परिश्रमशब्दः पुंलिङ्गः। अत्र वाक्ये कर्मपदस्य अवकाश एव नास्ति।
परिश्रमः साफल्यस्य कुञ्चिका इति भवत्या उद्दिष्टमिति मन्ये। संस्कृते
केचन शब्दाः नियतलिङ्गाः, विशेषणानि विशेष्यनिघ्नलिङ्गाः,
विशेष्यलिङ्गाश्च केचन अनियतलिङ्गाः त्रिष्वपि लिङ्गेषूपयुज्यन्ते,
केचनार्थभेदेन भिन्नलिङ्गानि भजन्ते इति लिङ्गव्यवस्था कोशाद्यवलोकनेन
ज्ञातुं शक्यते।
>
> अर्थात् कर्ता शब्दे तथा कर्म शब्दे एव सप्तमी विभक्त्याः प्रयोगः करणीयः। एवं
> वा?
कर्ता शब्दे इति कर्म शब्दे इति कोऽर्थः? शब्दे कर्ता, शब्दे कर्म इति
वा? अथवा कर्तृवाचके शब्दे, कर्मवाचके शब्दे इति वा? एवं चेत्,
कर्तृशब्दे कर्मशब्दे इति वा, कर्तृपदे कर्मपदे इति वा इति वक्तव्यम्।
क्रियापदस्य कर्तरि प्रयोगे कर्तरि एव, क्रियापदस्य कर्मणि प्रयोगे,
कर्मणि एव पदे क्रियायाः अन्वयः। तदनुसारेण, सति सप्तम्या अपि कर्तरि वा
कर्मणि वा प्रयोगः कर्तुं शक्यते। सकर्मकधातुष्वेव कर्तरि कर्मणि च
प्रयोगः, अकर्मकधातुषु, कर्तरि भावे च क्रियापदस्य प्रयोगः।
गुरुः = गुरौ, भाषमाण=भाषमाणे - साधु वा?
> कदा कदा मया दृश्यते यत् 'सन्' , कदा कदा दृश्यते `सति'। कः भेदः?
सरलेनोदाहरणेन प्रथममभ्यासं करोतु, यथा दोषा न भवन्ति। तथैवाग्रेऽपि
सन्देहान् पूर्वमेव परिहृत्य लिखतु येन दोषपरिहाराय परमुखप्रेषणं मा
भूत्।
गुरुः भाषते। शिष्यः आगच्छति। इति सरलं वाक्यद्वयम्। यदा द्वयोः
क्रिययोः, एकया क्रियाया अपरा क्रिया लक्ष्यते, तदा पूर्वस्याः क्रियया
उत्तरा क्रिया लक्ष्यते, पूर्वस्या क्रियाया वाचके कर्तरि प्रयोगः सति
सप्तम्याः। भावलक्षणा सप्तमी इति व्याकरणे तस्या व्यवहारः।
गुरौ भाषमाणे (सति), इति, शिष्यस्य आगमनक्रियाया लक्षणत्वात्, तत्र
सप्तमी, अपरं वाक्यं तथैव।
गुरौ भाषमाणे शिष्यः आगच्छति इति।
अत्र उदाहरणे, गुरुः भाषणक्रियायाः कर्ता, इति तस्मिन् आख्याते, सप्तमी -
शिष्ये आगच्छति (सति) गुरुः भाषते इति च भवत्येव।
शिष्यः यदा आगच्छति, तदा गुरुः भाषते स्म इत्येवार्थः।
अत्र शिष्यस्यागमनक्रिया गुरोः भाषणक्रियां लक्षयतीति अत्रापि सप्तमी
प्रयोक्तुं शक्यते एव।
आदेशस्य कर्मणः, सप्तम्याः प्रयोगे अपेक्षा नास्त्येव।
एवमेव, गुरुः गतवान्, शिष्यः आगतः।
गुरौ गतवति, शिष्यः आगतः, आगच्छति स्म, आगच्छत् इति यथोचितं प्रयोगः।
अत्र गुरौ भाषमाणे (सति), शिष्ये आगच्छति (सति), गुरौ गते (सति) इति च
स्पष्टप्रतिपत्त्यर्थं सतीति अस्-धातोः शत्रन्तस्य प्रयोगात्, अस्याः
सप्तम्याः सति सप्तमी इति लौकिकव्यवहारः। यथा,
गुरुः भाषमाणः (अस्ति), शिष्यः आगच्छन्न् अस्ति इति क्रियान्तरं विना
प्रयोगः, क्रियान्तरस्य लक्षणे आख्यातपदस्य प्रयोगे एव, सति सप्तम्याः
स्पष्टीकरणार्थं सतीति प्रयोगः| तत्रापि, सतीति क्रियापदस्य कर्तरि
पुंलिङ्गैकवचने एव, सप्तम्यां सतीति प्रयोगः। द्वि-वहुवचनोयोस्तु यथोचितं
द्विबहु-वचने सतोः, सत्सु इति, स्त्रीलिङ्गे, सत्याम्, सत्योः, सतीषु इति
च यथोचितं कर्त्रनुसारेणे प्रयोगः।
गोषु दुह्यमानासु (सतीषु) गतः।
गोषु आगच्छत्सु (सत्सु), गतः, देवदत्तः।
इति विभिन्नलिङ्गेषु तदनुसारेण प्रयोगः। प्रथमं कर्मणि, गावो दुह्यन्ते।
तासु दुह्यमानासु, गतः इति कर्मणि सति सप्तमी प्रयुक्ता। अत्र गवां
स्त्रीलिङ्गत्वात् बहुत्वाच्च, सतीषु इति बहुवचनान्त्प्रयोगः तदनुसारेण।
अन्यत्र, गाव आगच्छन्ति। तेषु आगच्छत्सु (सत्सु), गतः इति पुंलिङ्गे
बहुवचने सत्सु इति प्रयोगः।
गोषु आगच्छत्सु (सत्सु), धूलयः उत्तिष्ठन्ति गगने इति संकीर्णः प्रयोगः।
एवमेव, माणवकं धर्मं भाषमाणे गुरौ (सति), अतिथयः अगाताः।
गुरुणा माणवकं धर्मे भाष्यमाणे (सति), अतिथयः आगताः इति च कर्मणि सति
सप्तम्याः प्रयोगः।
>
> कृपया लिखतु भवतः देशस्य समयः तथा भारतदेशस्य समयः एतयोः मध्ये कः भेदः? कति
> होराः भेदः? वाक्यं साधु किम्? होरा एतस्मिन् शब्दे षष्टीं करणीयं किम्?
वाक्यमेव सन्दिग्धम्। सरलं वाक्यं तु भारतदेशस्य समये भेदः कः इति
साध्वेव सरलं वाक्यम्। भवतः देशस्य इति उभयोरपि भारतदेशे स्थितत्वे,
तस्यापेक्षा नास्ति। अमेरिकादेशस्य भारतदेशस्य च समये कियान् भेदः इति च
साध्वेव। समयः होरास्वेव भवति भारतीयसमयानुसारेण, अमेरिकादेशे होरागणनं
नास्तीत्यन्यदेतत्।
>
> अधुना भवान् प्रतिदिनम् अथवा दिनत्रयमेकवासरे हेंगाउट् मध्ये आगच्छेत् मम
> भाषाज्ञानवर्धनं निश्चयेन भविष्यति इति अहं भावयामि। अहं मन्ये भवान् साहय्यम्
> करिष्यते/करिष्यति। भवतः अनुकूलसमयः कः इति लिखतु। तदा अहं सिद्धा
> भविष्यामि।
>
> मम एकं विज्ञापनमस्ति। अहं यत् यत् लिखामि तत् अवधानेन पठित्वा दोषस्य
> उल्लेखनं करोतु। दोषनिवरणार्थमेव अहमधिकम् लिखामि।
>
किमस्यायमभिप्रायः, अहं दोषनिवारणार्थमधिकाधिकं दोषान् लिखामि इति वा?
तदा कदापि भाषाज्ञानवर्धनं न भवत्येव। सर्वदा भवती दोषानेवाधिकमधिकं
लिखति, तस्य परिष्कारेण अन्येषां भाषाभ्यासस्तु भवत्येव। यथा दोषा न
भवन्ति, तथा सरलवाक्यरचनाभ्यासेन भाषाभ्यासः प्रवर्धते, व्याकरणाभ्यासश्च
कर्तव्य एव, न पुनः दोषाणामेवाधिकाधिकलेखनेन अन्यैः परिष्कारेण वा। यदि
दोषाः कदाचिद् भवन्ति, तदा अवश्यमन्यैः तस्य परिष्करणं कर्तुं युज्यते। न
तु स्वयं दोषपरिहारमकृत्वा, भूयो भूयो दोषलेखने भाषाभ्यासः प्रवर्धते
कदाचित्।