*अमरभरतभुवनजाः*
अमरभरतभुवनजाः महितचरितशोभनाः
शयनमात्मनो विहाय कुरुत सपदि जागराम् ।
शुभदजीवनं विधातुमवितुमखिलमानवान्
संपठाम संस्कृतं प्रसारयाम सत्वरम् ॥
क्लेशनिचयवारणाय साधनां प्रकुर्महे
कष्टदुरित-तारणाय योजनां विदध्महे ।
लक्ष्यसिद्धिमुज्वालां विधातुमात्मनो वयम्
संपठाम संस्कृतं प्रसारयाम सत्वरम् ॥
युवजनान्तरङ्गके प्रकृत्य धर्मजागराम्
अन्धकारमग्नलोकमुद्धराम साम्प्रतम् ।
लक्ष्यसिद्धिमुज्वालां विधातुमात्मनो वयम्
संपठाम संस्कृतं प्रसारयाम सत्वरम् ॥
अतुलसङ्घवैभवेन निखिलसोदरानिमान्
पावयाम संस्कृतापगामृताम्भसा वयम् ।
पूतमानसैः समं ततो विदध्महे द्रुतम्
संस्कृतं यशोयुतं समर्थमार्षभारतम् ॥
सर्वथा समर्थ-संस्कृतार्षदेशसृष्टये
सर्वसद्गुणाभिपूर्णविश्वपौरवृद्धये ।
शाश्वतैक्यसाधनाय सामरस्यसिद्धये
संपठाम संस्कृतं प्रसारयाम सत्वरम् ॥
- *रणजितः*
Pl listen to the song in the attachment.