Dear All Learned Scholars and Guruvars
There is a stuti on krishna:
कृष्णाय वासुदेवाय
हरये परमात्मने प्रणत: क्लेश्नाशाय गोविन्दाय नमो नमः |
Few learned told me that instead of प्रणत:, it should be प्रणत
. Therefore, I had
contacted great scholar from this group and he had told me that both are
correct giving different meanings.
I request you that kindly give me the meanings and justification that which one is correct and why whether its प्रणत: or प्रणत or both.
Regards
Ashish Sharma
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/groups/opt_out.
Please check original published source of the verse. If the verse is not from an authentic source or original reading is not available, please read on.
प्रणतः क्लेश्नाशाय does not appear correct for two reasons
When प्रणतः क्लेशनाशाय , it will mean : I (have) bow(ed) down to kR^iShNa to destroy torments.
This isolated interpretation is not satisfactory as it neither addresses the context of the verse nor any Anvaya issues, and in addition, gives the meaning assuming a specific अध्याहार.
When प्रणतक्लेशनाशाय , it will mean : I (have) prostrate(d) to kR^iShNa who is destroyer/destruction of torments.
This is also incorrect. The compound is to be parsed as प्रणतानां क्लेशाः प्रणतक्लेशाः (षष्ठीतत्पुरुषसमासः) प्रणतक्लेशानां नाशो येन सः प्रणतक्लेशनाशः (बहुव्रीहिसमासः) तस्मै प्रणतक्लेशनाशाय. "प्रणतक्लेशनाशाय" in itself would mean "to him by whom [is] the destruction of the afflictions of those who have bowed down".
Both are correct.
- प्रणतः usually takes the object in accusative (द्वितीया) as in Bhagavata 8/3/26 - सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम्। विश्वात्मानमजं ब्रह्म प्रणतोऽस्मि परं पदम्॥ or RCM Mangalacharana नतोऽहं रामवल्लभाम्. Here कृष्ण and all adjectives are in dative (चतुर्थी). Although the dative can be be forcefully justified like नमस्कुर्मो नृसिंहाय = नृसिंहमनुकूलयितुं नमस्कुर्मः but no need of all this when meaning can be easily obtained with the compound form.
- There is a principle in interpretation that सम्भवत्येकवाक्यत्वे वाक्यभेदो न युज्यते (श्लो.वा. १-९). When there is a possibility of one वाक्य [giving the meaning], वाक्यभेद is not employed. With प्रणतक्लेशनाशाय compound, the meaning of the whole verse can be obtained with one वाक्य ending with नमो नमः with a simple Anvaya. Else, one needs to take a different वाक्य with प्रणतः and a different one with नमो नमः.
Can anyone tell me that which one is taken from original stuti?
प्रणत or प्रणत:- out of both, which one was originally existed in the stuti?
--
When प्रणतक्लेशनाशाय , it will mean : I (have) prostrate(d) to kR^iShNa who is destroyer/destruction of torments.
यत्स्वामिनोक्तं "if someone needs meaning of प्रणत included, he may add it" तदुपेक्ष्यमसङ्गतञ्च। समासशक्तिनिर्णये श्रोतुः कामचारस्य प्रसर एव नास्ति भोः। सर्वत्र ह्यर्थस्तु विवक्षाधीनः। न स शुश्रूषाधीनोऽवजिगमिषाधीनो वा। पूर्वपदमुपेक्ष्य समासार्थो कुत्रापि नैव सम्भवेत्। यथोक्तं वैयाकरणभूषणसारे कौण्डभट्टपादैः -
समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत्॥ वै.भू.सा. ५-३१ ॥
अस्माकं गुरुचरणा अपि - यथा 'राजपुरुषः' इत्यादौ समासात्प्राग्व्यस्तावस्थायां 'राज्ञः' इत्यस्य पृथगर्थः 'पुरुषः' इत्यस्य च पृथक्। सति समास उभयोरपि सत्ता समाप्ता साम्प्रतं हि स्वस्वामिभावसम्बन्धावच्छिन्नराजविशिष्टपुरुष इत्येकोऽर्थः। (अध्यात्मरामायणेऽपाणिनीयप्रयोगाणां विमर्शः १-२८)
यथा 'रामचरितमानसम्' इत्यस्य 'रामस्य चरितानां मानसम्' इत्येव साध्वर्थः। 'राम' इति पूर्वपदमुपेक्ष्य 'चरितानां मानसम्' इति कृतोऽर्थो व्याकरणसिद्धान्तविरुद्धः। न्यायसिद्धान्तविरुद्धश्च। अव्याप्तिदोषग्रस्तत्वात्। तथैवात्रापि 'प्रणतक्लेशनाशाय' इत्यस्य 'प्रणतानां क्लेशान् नाशयतीति प्रणतक्लेशनाशस्तस्मै' अथवा 'प्रणतानां क्लेशानां नाशो येन यस्माद्वेति प्रणतक्लेशनाशस्तस्मै' इत्यर्थो हि साधु। अस्त्येवमेवम्।
अत एव "if someone needs meaning of प्रणत included, he may add it" इत्यसङ्गतम्।
"Everybody must include the meaning of प्रणत in the, otherwise it is plain wrong" इति हि सङ्गतम्।
पर्य्यनुयोगोऽनवसरेऽयम् । समासादिप्रदर्शनादावप्रवृत्तत्वात् । सङ्क्षेपेण श्लोकार्थमात्रप्रदर्शनायैव हि सा प्रवृत्तिः ।
मैवं प्रलपीः। श्लोकार्थबोधे वाक्यार्थज्ञानं कारणम्। वाक्यार्थबोधे पदार्थज्ञानं कारणम्। पदार्थबोधे समासार्थज्ञानं कारणम्। समासार्थबोधे पूर्वमध्यमोत्तरपदार्थज्ञानं कारणम्। एवं श्लोकार्थः पूर्वमध्यमोत्तरपदार्थाधीनः।
सम्यक्समासविग्रहं विना समासार्थो दोषयुक्तः। समासार्थे दोषयुक्ते पदार्थो दोषयुक्तः। पदार्थे दोषयुक्ते वाक्यार्थो दोषयुक्तः। वाक्यार्थे दोषयुक्ते श्लोकार्थो दोषयुक्तः सङ्क्षिप्तो वाऽसौ विस्तृतः।
श्लोकार्थबोधे वाक्यार्थज्ञानं कारणम्।
सम्यक्समासविग्रहं विना समासार्थो दोषयुक्तः। समासार्थे दोषयुक्ते पदार्थो दोषयुक्तः। पदार्थे दोषयुक्ते वाक्यार्थो दोषयुक्तः। वाक्यार्थे दोषयुक्ते श्लोकार्थो दोषयुक्तः सङ्क्षिप्तो वाऽसौ विस्तृतः।
एवम्भूते सति समासविग्रहविचारहीनः सङ्क्षिप्तोऽपि श्लोकार्थो दोषयुक्तः। ईदृशमर्थं बुधा नाद्रियन्ते। तस्मात्त्वदुक्तार्थ उपेक्ष्यः।
2013/9/9 Nityanand Misra <nmi...@gmail.com>श्लोकार्थबोधे वाक्यार्थज्ञानं कारणम्।
मुधैतत् ।श्लोकार्थवाक्यार्थयोरभेदात् कार्य्यकारणभावाभिधानं तयोर्वा तदीययोर्वा दुष्टम् ।
सम्यक्समासविग्रहं विना समासार्थो दोषयुक्तः। समासार्थे दोषयुक्ते पदार्थो दोषयुक्तः। पदार्थे दोषयुक्ते वाक्यार्थो दोषयुक्तः। वाक्यार्थे दोषयुक्ते श्लोकार्थो दोषयुक्तः सङ्क्षिप्तो वाऽसौ विस्तृतः।
यस्य विग्रहो ज्ञातोऽपि प्रदर्शयितुं नेष्टः तस्मिन्नैतासां वाचां प्रसरः ।
किञ्च वाक्यार्थश्लोकार्थयोस्सम्बन्धासम्भवोऽत्रापि ।
एवम्भूते सति समासविग्रहविचारहीनः सङ्क्षिप्तोऽपि श्लोकार्थो दोषयुक्तः। ईदृशमर्थं बुधा नाद्रियन्ते। तस्मात्त्वदुक्तार्थ उपेक्ष्यः।श्लोकार्थस्य सङ्क्षितप्तैव समासादिप्रकटने प्रवृत्तिं निवारयति। समासादिविग्रहविचारे कृते कुतः स्यात् सङ्क्षिप्तता इति ।
यस्य तु सङ्क्षेपेण न तृप्तिः न वा बोधः तस्य समासादिविचारपूर्व्वकं व्याख्यानं स्यादादरणीयं ; परं न सर्व्वस्य ।
बुधा अपि नैकविधाः । केचन पञ्चम्यन्तेन पदेनैव हेतुवाचकेन सन्तुष्टा भवन्ति । अथापि केचन व्याख्यानमपेक्षन्ते । अनयोः कस्य श्रेष्ठत्वम् इति तु अन्यत् ।
On Monday, September 9, 2013 6:40:53 PM UTC+8, श्रीमल्ललितालालितः wrote:2013/9/9 Nityanand Misra <nmi...@gmail.com>श्लोकार्थबोधे वाक्यार्थज्ञानं कारणम्।
मुधैतत् ।श्लोकार्थवाक्यार्थयोरभेदात् कार्य्यकारणभावाभिधानं तयोर्वा तदीययोर्वा दुष्टम् ।
Wrong. You yourself said "Again, It is not a rule that in a single shloka there must be a single vAkya." Now you say श्लोकार्थ and वाक्यार्थ are same!! This is self-contradiction. Without determining वाक्य, one cannot determine meaning of a श्लोक. There can be more than one वाक्य in a श्लोक. There can be more than one श्लोक forming a वाक्य.
सम्यक्समासविग्रहं विना समासार्थो दोषयुक्तः। समासार्थे दोषयुक्ते पदार्थो दोषयुक्तः। पदार्थे दोषयुक्ते वाक्यार्थो दोषयुक्तः। वाक्यार्थे दोषयुक्ते श्लोकार्थो दोषयुक्तः सङ्क्षिप्तो वाऽसौ विस्तृतः।
यस्य विग्रहो ज्ञातोऽपि प्रदर्शयितुं नेष्टः तस्मिन्नैतासां वाचां प्रसरः ।
किञ्च वाक्यार्थश्लोकार्थयोस्सम्बन्धासम्भवोऽत्रापि ।
Wrong again. See above.
एवम्भूते सति समासविग्रहविचारहीनः सङ्क्षिप्तोऽपि श्लोकार्थो दोषयुक्तः। ईदृशमर्थं बुधा नाद्रियन्ते। तस्मात्त्वदुक्तार्थ उपेक्ष्यः।श्लोकार्थस्य सङ्क्षितप्तैव समासादिप्रकटने प्रवृत्तिं निवारयति। समासादिविग्रहविचारे कृते कुतः स्यात् सङ्क्षिप्तता इति ।
यस्य तु सङ्क्षेपेण न तृप्तिः न वा बोधः तस्य समासादिविचारपूर्व्वकं व्याख्यानं स्यादादरणीयं ; परं न सर्व्वस्य ।
बुधा अपि नैकविधाः । केचन पञ्चम्यन्तेन पदेनैव हेतुवाचकेन सन्तुष्टा भवन्ति । अथापि केचन व्याख्यानमपेक्षन्ते । अनयोः कस्य श्रेष्ठत्वम् इति तु अन्यत् ।
You do not understand समासशक्तिनिर्णय. Can the संक्षिप्त अर्थ of "श्रीमल्ललितालालितो वक्ति" be just "ललिता speaks"? Or the संक्षिप्त अर्थ of "चिद्घनानन्दपुरी याति" be simply "घन goes"? That is not संक्षिप्त अर्थ but दोषयुक्त अर्थ.
श्लोकस्यैकमात्रवाक्यात्मकत्वतद्घटितत्वादिनियमो नास्तीत्येतावदेवोक्तं न तु तस्य वाक्यात्मकत्वं निरस्तम् । तथा च निषेधविषयस्तत्र सङ्ख्यानियम एव न तु वाक्यत्वम् ।
यस्य विग्रहो ज्ञातोऽपि प्रदर्शयितुं नेष्टः तस्मिन्नैतासां वाचां प्रसरः ।
किञ्च वाक्यार्थश्लोकार्थयोस्सम्बन्धासम्भवोऽत्रापि ।
तन्निरस्तमेव ।
अथापि इच्छाविषये न कश्चन छिद्रस्त्वयान्विष्ट इतोऽपि ।
श्लोकार्थस्य सङ्क्षितप्तैव समासादिप्रकटने प्रवृत्तिं निवारयति। समासादिविग्रहविचारे कृते कुतः स्यात् सङ्क्षिप्तता इति ।
यस्य तु सङ्क्षेपेण न तृप्तिः न वा बोधः तस्य समासादिविचारपूर्व्वकं व्याख्यानं स्यादादरणीयं ; परं न सर्व्वस्य ।
बुधा अपि नैकविधाः । केचन पञ्चम्यन्तेन पदेनैव हेतुवाचकेन सन्तुष्टा भवन्ति । अथापि केचन व्याख्यानमपेक्षन्ते । अनयोः कस्य श्रेष्ठत्वम् इति तु अन्यत् ।
किं समासमात्राप्रदर्शनेन मदीयायाः शक्तेः लोपो निर्णीतः । स न युक्तः । मम तत्र प्रवृत्त्यभावस्य निवेदितत्वात् ।
अपि च , किं वक्तृमात्रस्य प्रवृत्तिमात्रं स्वकीयाग्रहमात्रेण नियन्तुमिच्छसि ।किं न दृष्टा आचार्याः बृहद्ववाक्यस्य सङ्क्षेपेण व्याख्यानपराः । किं न टीकास्तथा कर्त्तुं बहुधा प्रवृत्ताः । न हि ज्ञातं पदं व्याख्यातुं बुधानां प्रवृत्तिर्भवति टीकानां वा ।
अपि च अत्रैव मूलप्रश्नकर्त्रा धन्यवादज्ञापनकाले मदीयनाम्न एकदेश एव गृहीतः Thanks for the reply Lalita Ji. इति । अथापि विवक्षितार्थस्य बोधो मम न निरुद्धः न वा तव ।अत एव यः श्रीमल्ललितालालितचिद्घनानन्दपुर्यादिपदार्थं मां जानाति तस्य ललिताघनादिपदमात्रोक्तावपि प्रसङ्गाद् बोधो जायते एव । यस्मिन्नंशे प्रष्टुः संशयः तस्मिन्नेव समाधातृभिरायासो कर्त्तव्यः न तु तदिरत्र , तस्य व्यर्थत्वेनाबुधत्वापादकत्वात् ।
अलमतिपल्लवितेन. Below is a comparison of संक्षिप्तार्थ of some popular compounds done in two ways –
I leave it to the readers to decide for themselves which संक्षिप्तार्थ is precise and which is deficient.
|
No. |
Word |
CP’s संक्षिप्तार्थ |
NM’s संक्षिप्तार्थ |
|
1. |
|
प्रणतक्लेशनाशाय |
|
“to/for him who is destroyer/destruction of afflictions” |
“to/for him by whom is the destruction of afflictions of those who have bowed down” |
||
|
2. |
भवभयहरम् |
“to him who is the remover of fear” |
“to him who is the remover of the fear of the world (i.e. transmigration)” |
|
3. |
धृतशरधनुषम् |
“to arrows and a bow” |
“to him who bears arrows and a bow” |
|
4. |
प्रेमाम्बुपूरम् |
“that which is filled with water” |
“that which is filled with the water in the form of love” |
|
5. |
सीतानाथसमारम्भाम् |
“to her whose commencement is from the lord” |
“to her whose commencement is from the husband of Sītā (i.e. Rāma)” |
भवभयहरम्
“to him who is the remover of fear”
“to him who is the remover of the fear of the world (i.e. transmigration)”
3.
धृतशरधनुषम्
“to arrows and a bow”
“to him who bears arrows and a bow”
4.
प्रेमाम्बुपूरम्
“that which is filled with water”
“that which is filled with the water in the form of love”
5.
सीतानाथसमारम्भाम्
“to her whose commencement is from the lord”
“to her whose commencement is from the husband of Sītā (i.e. Rāma)”