तिङ सिद्धि

已查看 58 次
跳至第一个未读帖子

mukesh patel

未读,
2014年9月16日 03:03:292014/9/16
收件人 sams...@googlegroups.com
तिङ सिद्धि प्रसंगे परस्मैपदे लटि तस्, थस्, वस् च मस् इत्येषु सकारस्य लोप न भवति " न विभक्तौ तुस्मा:" इत्येन कारणेन। स् -> रु-> :

किन्तु लङ, लोट, लिङ च इत्येषु तु वस् च मस् इत्यनयो: स्थाने लोप भवति एव। किमर्थम् एवं? किम् तौ विभक्ते न स्त:?

अन्य: प्रश्न:।
लङ लकारे य: अकार धातो: आदौ विहित: तत्कृते किम् सूत्रम् ?

Hnbhat B.R.

未读,
2014年9月16日 22:21:282014/9/16
收件人 sams...@googlegroups.com
2014-09-16 12:33 GMT+05:30 mukesh patel <thehal...@gmail.com>:
तिङ सिद्धि प्रसंगे परस्मैपदे लटि तस्, थस्, वस् च मस् इत्येषु सकारस्य लोप न भवति " न विभक्तौ तुस्मा:" इत्येन कारणेन। स् -> रु-> :


"न विभक्तौ तुस्माः॥ १।३।४"
इत्यनेन कारणेन, तवर्ग-सकार-मकाराणाम् इत्संज्ञा न भवति, तेन " १.३.९ तस्य लोपः"  इति सूत्रेण तस्य लोपो न भवति इत्येवार्थः।

 
किन्तु लङ, लोट, लिङ च इत्येषु तु वस् च मस् इत्यनयो: स्थाने लोप भवति एव। किमर्थम् एवं? किम् तौ विभक्ते न स्त:?

 
विभक्ती एव, वस्, मस् इति। तत्र तयोः,  विभ्क्तौ, इतसंज्ञायाः अभावात्  १.३.९ "तस्य लोपः" इति सूत्रेण लोपो न भवत्येव। किं तु, ङकारानुबन्धेषु लङ्, लिङ्, लृङ्, लुङ्, लृङ् इति लकारेषु, नित्यं ङितः (३,४,९९) इति सूत्रेण "लङ्" लकारे उत्तमपुरुषस्थस्य सकारस्य लोपो भवति। एवं "लोटो लङ्वत् (३।४।८५) इति लोट्लकारेऽपि, लङ इव कार्यं भवति, इति, उत्तमपुरुषस्य सकारस्य लोपः।

 अत्र तिङ्-प्रत्ययसिद्धिः दृश्यताम् ---

 
अन्य: प्रश्न:।
लङ लकारे य: अकार धातो: आदौ विहित: तत्कृते किम् सूत्रम् ?

न केवलं लङ्लकारे, किं तु ---

"लुँङ्लँङ्लृँङ्क्षु अडुदात्तः" (६.४.७१) इत्यनेन अडागमः, लुङ्, लङ्, लृङ् इति लकारेषु सर्वत्र  अङ्गस्याडागमः। न सर्वेषां धातूनाम्, किं तु हलादिधातूनामेव। अजादिधातूनां तु,
"आडजादीनाम् ६।४।७२" इति सूत्रेण, आट् इत्यागमः भवति।


mukesh patel

未读,
2014年9月17日 02:49:582014/9/17
收件人 sams...@googlegroups.com
आभार: ।

यत् link भवता दत्तं तत्तु पठितं एव मया। तत्रत: एव एते प्रश्ना: उदिता: । अत: अत्र पृष्टवानहम्।

एक: प्रश्न: अधुनापि।
यत् link भवता उक्तं तत्र लटि उत्तम पुरुषे आ तु अस्ति एव धातु: तिङ च मध्ये। यथा गच्छामि गच्छाव: गच्छाम:। किन्तु तत्र " आङुत्तमस्य " इति सूत्रं तु न दत्तम्।
तत् तु लोटि एव लिखितं अस्ति !!!!!

सीताराम

未读,
2014年9月17日 13:27:192014/9/17
收件人 sams...@googlegroups.com
प्रयोजनं विना मन्दोऽपि ने प्रवर्तते ।
yes लोप should happen but what is the प्रयोजनम् of doing it. if you do लोप then you can not derive forms.
if you look at झि - "झ" should get लोप as per चु टु । if you do लोप then you can not apply झोन्त: ।

लोप सूत्र's are not black and white - you have to see if there is a purpose of doing a लोप ।


--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/d/optout.



--
धन्यवाद: - राम 

Hnbhat B.R.

未读,
2014年9月17日 22:38:052014/9/17
收件人 sams...@googlegroups.com
भवता धातोरादौ अकारः योजितः किमर्थम् इत्येव प्रश्नः कृतः, न तु प्रत्यये किमर्थम् आकारः कृतः इति न प्रश्नः कृतः पूर्वमेव।

 प्रथमं सूत्रस्यार्थस्य बोधनार्थं यत्नः क्रियताम्। अनन्तरं प्रक्रिया सम्यक् पठ्यताम्। अनन्तरमेव प्रश्नः क्रियताम्।

केवलम्, आकारः अस्ति,  आडुत्तमस्य" सूत्रं किमर्थं नास्ति इत्यादिबालिशप्रश्नानां नास्त्येवावकाशः, यदि क्रमेण पठ्यते।

गच्छामि, गच्छावः, गच्छामः इत्यत्र,

गम्लृ गतौ इति धातुः। भ्वादिः, प्रथमगणः। ततश्च शप्। विकरणप्रत्ययः। उत्तमपुरुषप्रत्ययेषु, मिप्, वस्, मस् इति प्रत्ययाः।

लृकार-शकार-पकाराः इत्संज्ञायां लुप्यन्ते, सकारस्तु न लुप्यते इति पूर्वमेवोक्तम्। इदानीम्,

गम्+अ+मि। शकारस्य इत्संज्ञाकरणात्, शप् प्रत्ययस्य सार्वधातुकसंज्ञा। तिङ्प्रत्यययानां च।

तेन,  "इषुगमियमां छः" ७।३।७७ इति सार्वधातुकप्रत्ययेषु गम्-धातोः मकारस्य छत्वम्, 
गछ्+अ+मि। "छे च" ६।१।७१ इति छकारस्य तुक्। 
गत्छ्+अ+मि। "स्तोः श्चुना श्चुः" ८।४।४०   इति तकारस्य श्चुत्वेन चकारः।
गच्छ्+अ+मि। > गच्छ+मि। इदानीं, मिप् प्रत्ययस्य सार्वधातुकत्वात्, "अतो दीर्घो यञि" ७।३।१०१ इति सूत्रेण पूर्वस्याकारस्य दीर्घः। 
गच्छामि। आडागमस्यापेक्षा एव नास्ति। तत्र दीर्घ एव इति प्रत्यय एव आ इति योजितम्। सूत्रं तु न दत्तम्। यदि क्रमेण रूपसिद्धिः, उपरिदर्शितप्रकारेण सम्यक् देया। अन्यथा बालानां सन्देहस्यावकाश एव। 

"आडुत्तमस्य पिच् च ३।४।९२" इति आड् आगमः. लोटः इत्येव। लोट्सम्बन्धिनः उत्तमपुरुषस्य आडागमो भवति, स च उत्तमपुरुषः पिद् भवति। कथमस्य गच्छामि इति लडुत्तमपुरुषे अवकाशः? लोडुत्तमपुरुषे एव प्रवृत्तेः, तत्रैव दत्तम्।



 







 

mukesh patel

未读,
2014年9月18日 02:21:002014/9/18
收件人 sams...@googlegroups.com
भवत: आभार:।
तत्र " अतो दीर्घ..." इति सूत्रं नासीत् अत: एव पृष्टवान्।

Hnbhat B.R.

未读,
2014年9月18日 21:49:582014/9/18
收件人 sams...@googlegroups.com
2014-09-17 3:45 GMT+05:30 सीताराम <raam...@gmail.com>:
प्रयोजनं विना मन्दोऽपि ने प्रवर्तते ।
yes लोप should happen but what is the प्रयोजनम् of doing it. if you do लोप then you can not derive forms.
if you look at झि - "झ" should get लोप as per चु टु । if you do लोप then you can not apply झोन्त: ।

लोप सूत्र's are not black and white - you have to see if there is a purpose of doing a लोप ।



This does not apply here. This policy applies only where we find even if they are usually fall under the rules governing इत्संज्ञा, and we cannot find them deleted because of being इत्, as per "तस्य लोपः".  In this case, "न विभक्तौ तुस्माः" does not allow इत्संज्ञा to be applied in these cases in विभक्तिप्रत्यय-s. So it does not have इत्संज्ञा. And only in other cases, if there is not any obvious प्रयोजन, इत्संज्ञा itself is not applied it will not allow the desired form. There are only certain cases, where they are called उच्चारणसामर्थ्यात् न लोपः।  The ल् in लट् does not get the इत्-सञ्ज्ञा by 1-3-8 लशक्वतद्धिते because of उच्चारणसामर्थ्यात् प्रयोजनाभावाच्च. If इत् is applied, he could not apply the अधिकार, "लस्य" throughout. Here also the same thing. "झोऽन्तः" could not be applied and "चुटू" is not applied to  झ्. In this case, the विभक्तिसंज्ञा is applied and the इत्संज्ञा itself is prohibited as per the rule and the लोप does not apply at all.

The  लोप of स् is prescribed by another rule, "नित्य ङितः" in लङ्, लोट् etc.






回复全部
回复作者
转发
0 个新帖子