Purity by Manu - Sanskrit

24 views
Skip to first unread message

K.N.RAMESH

unread,
Jan 24, 2025, 10:10:50 AM1/24/25
to
रामरामराम। 
श्रीगुरुभ्योनमः। हरिःॐ।

अद्भिर्गात्राणिशुध्यन्ति मनःसत्येनशुध्यति।
विद्यातपोभ्याम्भूतात्मा बुद्धिर्ज्ञानेनशुध्यति॥
मनुस्मृतिः। ५.१०९ ॥

अद्भिः गात्राणि शुध्यन्ति मनः सत्येन शुध्यति।
विद्यातपोभ्यां भूतात्मा बुद्धिः ज्ञानेन शुध्यति॥

सनानेन शरीरं शुध्यति। सदसदात्मकम् असत्सङ्कल्पाद् अशुद्धिकं मनः सत्येन साधुसङ्कल्पेन शुध्यति। सद्विद्यया च प्रायश्चित्तादिकर्मणा च भूतं युक्तम् आत्मा चेतः शुध्यति। लौकिके सम्भूता बुद्धिस्तु यथार्थविषयज्ञानेन शुध्यति।

मेधातिथेर्भाष्याधृतं विवेचनम्। 

तपः कृच्छ्रादिकर्म प्रायश्चित्तादिकर्म।

छन्दः पद्येऽभिलाषे च *तपः कृच्छ्रादिकर्म* च। सहो बलं सहा मार्गो नभः खं श्रावणो नभाः। अमरः। 

भूतं युक्तम्। भूतशब्दः तत्त्ववचनः इति मेधातिथिः।
 
*युक्ते* क्ष्मादावृते *भूतं* प्राण्यतीते समे त्रिषु। वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले। अमरः।

By bathing water cleanses the body, truthfulness purifies the mind, learning the good and austerity purifies the soul proper and true knowledge purifies the faculty of cognisance of mind.


जयतु संस्कृतम्॥
Reply all
Reply to author
Forward
0 new messages