Blind elephant -Sanskrit simile

24 views
Skip to first unread message

K.N.RAMESH

unread,
Nov 5, 2018, 1:42:50 PM11/5/18
to
अन्धगजन्यायः।
---------------------

केचन अन्धाः आसन् । ते सर्वे गजः कीदृशः इति ज्ञातुम् इष्टवन्तः। ते कस्यचित् गजस्य समीपं गतवन्तः। गजः कीदृशः इति साक्षात् दृष्ट्वा ज्ञातुं ते न शक्नुवन्तः। अतः ते स्पर्शनेन ज्ञातुं प्रयत्नम् आरब्धवन्तः। कश्चन शुण्डां स्पृशति, कश्चन पादं स्पृशति, कश्चन कर्णं स्पृशति, कश्चन पुच्छं स्पृशति। अन्ते यदा सर्वे एकत्र आगच्छन्ति तदा स्वयं यथा गजः कीदृशः  इति वर्णनं कुर्वन्ति। यः शुण्डां स्पृष्टवान् सः वदति गजः कदलीवृक्षस्य काण्डसदृशः। यः कर्णं स्पृष्टवान् सः वदति गजः शूर्पसदृशः। यः पादं स्पृष्टवान् सः वदति गजः स्तम्भसदृशः। यः पुच्छं स्पृष्टवान् सः वदति गजः सम्मार्जनीसदृशः। वस्तुतः ते सर्वे मिलित्व चर्चां कृत्व गजः कीदृशः इति अवगमनं कृतम्। परन्तु प्रत्येकं जनः स्वस्य अनुभवम् एव वदति तस्मिन् वादे एव तिष्ठति च। यदा एवं एकस्य विषयस्य पूर्ण ज्ञानं विना विवरणं वा वादविवादं वा करोति तदा एतस्य अन्धगजन्यायस्य उद्धरणं भवति ।

Arvind_Kolhatkar

unread,
Nov 5, 2018, 11:40:06 PM11/5/18
to samskrita
GA Jacob's लौकिकन्यायाञ्जलि Part I gives this न्याय and supplies the further information that the story is found in the Buddhist work उदानम् published by the Pali Text Society in 1885.

Arvind Kolhatkar.
Reply all
Reply to author
Forward
0 new messages