http://sanskritdocuments.org/learning_tools/sarvanisutrani/3.1.22.htm
अत्र क्रियासमभिहारः = पौनःपुन्येन प्रवृत्तिः इति व्याख्यानम्।
यङ् प्रत्ययः, हलादेरेकाचो धातोरेव भवति, न पुनः अजादेर्धातोः। क्रियासमभिहरः - कर्त्रा एव।
केवलाद् धातोः, "सार्वधातुके यक्" इति भावकर्मणोः यक्-प्रत्ययः भवति, कर्तरि, शप्, श्लु, इत्यादिविकिरणानां विधानात् कर्त्रर्थे एषां प्रयोगः। कर्मण्येव यक्=प्रत्ययस्य प्रयोगः।
सकर्मकाणां कर्तरि, कर्मणि च प्रयोगः, अकर्मकाणां धातूनां कर्तरि, भावे च प्रयोगः इति प्रयोगभेदः, प्रत्ययभेदात्। सर्वेषां धातूनां यथासंभवं कर्मणि वा भावे वा प्रयोगे यक्प्रत्यय एव।
यङन्तस्य प्रयोगस्तु कर्तर्येव। यथा, दिवादिभ्यः श्यन्-प्रत्यये,
अग्निः दीप्यते इत्यादयः आत्मनेपदे, भावे प्रयोगे वा तुल्यमेव रूपं भजन्ते, तथा,
दीपयति - दीप्यते इति ण्यन्ताच्च कर्मणि तुल्यमेव रूपम्, तथैव
यङन्ते - देदीप्यते, इति
यङ्लुकि, देदेप्ति इत्यस्य देदीप्यते इति कर्मणि,
तथैव, यङ्लुगन्तात्
पा पाने इति धातोर्यङने - पेपीयते,
यङ्लुकि - पेपेति, कर्तरि,
तस्यैव कर्मणि, शानच्-प्रत्यये पेपीयमानमिति रूपम्। यङ्ङन्तात् कर्मणि तु पेपीय्यमानमिति भवति। इति विशेषः।