--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To post to this group, send email to sams...@googlegroups.com.
To unsubscribe from this group, send email to samskrita+...@googlegroups.com.
For more options, visit this group at http://groups.google.com/group/samskrita?hl=en.
----- Original Message -----From: manohar chenekalaSent: Monday, July 09, 2012 9:20 AMSubject: Re: [Samskrita] myth about Sita being older than Raama
अत्र शङ्क्यते- अत्र दशरथेन पित्रा ऊनषोडशवर्ष इत्युक्तम् । ऊनत्वं च मासेन मासत्रयेण षण्मासैर्वा स्यात्, न त्वेकवर्षद्विवर्षादिभिः । तस्मिन्नेव वर्षे सीताविवाहः । तदनु द्वादशवर्षाण्ययोध्यावासः । "समा द्वादश तत्राहं राघवस्य निवेशने । भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी" इति सीतया वक्ष्यमाणत्वात् । तथा च वनप्रवेशकाले रामस्याष्टाविंशतिवर्षाणीति प्रतिभाति । तदनुपपन्नम्- "मम भर्ता महातेजा वयसा पञ्चविंशकः । अष्टादश हि वर्षाणि मम जन्मनि गण्यते ।।" इति सीतावचनात्। कौसल्यया च वनप्रवेशसमये प्रोच्यते "दश सप्त च वर्षाणि जातस्य तव पुत्रक। आसितानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम्।।" इति । तस्मात् अष्टाविंशतेः पञ्चविंशतेः सप्तदशानां च कथमविरोध इति । अत्र केचित्, कौसल्यावाक्ये जातस्येति द्वितीयं जन्मोच्यते- क्षत्रियस्यापि द्विजत्वात् । द्वितीयं जन्म च उपनयनम्, तच्चवृद्धेन दशरथेन काम्यपक्षमाश्रित्य गर्भाष्टम एव कृतम् । तथा च द्वितीयजन्मापेक्षया सप्तदशत्वम् । उपनयनात्पूर्वं सप्तवर्षाणीति "वयसा पञ्चविंशकः" इति सीतावचनमप्युपपन्नम् ।
"ऊनषोडशवर्षः" इत्यत्र पादोनत्वम्, द्वादशवर्ष इत्यन्यत्रोक्तत्वात् । अतः सर्वथा वनप्रवेशकाले पञ्च विंशतिवर्ष एव राम इत्याहुः । अन्ये बहुक्लेशं सहमाना एवं व्याचख्युः- अष्टाविंशतिवर्ष एव वनप्रवेशे रामः । ऊनषोडशवर्ष इति यत्किञ्चिन्मासोन षोडशवर्षवयस्क इत्यर्थः । "बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम्" इति दशरथवचने बाल्ययौवनसन्धौ बाल इति व्यवहर्तुं शक्यत्वात् । "बाल आषोडशाद्वर्षात्पौगण्डश्चेति कीर्त्यते" इति वचनात् । "बालो द्वादशवर्षो ऽयमकृतास्त्रश्च राघवः । अजातव्यञ्जनः श्रीमान् पद्मपत्रनिभेक्षणः ।।" इति मारीचवचनन्तु युद्धभीरुतया भ्रान्तिकृतम्, रावणविभीषिकयोक्तं वा, अत एव स्वयं वायव्यास्त्रभग्नोऽप्यकृतास्त्र इत्याह। अजातव्यञ्जनत्वं च निरुदरा कन्येतिवदल्पश्मश्रुत्वम्। "एकवस्त्रधरो धन्वी शिखी कनकमालया" इत्यपि दृढपरिहितोत्तरीयतया सन्नद्धत्वमाह। वयसा पञ्चविंशक इति तु पञ्चविंशतुल्यत्वमाह। इवार्थे कनो विधानात्। तेन नित्ययौवनत्वं ज्ञापयति। देवा हि सदा पञ्चविंशतिवार्षिका इत्युच्यन्ते। कौसल्यावाक्यमपि "गर्भैकादशेषु राजन्यम्" इति विहितोपनयनापेक्षया। तस्मान्न किञ्चिदनुपपन्नमिति। वस्तुतो वयसा पञ्चविंशक इति सीतायाः शापभीतायाः सन्न्यासिनं प्रति वचनमेव यथार्थम्। दश सप्त च वर्षाणीति कौसल्यावाक्ये तु चकारेण सप्तवर्षाणि समुच्चीयन्ते, तेन जन्मापेक्षयैव पञ्चविंशतित्वसिद्धिः। ननु विवाहानन्तरमेव सम्भोगः श्रूयते "रामस्तु सीतया सार्द्धं विजहार बहुनृतून्"इति। स कथं द्वादशवर्षस्य बालस्य सम्भवति ? सम्भवत्येव, सौकुमार्यातिशयेन प्रौढशरीरतया। अत एव हि देव्याश्च षड्वर्ष एव यौवनारम्भः। "अष्टादश हि वर्षाणि मम जन्मनि गण्यते" इति वनप्रवेशेऽष्टादशत्वम्, विवाहकाले सीतायाः षड्वर्षत्वमवगमयतीति सर्वं सुस्थम् ।। 1.20.2 ।।
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To post to this group, send email to sams...@googlegroups.com.
To unsubscribe from this group, send email to samskrita+...@googlegroups.com.
For more options, visit this group at http://groups.google.com/group/samskrita?hl=en.