दयोगाभावेऽपि सहायोगे भवति 'वृद्धो यूना' (पा. सू. १. २. ६५) इति निपातनाल्लिङ्गात् । अत्र प्रकृतिप्रत्ययाभ्यां तस्याः स्वातन्त्र्यं निवार्यते । यद्यपि असतस्य ब्रह्मणस्तया सह संबन्धो न संभवति तथापि तस्मिन्नविद्यया तत्स्वरूपमिव संबन्धोऽप्यध्यस्यते यथा शुक्तिकायां रजतस्य । एतेन सदपत्वमपि तस्याः प्रत्याख्यातम् । ननु यदि माया ब्रह्मणा सहाविभागापना तर्हि तस्या अनिर्वाच्यस्वात् ब्रह्मणोऽपि तत्प्रसङ्ग इति कथं तस्य सत्वमुक्तम् आनीदवातमिति । ब्रह्मणो वा सत्वात्तस्या अपि सत्वप्रसङ्ग इति कथं नो सदासीदिति सत्वप्रतिषेधः । मैवम् । अयुक्तिदृष्टयैक्यावभासेऽपि युक्त्या विविच्य मायांशस्यानिर्वाच्यत्वं ब्रह्मणः सत्वं च प्रतिपादितम् । ननु रहश्याविति द्वावेव पदार्थों भानीदवातं स्वधयेति तो चेदङ्गीक्रियेते तस्किमपरमवशिष्यते यत् नासीद्रजः इत्यादिना प्रतिषिध्येत सत्राह तस्मादिति । एतस्माद्ध तस्मात् खलु पूर्वोक्तान्मायासहितात् ब्रह्मणः vअन्यत् किं vचन किमपि वस्तु भूतभौतिकात्मकं जगत् न vआस न बभूव ।। 'छन्दस्युभयथा' इति लिटः सार्वधातुकरवादस्ते भावाभावः ॥ ननु तदानीमन्यस्य सत्वनिषेधो न शक्यः। असवे चाप्रसक्तत्वान' निषेधोपयोग इत्यत आह पर इति । vपरः परस्तात् सृष्टेरूवं वर्तमानमिदं जगत् तदानीं न बभूवेत्यर्थः । अन्यथा उक्तरीत्या वचिदपि निषेधो न स्यादिति भावः॥

१. त१.२.३.४.५.६.८-भ२.८-मृत्युत्वं; भ४-मृत्य; भ७-मृत्युदकं । २. १.२.३.६.७.८-भसंहियते; त४.५-संहृत। ३. भ२-यथा दना। ४. त-भ-विधीयते वा। ५. त२.३.६.७.८-म ४.५.७.८-किं। ६.त१७-भ२.५-मु-अनुभवदृष्टया ऐक्यावभासेपि; त२.३.६.८-भट-अनुभवदृष्ट्या ऐक्यावभावेपि; त४.५-अयुक्तिवत् दृष्ट्या ऐक्यावभासे पि; भा-अनुभवदृष्टया ऐक्याभावेपि। ७. ता. ५-एव प्रेरकत्वान। ८. त-भ-उक्तनीत्या ।

७८०                                                                                               [अ. ८ अ. ७. व. १७ 


तम आसीत्तमसा गूळ्हमोऽप्रकेतं सलिलं सर्वमा इदम् ।

तुच्छयेनाम्वपिहितं यदासीत्तपसस्तन्महिनाजायतकम् ।। ३ ।।


तमः । आसीत् । तमसा । गूळ्हम् । अz। अप्रऽकेतम् । सलिलम् । सर्वम् । आः । इदम् तुच्छयेन । आभु । अपिऽहितम् । यत् । आसीत् । तपसः । तत् । महिना । अनायत । एकम् ॥ ३ ॥


ननूनप्रकारेण यदि पूर्वमिदं जगन्नासीत् कथं तर्हि तस्य जन्म । जायमानस्य जनिक्रियायां कर्तृत्वेन कारकत्वात् कारकं च कारणावान्तरविशेष इति कारकस्य सतो नियतपूर्वक्षणवर्तित्वस्य अवश्यंभावात् । अर्थतहाषपरिजिहीर्पया जनिक्रियायाः प्रागपि तद्विद्यत इत्युच्यते । कथं तस्य जन्म । अत आह तमसा गूळ्हमग्रे इति । अग्रे सृष्टेः प्राक् प्रलयदशायां भूतभौतिक सर्व जगत् 'तमसा गृहम् । यथा नैशं तमः सर्वपदार्थजातमावृणोति तद्वत्। आत्मतत्वस्यावरकरवान्मायापरसंज्ञं भावरूपाज्ञानमत्र तम इत्युच्यते । तेन तमसा निगृढ़ संवृतं कारणभूतेन तेनाच्छादितं भवति । आच्छादकात् तस्मात्तमसो नामरूपाभ्यां यदाविभवनं तदेव तस्थ जन्मेत्युच्यते । एतेन कारणावस्थायाम. सदेव कार्यमुत्पद्यते इत्यसद्वादिनोऽसत्कार्यवादिनो ये मन्यन्ते ते प्रत्याख्याताः । ननु कारणे तमसि तजगदात्मकं कार्य विद्यते चेत् कथं नासीद्रज इत्यादिनिषेधः । तत्राह Vतम vआसीत् इति । तमो भावरूपाज्ञानं मूलकारणम् । तदुपता तदात्मनाम् । यतः सर्व जगत् प्राक् तम आसीदतो निपिध्यत इत्यर्थः। नन्वावरकस्वादावरकं तमः कर्तृ आवायवाजगत्कर्म । कथं तयोः कर्मकोंस्तादात्म्यम् । तत्राह अप्रकेतमिति । Vअप्रकेतम् अप्रज्ञायमानम् । अयमर्थः । यद्यपि जगतस्तमयश्च कर्मकर्तृभावो पौक्तिको विद्यते नथापि व्यवहारदशायामिव तस्यां दशायां नामरूपाभ्यां विस्पष्टं न ज्ञायत इति तादात्म्यवर्णनम् ।। अत एव मनुना स्मयते-'आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतळमनिर्देश्यं प्रसुप्तमिव सर्वतः' (मनु. १.५) इति । कुतो वा न प्रज्ञायते तत्राह । 'सलिलम् । ' पल गती'। औणादिक इलच् । Vइदं दृश्यमानं 'सर्व जगत् सलिलं कारणेन संगतमविभागापन्नम् Vआः भासीत् । अस्तेर्लङि तिपि 'बहुलं छन्दसि' इतीडभावे 'हल्याभ्यः' इति तिलोपे 'तिप्यनस्तेः' (पा. सू. ८. २.७३) इति पर्युदासाहकाराभावः। यद्वा सलिलमिति लुप्तोपमम् । सलिलमिव । यथा क्षीरेणाविभागापमं नीरं दुर्विज्ञान तथा तमसाविभागापन्नं जगन्न शक्यविज्ञानमित्यर्थः। ननु विविधविचित्ररूपभूयसः प्रपञ्जस्य कथमतितुच्छेन तमसा क्षीरेण नीरस्येवाभिभवः। तथा तमोऽपि क्षीरवठ्ठलवदित्येवोच्यते। तर्हि दुर्बलस्य जगनः सर्गसमयेऽपि नोद्भवसंभव इत्यत आह तुच्छयेन इति । आ समन्ताद्भवतीति Vाभु तुच्छयेन। छान्दसो यकारोपजनः । तुच्छेन तुच्छकल्पनेन सदसद्विलक्षणेन भावरूपाज्ञानेन अपिहितं छादितम् आसीत् । दधातेः कर्मणि निष्ठा। दधातेहि । 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । 'एकम् एकीभूतं कारणेन तमसाविभागतां प्राप्तमपि तरकार्यजातं तपसः स्रष्टव्यपर्यालोचनरूपस्य vमहिना माहात्म्येन 'अजायत उत्पन्नम्। तपसः स्रष्टव्यपर्यालोचनरूपत्वं चान्यत्राम्नायते-'यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः' (मु. उ. १.१.९) इति ॥


१. त-इत्युच्येत । २. त४.५.भ२-इत्यादिना तनिषेधः। ३. त-भ२.४.८-विविधविचित्रभूयसः । ४. त१.२.....-भ५-यत्पर्यालोचनरूपत्वं परमेश्वस्य तपः तस्य महिना महिना महत्वेन । छादसो वर्णलोपः। अजायत तस्मात्तमोरूपात् कारणात् पुनः प्रादुरासीत् । परमेश्वरस्य तपसः स्रष्टव्यपर्यालोचनरूपले; त३.४.५.८-भ२.४.८-यत् पर्यालोचनरूपत्वं ।


म. १०. अ. ११. सू. १२९]              अष्टमोऽष्टका                                                         ७८१


कामस्तदने समवर्तताधि मनसो रेतः प्रथमं यदासीत् ।

सतो बन्धुमसति निरविन्दन् हृदि प्रतीष्या कवयो मनीषा ॥ ४ ॥


कामः । तत् । अप्रै । सम् । अवर्तत । अधि । मनसः । रेतः । प्रथमम् । यत् । आसीत् । सतः । बन्धुम् । असति । निः । अविन्दन् । हृदि । प्रतिऽइयं । कवयः । मनीपा ॥ ४ ॥


ननूक्तरीत्या यदीश्वरस्य पालोचनं जगतः पुनरुत्पत्ती कारणं तदेव' किंनियन्धनमित्यत आह कामस्तदन इति । अग्रे अस्य विकारजातम्य सृष्टेः प्रागवस्थायां परमेश्वरस्य मनसि Vकामः "समधर्तत सम्यगजायत । सिसृक्षा जातेत्यर्थः। ईश्वरस्य सिसृक्षा वा किंतुकेत्यत आह मनस इति । vमनसः अन्तःकरणस्य संबन्धि वासनाशेषेण मायायां विलीनेऽन्तःकरणे समवेतम्। सामान्यापेक्षमेकवचनम् । सर्वप्राण्यन्तःकरणेषु समवेतमित्यर्थः। एतेनास्मनो गुणाधारत्वं प्रत्याख्यातम् । तादृशं "रेतः भाविनः प्रपञ्चस्य बीजभूतं प्रथमम् अतीते कल्पे प्राणिभिः कृतं पुण्यात्मकं कर्म यत् यतः कारणात् सृष्टिसमये आसीत् अभवत् । भूष्णु वर्धिष्ण्वजायत परिपक्कं सत् फलोन्मुखमासीदित्यर्थः । तत्ततो हेतोः फलपदस्य सर्वसाक्षिणः कर्माध्यक्षस्य परमेश्वरस्य मनसि सिसृक्षा अजायतेत्यर्थः । तस्यां च जातायां स्रव्यं पर्यालोच्य ततः सर्व जगत् सृजति । तथा चाम्नायते-'सोऽकामयत बहुः स्यां प्रजायेयेति म तपोऽनप्यत स तपस्तएवेदं सर्वमसृजत यदिदं किंच' (ते. आ. ८. ६) इति श्रुतिः। आत्मनेत्थमवगभितेऽर्थ विद्वदनुभवमप्यनुग्राहकत्वेन प्रमाणयति सन इति । Vसतः सत्वेन इदानीमनुभूयमानस्य सर्वस्थ जगतः Vबन्धु बन्धकं हेतुभूतं कल्पान्तरे प्राण्यनुष्ठितं कर्मसमूह कवयः क्रान्तदर्शना अतीतानागतवर्तमानाभिज्ञा योगिनः हृदि हृदये निरुद्धया मनीपा मनीपया बुद्धया। 'सुपां सुलु' इति नृनीयाया लुक् । प्रतीध्य विचार्य । 'अन्येपामपि” इति माहितिको दीर्घः । 'असति सद्विलक्षणेऽव्याकृते कारणे निरविन्दन् निष्कृप्यालभन्त । विविच्याजानन्नित्यर्थः ।।


तिरश्चीचीनो विततो रश्मिरैषामधः स्विदासी३दुपरि स्विदासी३त् ।

रेतोधा सन्महिमान आसन्त्स्व॒धा अवस्तात्प्रय॑तिः पुरस्तात् ॥ ५॥


तिरश्चीनः। विऽततः। रश्मिः । एषाम् । अधः । स्वित् । आसी३त्। उपारि । स्वित् । आसी३त् । रेतःऽधा: । आसन् । महिमान: । आसन् । स्वधा । अवस्तात् । प्रऽयतिः । पुरस्तात् ॥५॥ 


एवमविद्याकामकर्माणि मृष्टेहेंदुत्वेनोक्तानि । अधुना तेषां स्वकार्यजनने शैघ्यं प्रतिपाद्यते । येयं नासदासीदित्यविद्या प्रतिपादिता यश्च कामस्तदने इति कामो मनसो रेतः प्रथमं यदासीदिति यत्कर्म vएपाम् अविद्याकामकर्मणां वियदादिभूतजातानि सृजतां रश्मिः रश्मिसदृशो यथा सूर्यरश्मिः उदयानन्तरं निमेपमात्रेण युगपत् सर्व जगत् व्याप्नोति तथा शीघ्रं सर्वत्र व्याप्नुवन् यः कार्यवर्गः विततः विस्तृतः आसीत् । स्त्रिदासीत् इति वक्ष्यमाणमत्रापि संबध्यते। 'विचार्यमाणानाम् । (पा. सू. ८. २. ९७) इति प्लुतः । तत्रोदात्त इत्यनुवृत्तेः स चोदात्तः। स्वित् इति वितकें। स कार्यवर्गः'प्रथमतः किं तिरश्चीनः तिथंगवस्थितो मध्ये स्थित आसीत् किंवा 'अधः अधस्तान Vासीत् । आहोस्वित् Vउपरि उपरिष्टात् किमासीत् । 'उपरि स्विदासीदिति च ' (पा. सू. ८.२. १०२) इत्यनुदात्त: प्लुतः । 'आत्मन आकाशः संभूत आकाशाद्वायुयोरग्निः ' (ते. आ.6.1) इत्यादिकया पञ्चमीश्रत्या तत उद्गातारं ततो होतारमितिवत् क्रमप्रतिपत्ती सत्यामपि विद्यत्प्रकाशवत्

-------------------

१. त-भ-तदेव वा।    २. भ२-पुण्यापुण्यात्मकं ।



७८२

ऋग्वेदः

[अ. ८. अ. ७. व. १७

सगस्य शीवण्यापनेन' तस्य क्रमस्य दुर्लक्षणस्वादेतेपु त्रिषु स्थानेषु प्राथम्यं कुत्रेति विचार्यते। एवं नाम शीघ्र सर्वतो दिनु सों निष्पन्न इत्यर्थः । एतदेव विभजते । सृष्टेषु कार्येषु मध्ये केचिनावाः रेतोधाः रेतसो बीजभूतस्य कर्मणो विधातारः कर्तारो भोक्तारश्च जीवा: vआसन् अन्ये भावाः vमहिमानः । स्वार्थिक इमनिच् । महान्तो वियदादया भोग्याः आसन् । एवं मायासहितः परमेश्वरः सर्व जगत् सृष्ट्वा स्वयं चानुप्रविश्य भोक्तृभोग्यादिरूपेण विभागं कृतवानित्यर्थः । अयमेवार्थस्तैतिरीयके 'तत्सृष्टा तदेवानुप्राविशत्' (ते. आ. ८. ६) इत्यारभ्य प्रतिपाद्यते । तत्र च भोकभोग्ययोमध्ये स्वधा । अन्ननामैतत् । भोग्यप्रपञ्चः Vअवस्तात् अवरो निकृष्ट आसीत्। vप्रयतिः प्रयतिता भोक्ता vपरस्तात् पर उत्कृष्ट आसीत् । भोग्यप्रपञ्च भोक्तृप्रपञ्चस्य शेषभूतं कृतवानित्यर्थः । विभाषा परावराभ्याम् ' (पा. सू. ५. ३. २९) इति प्रथमार्थे अस्तातिः। 'अस्ताति च' (पा. सू. ५. ३. ४०) इत्यवरशब्दस्यावादेशः । अवस्तादिति संहितायाम् ईपाअक्षादित्वात् प्रकृतिभावः॥


को अद्धा वेद क इह प्र वोचत्कुत आजाता कुत इयं विसृष्टिः ।

अर्वाग्देवा अस्य विसर्जनेनाथा को वैद यत आबभूव ॥ ६ ॥ 


कः । अद्धा । वेद । कः । इह । प्र । वोचत् । कुतः । आऽजाता। कुतः । इयम् । विऽसृष्टिः । अर्वा । देवाः । अस्य । विसर्जनेन । अर्थ । कः । वेद । यतः । आऽबभूव ॥ ६ ॥

एवं भोक्तृभोग्यरूपेण सृष्टिः संग्रहेण प्रतिपादिता। 'एतावद्वा इदमन्नं चैवान्नादश्च सोम एवानमनिरन्नाद'(श. बा.१ .४.२ १३) इतिवत् । अथेदानी मा सृष्टुिर्विज्ञानेनि न विस्तरेणाभिहितेत्याह को अद्धेति । एकः पुरुषः अद्धा पारमार्थेन vवेद जानाति । 'कः वा Vइह अस्मिल्लोके v vवोचत् प्रब्रयात् । इयं दृश्यमाना विसृष्टिः विविधा भूतभौतिकभोक्तभोग्यादिरूपेण बहुप्रकारा सृष्टिः कुतः कस्मादुपादानकारणात् । कुतः कस्माञ्च निमित्तकारणात् 'आजाता समन्ताजाताप्रादुर्भूता । एतदुभयं सम्यक को वेद को वा विस्तरेण वकुं शक्नुयादित्यर्थः । ननु देवाः अजानन्तः। सर्वज्ञास्ते ज्ञास्यन्ति वक्तं च शक्नुवन्तीत्यत आह अर्वागिति । vदेवाः च अस्य जगतो विसर्जनेन वियदादिभूतोत्पत्यनन्तरं विविधं यदानिक सर्जनं सृष्टिस्तेन vअर्वाक् अर्वाचीनाः कृताः। भूतमृष्टेः पश्चाजाता इत्यर्थः । तथाविधास्ते कथं स्वोत्पत्तेः पूर्वकालोनां सृष्टिं जानीपुः । अजानन्तो वा कथं प्रयुः। उक्तं दुर्विज्ञामवं' निगमयति । अथ एवं सति देवा अपि न जानन्ति किल'। तद्यतिरिक्तः एकः नाम मनुष्यादिः vवेद तजगत्कारणं जानाति vयतः कारणात् कृत्स्नं जगत् Vबभूव अजायत॥


इयं विसृष्टिर्यत आवभव यदि वा दधे यदि वा न ।

यो अस्याध्यक्षः परमे व्योमन्त्सो अङ्ग वैद यदि वा न वेद ॥७॥ 


इयम् । विऽसृष्टिः । यतः । आऽवभव । यदि । वा । दधे । यदि । वा । न । यः । अस्य । अधिऽअक्षः । परमे । विऽऔमन् । सः । अङ्ग । वेद । यदि । वा । न । वेद ॥७॥


उक्तप्रकारेण यथेदं जगत्सर्जनं दुर्विज्ञानं एवं सृष्टं तजगत् दुर्धरमपीत्याह इयमिति । यतः उपादानभूतात् परमात्मनः Vइयं विसृष्टिः विविधा गिरिनदीसमुद्रादिरूपेण विचित्रा सृष्टिः

१. त४.५-भ७-शीघ्रन्यापने। २. ग-भ-शक्ष्यतीत्यत। ३. ग-त१.२.३.६.७.८म-दुर्ज्ञानत्वं । ४. त१.२.३.६.७.८-भ-'किल' नास्ति । ५. ग-त२.३.६.७.८-आजायत । ६. त-भ-'यतः' नास्ति ।


म. १०. अ. ११. सू. १३०]                अष्टमोऽष्टका                          ७८३


vभावभूव आजाता सोऽपि किल यदि वा दधे धारयति यदि चा vन धारयति । एवं च को नाम अन्यो धतुं शक्नुयात् । यदि धारयेदीश्वर एव धारयेबान्य इत्यर्थः। एतेन कार्यस्य धारयितृत्वप्रतिपादनेन ब्रह्मण उपादानकारणावमुक्तं भवति। तथा च पारमार्ष सूत्रं-'प्रकृतिश्च प्रतिज्ञारष्टान्तानुपरोधात् ' (वे. सू. १.४.२३) इति । यद्वा । अनेनार्धन पूर्वोक्तं सृष्टेदुनिस्वमेष त्यति । को वेदेश्यनुवर्तते । इयं विविधा सृष्टिः यत आबभूव आ समन्तादजाययेति को वेद । न कोऽपि । नास्स्येव जगतो जन्म न कदाचिदनीहश जगदिति बहवो भ्रान्ता भवन्स्यपि। यतः। 'जनिकर्तुः प्रकृतिः ' (पा. सू. १.४.३०) इस्यपादानसंज्ञायां पक्षम्यास्तसिल् । यस्मात् परमात्मन उपादानभूनादाबभूव तं परमात्मानं को वेद । न कोऽपि । प्रकृतिनः परमाणुभ्यो वा जगजन्मेति हि बहवो भ्रान्ताः । तथा स एवोपादानभूतः परमात्मा स्वयमेव निमित्तभूतोऽपि सन् यदि वा दधे विदधे इदं जगत् ससर्ज यदि वा न ससर्ज । असंदिग्धे संदिग्धवचनमेतच्छास्त्राणि चेत्प्रमाणं स्युरिति यथा । स एव विदधे । नं को वेद । अजानन्तोऽपि बहवो जडात् प्रधानादकर्तृकमेवेदं जगत् स्वयमजायतेति विपरीतं प्रतिपन्ना विदधनो विधानमजानन्तोऽपि । स एव उपादानभून इत्यपि को वेद। न कोऽपि । उदानादन्यः तटस्थ एवेश्वरी विदधे इति हि बहवः प्रतिपन्नाः । देवा अपि यन्त्र जानन्ति तदर्वाचीनानामेव तत्परिज्ञाने कैव कथेत्यर्थः । यद्येवं जगत्सृष्टिरत्यन्तदुरवबोधा न तर्हि सा प्रमाणपतिमध्यास्त इत्याशक्य तत्सद्भाव ईश्वरमेव प्रमाणयति यो अस्येति । अस्य भूतभौतिकास्मकम्य जगतः Vयः अध्यक्षः ईश्वरः Vपरमे उत्कृष्टे सत्यभूते Vव्योमन् व्योमन्याकाशे आकाशवनिर्मले स्वप्रकाशे। यद्वा ॥ अवतेस्तर्पणार्थात् 'अन्येभ्योऽपि दृश्यन्ते' इति मनिन् । 'नेड्वशि कृति' इनीट्नतिषेधः। ' ज्वरस्वर' इत्यादिना वकारोपधयोः उट् । सप्तम्या लुक् । 'न हिसंबुद्धयोः' इति नलोपप्रतिषेधः।। व्योमनि विशेषेण तृप्ते। निरतिशयानन्दस्वरूपे इत्यर्थः । यद्वा। अवतिगत्यर्थः । व्योमनि विशेषेण गते व्याप्ते। देशकालवस्तुभिरपरिच्छिन्न इत्यर्थः। अथवा। अवतिज्ञानार्यः । व्योमनि विशेषेण ज्ञातरि विशिष्टज्ञानात्मनि । ईदृशे स्वात्मनि प्रतिष्ठितः । श्रूयते हि सनत्कुमारनारदयोः संवादे-'स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि' (छा. उ. ७.२५.१) इति । ईदृशो यः परमेश्वरः ।सो अङ्ग अङ्गति प्रसिद्धी। सोऽपि नाम 'वेद जानाति । यदि भवा vन vवेद न जानाति । को नाम अन्यो जानीयात् । सर्वज्ञ ईश्वर एवं तां सृष्टिं जानीयात नान्य इत्यर्थः ॥ ॥१७॥

'यो यज्ञः ' इति सप्तर्च द्वितीयं सूक्तं प्रजापतिपुत्रस्य यज्ञास्यस्यार्पम् । आधा जगती शिष्टा. भिः । अनापि यज्ञादीनां केपांचिद्रावानां सृष्टिः प्रतिपाद्यते । अतः स्रष्टव्यत्वेन प्रधानभूतो योऽर्थः सैव देवता। तस्कर्ता प्रजापतिरेव देवता। तथा चानुकान्तं-'यो यज्ञा यज्ञः प्राजापत्यो जगत्याचा' इति । गतो विनियोगः॥


shyampraneth sharma avadhani

unread,
Oct 26, 2021, 1:32:25 PM10/26/21
to sams...@googlegroups.com
Sir please can you send complete suktam?

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/samskrita/CAAdWWbeJKaPt536nLyVB%3DHkeyeQqPE2YwjV4XZKTq3TZcF7cfg%40mail.gmail.com.

Mohan Chettoor

unread,
Oct 27, 2021, 12:22:02 AM10/27/21
to sams...@googlegroups.com
I understand I have sent the full suktham. 

एकादशेऽनुवाके त्रयोविंशतिसंख्याकानि सूनानि । तत्र 'नासदासीत् ' इति सप्तचं प्रथम सूक्तं त्रैष्टभम्। परमेष्ठी नाम प्रजापतिऋषिः । वियदादिभावानां सृष्टिस्थितिप्रलयादीनामत्र प्रतिपावरवात् तेषां' कर्ता परमात्मा देवता। तथा चानुकान्तं--'नासत्सप्त प्रजापतिः परमेष्टी भाववृत्तं तु' इति । गतो विनियोगः ॥

As per the above para, Nasadiya Sukta contains 7 slokas('नासदासीत् ' इति सप्तचं प्रथम सूक्तं). Please correct me if I am wrong.

Mohan Chettoor.



Mohan Chettoor

unread,
Oct 27, 2021, 12:25:42 AM10/27/21
to sams...@googlegroups.com

Sir,

I understand I have sent the full suktham. 

एकादशेऽनुवाके त्रयोविंशतिसंख्याकानि सूक्तानि । तत्र 'नासदासीत् ' इति सप्तचं प्रथम सूक्तं त्रैष्टभम्। परमेष्ठी नाम प्रजापतिऋषिः । वियदादिभावानां सृष्टिस्थितिप्रलयादीनामत्र प्रतिपावरवात् तेषां' कर्ता परमात्मा देवता। तथा चानुकान्तं--'नासत्सप्त प्रजापतिः परमेष्टी भाववृत्तं तु' इति । गतो विनियोगः ॥

As per the above para, Nasadiya Sukta contains 7 slokas('नासदासीत् ' इति सप्तचं प्रथम सूक्तं). Please correct me if I am wrong.

Mohan Chettoor.


On Tue, Oct 26, 2021 at 11:02 PM shyampraneth sharma avadhani <aspsh...@gmail.com> wrote:

Shambhu Shastry

unread,
Oct 30, 2021, 11:45:50 AM10/30/21
to sams...@googlegroups.com
Seven riks but the below samhitaa paata seems to have quite a few errors (pada paata seems correct). Here is the samhitaa paata and two renditions of its recitation: https://www.aurobindo.ru/workings/matherials/rigveda/10/10-129.htm 

Mohan Chettoor

unread,
Oct 31, 2021, 12:09:35 PM10/31/21
to sams...@googlegroups.com
Thanks for the link, sir. Regarding the errors, I had already explained the shortcomings in this process. I am well aware of such pitfalls and potholes. Your kind attention is drawn to the note attached to my explanatory para in this matter, which is reproduced below:

Note:
1. The process may seem to be time-consuming and laborious and unless you have patience, there is every likelihood of the same being dropped half-the-way.
2. The letters are sensed, recognised and picked up by the artificial intelligence and the success of the process entirely depends upon the clarity and quality of the matter to be copied. There is every chance of some portion of/or the entire matter  not being able to be copied.
3. Most importantly, there is every possibility of some letters or alphabets being wrongly copied or omitted. You have to physically compare the matter with the original lest we get a faulty product.
4. This will not work in the case of PDF documents which are locked or password-protected.

Mohan chettoor

Reply all
Reply to author
Forward
0 new messages