विषयः - यङ्-तथा-यङ्लुक्-प्रत्यययोः

244 views
Skip to first unread message

अभ्यंकरकुलोत्पन्नः श्रीपादः

unread,
Jul 15, 2012, 10:21:24 PM7/15/12
to Hnbhat B.R., Baldevanand sagar, Himanshu Pota, Dr. Amba Kulkarni, Shri Nanduji Abhyankar, bvpar...@googlegroups.com, sams...@googlegroups.com
नमो नमः श्रीमन् भट-महोदय ! 

बृहद्धातुवल्यां  प्रत्ययान्त-धातुषु कृ-धातुतः यङ्-प्रत्ययेन "चेकीयते"-इति रूपं तथा यङ्लुक्-प्रत्ययेन चर्करीति..., चरीकरीति.... एतावतानि रूपाणि उल्लेखितानि सन्ति ।
यङ्-प्रत्ययविषये मया "https://www.google.co.in/search?q=पेपीयते+&ie="अत्रतः प्राप्तम् -
  • "---यत् प्रत्यय लगने से धातु को द्वित्व हो जाता है और धातु के रूप में कुछ परिवर्तन हो जाता है, यथा "पुन: पुन: पिबति पेपीयते "
  • आङ्ग्लभाषायां इदम्  frequentative-इति कथ्यते खलु ?
  • गीतास्तुतिश्लोकेष्वपि "---पाराशर्यवचःसरोजममलं गीतार्थगन्धोत्कटं । नानाख्यानककेसरं हरिकथासद्वासनावासितम् । लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा । भूयाद्भारतपंकजं कलिमलप्रध्वंसि नः श्रेयसे ॥--" एतस्मिन् श्लोके "पेपीयमानं"-इति शब्दस्य प्रयोगः । दृश्यते पेपीयमानं-इति कर्मणिप्रयोगान्वितं रूपम् ।
  • अथ किम् यङ्-प्रत्ययः एव कर्मणिप्रयोगात्मकः ?
    • यद्येवं "पेपीयते = पुनः पुनः पिबति" इति न साधु, "पेपीयते = पुनः पुनः पीयते" इत्येव साधु ?
    • तथैव चेकीयते = पुनः पुनः क्रियते ?
इदमपि ज्ञातुमिच्छामि कथं वा केन अर्थेन वा भवति यङ्लुक्-प्रत्ययस्य प्रयोगः । तस्य आङ्ग्लभाषायां परिभाषिकः कः ?
अनुग्रहाभिलाषी,
श्रीपादः ।

Hnbhat B.R.

unread,
Jul 15, 2012, 11:15:06 PM7/15/12
to Baldevanand sagar, Himanshu Pota, Dr. Amba Kulkarni, Shri Nanduji Abhyankar, sams...@googlegroups.com
---------- Forwarded message ----------
From: Hnbhat B.R. <hnbh...@gmail.com>
Date: 2012/7/16
Subject: Re: विषयः - यङ्-तथा-यङ्लुक्-प्रत्यययोः
To: अभ्यंकरकुलोत्पन्नः श्रीपादः <sanskr...@gmail.com>

बृहद्धातुवल्यां  प्रत्ययान्त-धातुषु कृ-धातुतः यङ्-प्रत्ययेन "चेकीयते"-इति रूपं तथा यङ्लुक्-प्रत्ययेन चर्करीति..., चरीकरीति.... एतावतानि रूपाणि उल्लेखितानि सन्ति ।
यङ्-प्रत्ययविषये मया "https://www.google.co.in/search?q=पेपीयते+&ie="अत्रतः प्राप्तम् -
  • "---यत् प्रत्यय लगने से धातु को द्वित्व हो जाता है और धातु के रूप में कुछ परिवर्तन हो जाता है, यथा "पुन: पुन: पिबति पेपीयते "
  • आङ्ग्लभाषायां इदम्  frequentative-इति कथ्यते खलु ?
  • गीतास्तुतिश्लोकेष्वपि "---पाराशर्यवचःसरोजममलं गीतार्थगन्धोत्कटं । नानाख्यानककेसरं हरिकथासद्वासनावासितम् । लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा । भूयाद्भारतपंकजं कलिमलप्रध्वंसि नः श्रेयसे ॥--" एतस्मिन् श्लोके "पेपीयमानं"-इति शब्दस्य प्रयोगः । दृश्यते पेपीयमानं-इति कर्मणिप्रयोगान्वितं रूपम् ।
सत्यम्। 
  • अथ किम् यङ्-प्रत्ययः एव कर्मणिप्रयोगात्मकः ?
    • यद्येवं "पेपीयते = पुनः पुनः पिबति" इति न साधु, "पेपीयते = पुनः पुनः पीयते" इत्येव साधु ?
    • तथैव चेकीयते = पुनः पुनः क्रियते ?

http://sanskritdocuments.org/learning_tools/sarvanisutrani/3.1.22.htm
 
अत्र क्रियासमभिहारः = पौनःपुन्येन प्रवृत्तिः इति व्याख्यानम्।

यङ् प्रत्ययः, हलादेरेकाचो धातोरेव भवति, न पुनः अजादेर्धातोः। क्रियासमभिहरः - कर्त्रा एव।

केवलाद् धातोः, "सार्वधातुके यक्" इति भावकर्मणोः यक्-प्रत्ययः भवति, कर्तरि, शप्, श्लु, इत्यादिविकिरणानां विधानात् कर्त्रर्थे एषां प्रयोगः। कर्मण्येव यक्=प्रत्ययस्य प्रयोगः।

सकर्मकाणां कर्तरि, कर्मणि च प्रयोगः, अकर्मकाणां धातूनां कर्तरि, भावे च प्रयोगः इति प्रयोगभेदः, प्रत्ययभेदात्। सर्वेषां धातूनां यथासंभवं कर्मणि वा भावे वा प्रयोगे यक्प्रत्यय एव।

यङन्तस्य प्रयोगस्तु कर्तर्येव। यथा, दिवादिभ्यः श्यन्-प्रत्यये,
अग्निः दीप्यते इत्यादयः आत्मनेपदे, भावे प्रयोगे वा तुल्यमेव रूपं भजन्ते, तथा,
दीपयति - दीप्यते इति ण्यन्ताच्च कर्मणि तुल्यमेव रूपम्, तथैव
यङन्ते - देदीप्यते, इति
यङ्लुकि, देदेप्ति इत्यस्य देदीप्यते इति कर्मणि,
तथैव, यङ्लुगन्तात् 

पा पाने इति धातोर्यङने - पेपीयते, 
यङ्लुकि - पेपेति, कर्तरि,
तस्यैव कर्मणि,  शानच्-प्रत्यये पेपीयमानमिति रूपम्। यङ्ङन्तात् कर्मणि तु पेपीय्यमानमिति भवति। इति विशेषः।

इदमपि ज्ञातुमिच्छामि कथं वा केन अर्थेन वा भवति यङ्लुक्-प्रत्ययस्य प्रयोगः ।

अर्थे भेद एव नास्ति, केवलं छन्दसि

यङो ऽचि च २।४।७४। अजादौ अनजादौ च प्रत्यये बहुलं लुग् भवति, छन्दसि, क्वचित् भाषायां च बहुलग्रहणात् इति।

रूपभेदस्तु भवत्येव। "गुणो यङ्लुकोः" इति गुणः - पेपेत्ति, बोभोत्ति इत्यादौ।

तस्य आङ्ग्लभाषायां परिभाषिकः कः ?

अस्योत्तरं भवतैवोक्तम्, Frequentive इति अर्थानुसारेण क्रियासमभिहारमेव वक्ति, किं परिभाषान्तरान्वेषणेन?  
--
Dr. Hari Narayana Bhat B.R. M.A., Ph.D.,
Research Scholar,
Ecole française d'Extrême-OrientCentre de Pondichéry
16 & 19, Rue Dumas
Pondichéry - 605 001

--
Dr. Hari Narayana Bhat B.R. M.A., Ph.D.,
Research Scholar,
Ecole française d'Extrême-OrientCentre de Pondichéry
16 & 19, Rue Dumas
Pondichéry - 605 001

Hnbhat B.R.

unread,
Jul 15, 2012, 11:09:01 PM7/15/12
to sanskr...@gmail.com, Baldevanand sagar, Himanshu Pota, Dr. Amba Kulkarni, Shri Nanduji Abhyankar, bvpar...@googlegroups.com, sams...@googlegroups.com
  • अथ किम् यङ्-प्रत्ययः एव कर्मणिप्रयोगात्मकः ? 
    • यद्येवं "पेपीयते = पुनः पुनः पिबति" इति न साधु, "पेपीयते = पुनः पुनः पीयते" इत्येव साधु ?
    • तथैव चेकीयते = पुनः पुनः क्रियते ?

http://sanskritdocuments.org/learning_tools/sarvanisutrani/3.1.22.htm
 
अत्र क्रियासमभिहारः = पौनःपुन्येन प्रवृत्तिः इति व्याख्यानम्।

यङ् प्रत्ययः, हलादेरेकाचो धातोरेव भवति, न पुनः अजादेर्धातोः। क्रियासमभिहरः - कर्त्रा एव।

केवलाद् धातोः, "सार्वधातुके यक्" इति भावकर्मणोः यक्-प्रत्ययः भवति, कर्तरि, शप्, श्लु, इत्यादिविकिरणानां विधानात् कर्त्रर्थे एषां प्रयोगः। कर्मण्येव यक्=प्रत्ययस्य प्रयोगः।

सकर्मकाणां कर्तरि, कर्मणि च प्रयोगः, अकर्मकाणां धातूनां कर्तरि, भावे च प्रयोगः इति प्रयोगभेदः, प्रत्ययभेदात्। सर्वेषां धातूनां यथासंभवं कर्मणि वा भावे वा प्रयोगे यक्प्रत्यय एव।

यङन्तस्य प्रयोगस्तु कर्तर्येव। यथा, दिवादिभ्यः श्यन्-प्रत्यये,
अग्निः दीप्यते इत्यादयः आत्मनेपदे, भावे प्रयोगे वा तुल्यमेव रूपं भजन्ते, तथा,
दीपयति - दीप्यते इति ण्यन्ताच्च कर्मणि तुल्यमेव रूपम्, तथैव
यङन्ते - देदीप्यते, इति
यङ्लुकि, देदेप्ति इत्यस्य देदीप्यते इति कर्मणि,
तथैव, यङ्लुगन्तात् 

पा पाने इति धातोर्यङने - पेपीयते, 
यङ्लुकि - पेपेति, कर्तरि,
तस्यैव कर्मणि,  शानच्-प्रत्यये पेपीयमानमिति रूपम्। यङ्ङन्तात् कर्मणि तु पेपीय्यमानमिति भवति। इति विशेषः।

इदमपि ज्ञातुमिच्छामि कथं वा केन अर्थेन वा भवति यङ्लुक्-प्रत्ययस्य प्रयोगः ।

अर्थे भेद एव नास्ति, केवलं छन्दसि

यङो ऽचि च २।४।७४। अजादौ अनजादौ च प्रत्यये बहुलं लुग् भवति, छन्दसि, क्वचित् भाषायां च बहुलग्रहणात् इति।
रूपभेदस्तु भवत्येव। "गुणो यङ्लुकोः" इति गुणः - पेपेत्ति, बोभोत्ति इत्यादौ।

तस्य आङ्ग्लभाषायां परिभाषिकः कः ?

अस्योत्तरं भवतैवोक्तम्, Frequentive इति अर्थानुसारेण क्रियासमभिहारमेव वक्ति, किं परिभाषान्तरान्वेषणेन?  

2012/7/16 अभ्यंकरकुलोत्पन्नः श्रीपादः <sanskr...@gmail.com>

--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
to subscribe go to the link below and put a request
https://groups.google.com/group/bvparishat/subscribe
To unsubscribe from this group, send email to
bvparishat+...@googlegroups.com

अभ्यंकरकुलोत्पन्नः श्रीपादः

unread,
Jul 16, 2012, 11:05:23 AM7/16/12
to sams...@googlegroups.com, Baldevanand sagar, Himanshu Pota, Dr. Amba Kulkarni, Shri Nanduji Abhyankar
धन्यवादाः भवतः विस्तृत-विवेचनाय !
अस्ति भवता पृष्टं - "किं परिभाषान्तरान्वेषणेन"  इति । मम सरल-संस्कृत-पाठानां माध्यमं आङ्ग्लभाषा अस्ति, तेन समीचीनाः पारिभाषिक-शब्दाः अपि आवश्यकाः ।
सस्नेहं,
श्रीपादः ।
"श्रीपतेः पदयुगं स्मरणीयम् ।"

2012/7/16 Hnbhat B.R. <hnbh...@gmail.com>
Reply all
Reply to author
Forward
0 new messages