व्यकरणम्

107 views
Skip to first unread message

vasantha syamalam

unread,
Dec 8, 2013, 12:08:23 PM12/8/13
to sams...@googlegroups.com


कृपया लिखतु - सति सप्तमि का? उदाहरणेन बोधयतु कृपया।

विश्वासो वासुकिजः

unread,
Dec 8, 2013, 2:01:01 PM12/8/13
to sams...@googlegroups.com


On Sunday, December 8, 2013 9:08:23 AM UTC-8, vasantha syamalam wrote:


कृपया लिखतु - सति सप्तमि का? उदाहरणेन बोधयतु कृपया।


नमस्करोमि वसन्तार्ये। अन्ते साफल्यं भवत्याः प्रश्नप्रेषणप्रयत्नस्य! अभिनन्दनानि। 

सतिसप्तम्याः उदाहरणम् -
गुरुः आदेशं भाषते। तदा शिष्यः आगच्छति। == गुरौ आदेशं भाषमाणे, शिष्यः आगच्छति।


Hnbhat B.R.

unread,
Dec 8, 2013, 11:12:25 PM12/8/13
to sams...@googlegroups.com
Please Check these topics in our group:

1. https://groups.google.com/d/msg/samskrita/Bjc-nPPKpLk/45z2YcUht4IJ

2. https://groups.google.com/d/msg/samskrita/jHzfbiNJ8wI/OzoE7IWuDygJ

3. https://groups.google.com/d/msg/samskrita/jgp1wA7ccto/sCFiXZ9LooMJ

Any how, it is सति सप्तमी and not सप्तमि
> --
> You received this message because you are subscribed to the Google Groups
> "samskrita" group.
> To unsubscribe from this group and stop receiving emails from it, send an
> email to samskrita+...@googlegroups.com.
> To post to this group, send email to sams...@googlegroups.com.
> Visit this group at http://groups.google.com/group/samskrita.
> For more options, visit https://groups.google.com/groups/opt_out.
>

vasantha syamalam

unread,
Dec 8, 2013, 10:46:52 PM12/8/13
to sams...@googlegroups.com
(आम्! परिश्रमेव साफल्यस्य कुञ्जिका। )

अर्थात् कर्ता शब्दे तथा कर्म शब्दे एव सप्तमी विभक्त्याः प्रयोगः करणीयः। एवं वा? गुरुः = गुरौ, भाषमाण=भाषमाणे - साधु वा?
कदा कदा मया दृश्यते यत्  'सन्' ,   कदा कदा दृश्यते `सति'। कः भेदः?

कृपया लिखतु भवतः देशस्य समयः तथा भारतदेशस्य समयः  एतयोः मध्ये कः  भेदः? कति होराः भेदः? वाक्यं साधु किम्? होरा एतस्मिन् शब्दे षष्टीं करणीयं किम्?

अधुना भवान् प्रतिदिनम् अथवा दिनत्रयमेकवासरे हेंगाउट् मध्ये आगच्छेत् मम भाषाज्ञानवर्धनं निश्चयेन भविष्यति इति अहं भावयामि। अहं मन्ये भवान् साहय्यम् करिष्यते/करिष्यति। भवतः अनुकूलसमयः  कः  इति लिखतु। तदा अहं सिद्धा भविष्यामि।

 मम एकं विज्ञापनमस्ति। अहं यत् यत् लिखामि तत् अवधानेन पठित्वा दोषस्य उल्लेखनं करोतु। दोषनिवरणार्थमेव अहमधिकम् लिखामि।


2013/12/9 विश्वासो वासुकिजः <vishvas...@gmail.com>

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/groups/opt_out.



--
*Self help is the best help.*

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Dec 9, 2013, 1:06:37 AM12/9/13
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH, iragavarapu narasimhacharya

2013/12/8 vasantha syamalam <vasantha...@gmail.com>


अर्थात् कर्ता शब्दे तथा कर्म शब्दे एव सप्तमी विभक्त्याः प्रयोगः करणीयः।
गुरुः आदेशं भाषते। इति वाक्ये गुरुः कर्ता, आदेशम् इति  कर्मपदम्, भाषते इति क्रियापदम्।

सूक्ष्मविवरणाणि भवती संस्कृतभारत्या प्रकाशिते महाबलेश्वरभट्टरचिते कारकपुस्तके द्रष्टुमर्हति। अन्यथा sanskritfromhome.in इत्यापि द्रष्टुम् अर्हति।
  ​​
एवं वा? गुरुः = गुरौ, भाषमाण=भाषमाणे - साधु वा?
​विभक्ति-परिवर्तनं तु साधु एव। आदेशं​ भाषमाणः गुरुः अस्ति। इति वाक्ये गुरोर् विशेषणं भाषमाणः इति।

 
कदा कदा मया दृश्यते यत्  'सन्' ,   कदा कदा दृश्यते `सति'। कः भेदः?
भवति २० उदाहरणाणि सङ्गृह्णातु, तदा भवती एव ज्ञास्यति।​

अत्रैव भवत्याः वाक्यानि प्रेषयिष्यति चेत् अत्रत्यजनाः दोषान् ज्ञापयितुं शक्ष्यन्ति। हरिनारायणभट्टादयः अधीतव्याकरणाः च प्रगतविद्यार्थिनः केचन अत्र वर्तन्ते एव।

 
कृपया लिखतु भवतः देशस्य समयः तथा भारतदेशस्य समयः  एतयोः मध्ये कः  भेदः? कति होराः भेदः? वाक्यं साधु किम्? होरा एतस्मिन् शब्दे षष्टीं करणीयं किम्?
​कति होराणां भेदः। अस्मिन् ऋतौ -१३.५ होराणाम्।​

 

अधुना भवान् प्रतिदिनम् अथवा दिनत्रयमेकवासरे हेंगाउट् मध्ये आगच्छेत् मम भाषाज्ञानवर्धनं निश्चयेन भविष्यति इति अहं भावयामि। अहं मन्ये भवान् साहय्यम् करिष्यते/करिष्यति। भवतः अनुकूलसमयः  कः  इति लिखतु। तदा अहं सिद्धा भविष्यामि।
​अवश्येन - भिन्ने पत्त्रे वक्ष्यामि। परन्तु ततोऽपि उत्तरं मार्गद्वयं वदामि।​

​* नागपुरे संस्कृतभारत्याः कार्यकर्तृभिस् सह मिलित्वा, तेषां कार्यक्रमेषु, प्रचारप्रयत्नेषु योगदानं ददातु।
​* भारते एव स्थितैः आसक्तमित्रैः सह सम्भाषणं करोतु। तेषु मम शिशुपालवधबोधकः च मित्रं नरसिंहाचार्यः अपि अन्यतमः - सोऽपि उत्साहपूर्णः, अस्मिन्नपि वयसि सङ्गणप्रयोगं ज्ञात्वा video-hangout-सम्पर्के शक्तः।​
 

 मम एकं विज्ञापनमस्ति। अहं यत् यत् लिखामि तत् अवधानेन पठित्वा दोषस्य उल्लेखनं करोतु। दोषनिवरणार्थमेव अहमधिकम् लिखामि।
​साधु। तथैव यथाशक्ति करोमि। ममापि तादृशम् एव निवेदनम् - भवती च अन्ये ऽत्र उपस्थिताः​ दोषज्ञापनेन ममोपकारं कुर्वन्तु। 

​अहं बहु तुष्टोऽस्मि भवत्याः उत्साहं च विरकमं दृष्ट्वा। सर्वदा एवमेव संस्कृतेन एव लिखतु sams...@googlegroups.com इति गणे - यद्यपि अनेके तथा न कुर्युः।​ कठिनसंस्कृतं पठिष्यति चेत् तेन आशाभङ्गः मा भवतु - कालक्रमेण सर्वमपि अवगन्तुं शक्ष्यति। 

--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Dec 9, 2013, 1:08:39 AM12/9/13
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH, iragavarapu narasimhacharya

2013/12/8 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>

​अहं बहु तुष्टोऽस्मि भवत्याः उत्साहं च विरकमं दृष्ट्वा।
विक्रमं​​

 
सर्वदा एवमेव संस्कृतेन एव लिखतु sams...@googlegroups.com इति गणे - यद्यपि अनेके तथा न कुर्युः।​ कठिनसंस्कृतं पठिष्यति चेत् तेन आशाभङ्गः मा भवतु - कालक्रमेण सर्वमपि अवगन्तुं शक्ष्यति। 

vasantha syamalam

unread,
Dec 9, 2013, 4:33:22 AM12/9/13
to sams...@googlegroups.com
`भवती च अन्ये अत्र उपस्थिताः दोषज्ञापनेन ममोपकारं कुर्वन्तु।' एतस्य अर्थः कः? (भवानपि दोषं करोति वा? दोषनिगारणमिच्छति वा?) 
भवतः वाक्यस्य अर्थं एतदेव वा? अथवा अहं सम्यक् न अवगतवती वा?

भवान् नागपुरे स्थितस्य एकस्य महोदयस्य विषये लिखितवान् यः संस्कृतभाषया सम्भाषणं कर्तुमिच्छति तथा संगणकप्रयोगमपि करोति , तस्य दूरवाणीसंख्यां उत ई पत्र संख्यां कृपया लिखतु।
अहं तेन सह संपर्कं करोमि।


2013/12/9 Hnbhat B.R. <hnbh...@gmail.com>

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Dec 9, 2013, 10:58:43 AM12/9/13
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH

2013/12/9 vasantha syamalam <vasantha...@gmail.com>

`भवती च अन्ये अत्र उपस्थिताः दोषज्ञापनेन ममोपकारं कुर्वन्तु।' एतस्य अर्थः कः? (भवानपि दोषं करोति वा? दोषनिगारणमिच्छति वा?) 
भवतः वाक्यस्य अर्थं एतदेव वा?

​आम् स एव अर्थः।​

Hnbhat B.R.

unread,
Dec 9, 2013, 10:52:03 PM12/9/13
to sams...@googlegroups.com
On 12/9/13, vasantha syamalam <vasantha...@gmail.com> wrote:
> (आम्! परिश्रमेव साफल्यस्य कुञ्जिका। )

परिश्रमशब्दः पुंलिङ्गः। अत्र वाक्ये कर्मपदस्य अवकाश एव नास्ति।
परिश्रमः साफल्यस्य कुञ्चिका इति भवत्या उद्दिष्टमिति मन्ये। संस्कृते
केचन शब्दाः नियतलिङ्गाः, विशेषणानि विशेष्यनिघ्नलिङ्गाः,
विशेष्यलिङ्गाश्च केचन अनियतलिङ्गाः त्रिष्वपि लिङ्गेषूपयुज्यन्ते,
केचनार्थभेदेन भिन्नलिङ्गानि भजन्ते इति लिङ्गव्यवस्था कोशाद्यवलोकनेन
ज्ञातुं शक्यते।

>
> अर्थात् कर्ता शब्दे तथा कर्म शब्दे एव सप्तमी विभक्त्याः प्रयोगः करणीयः। एवं
> वा?

कर्ता शब्दे इति कर्म शब्दे इति कोऽर्थः? शब्दे कर्ता, शब्दे कर्म इति
वा? अथवा कर्तृवाचके शब्दे, कर्मवाचके शब्दे इति वा? एवं चेत्,
कर्तृशब्दे कर्मशब्दे इति वा, कर्तृपदे कर्मपदे इति वा इति वक्तव्यम्।
क्रियापदस्य कर्तरि प्रयोगे कर्तरि एव, क्रियापदस्य कर्मणि प्रयोगे,
कर्मणि एव पदे क्रियायाः अन्वयः। तदनुसारेण, सति सप्तम्या अपि कर्तरि वा
कर्मणि वा प्रयोगः कर्तुं शक्यते। सकर्मकधातुष्वेव कर्तरि कर्मणि च
प्रयोगः, अकर्मकधातुषु, कर्तरि भावे च क्रियापदस्य प्रयोगः।

गुरुः = गुरौ, भाषमाण=भाषमाणे - साधु वा?
> कदा कदा मया दृश्यते यत् 'सन्' , कदा कदा दृश्यते `सति'। कः भेदः?

सरलेनोदाहरणेन प्रथममभ्यासं करोतु, यथा दोषा न भवन्ति। तथैवाग्रेऽपि
सन्देहान् पूर्वमेव परिहृत्य लिखतु येन दोषपरिहाराय परमुखप्रेषणं मा
भूत्।

गुरुः भाषते। शिष्यः आगच्छति। इति सरलं वाक्यद्वयम्। यदा द्वयोः
क्रिययोः, एकया क्रियाया अपरा क्रिया लक्ष्यते, तदा पूर्वस्याः क्रियया
उत्तरा क्रिया लक्ष्यते, पूर्वस्या क्रियाया वाचके कर्तरि प्रयोगः सति
सप्तम्याः। भावलक्षणा सप्तमी इति व्याकरणे तस्या व्यवहारः।

गुरौ भाषमाणे (सति), इति, शिष्यस्य आगमनक्रियाया लक्षणत्वात्, तत्र
सप्तमी, अपरं वाक्यं तथैव।
गुरौ भाषमाणे शिष्यः आगच्छति इति।

अत्र उदाहरणे, गुरुः भाषणक्रियायाः कर्ता, इति तस्मिन् आख्याते, सप्तमी -

शिष्ये आगच्छति (सति) गुरुः भाषते इति च भवत्येव।
शिष्यः यदा आगच्छति, तदा गुरुः भाषते स्म इत्येवार्थः।

अत्र शिष्यस्यागमनक्रिया गुरोः भाषणक्रियां लक्षयतीति अत्रापि सप्तमी
प्रयोक्तुं शक्यते एव।

आदेशस्य कर्मणः, सप्तम्याः प्रयोगे अपेक्षा नास्त्येव।

एवमेव, गुरुः गतवान्, शिष्यः आगतः।

गुरौ गतवति, शिष्यः आगतः, आगच्छति स्म, आगच्छत् इति यथोचितं प्रयोगः।

अत्र गुरौ भाषमाणे (सति), शिष्ये आगच्छति (सति), गुरौ गते (सति) इति च
स्पष्टप्रतिपत्त्यर्थं सतीति अस्-धातोः शत्रन्तस्य प्रयोगात्, अस्याः
सप्तम्याः सति सप्तमी इति लौकिकव्यवहारः। यथा,

गुरुः भाषमाणः (अस्ति), शिष्यः आगच्छन्न् अस्ति इति क्रियान्तरं विना
प्रयोगः, क्रियान्तरस्य लक्षणे आख्यातपदस्य प्रयोगे एव, सति सप्तम्याः
स्पष्टीकरणार्थं सतीति प्रयोगः| तत्रापि, सतीति क्रियापदस्य कर्तरि
पुंलिङ्गैकवचने एव, सप्तम्यां सतीति प्रयोगः। द्वि-वहुवचनोयोस्तु यथोचितं
द्विबहु-वचने सतोः, सत्सु इति, स्त्रीलिङ्गे, सत्याम्, सत्योः, सतीषु इति
च यथोचितं कर्त्रनुसारेणे प्रयोगः।

गोषु दुह्यमानासु (सतीषु) गतः।
गोषु आगच्छत्सु (सत्सु), गतः, देवदत्तः।

इति विभिन्नलिङ्गेषु तदनुसारेण प्रयोगः। प्रथमं कर्मणि, गावो दुह्यन्ते।
तासु दुह्यमानासु, गतः इति कर्मणि सति सप्तमी प्रयुक्ता। अत्र गवां
स्त्रीलिङ्गत्वात् बहुत्वाच्च, सतीषु इति बहुवचनान्त्प्रयोगः तदनुसारेण।
अन्यत्र, गाव आगच्छन्ति। तेषु आगच्छत्सु (सत्सु), गतः इति पुंलिङ्गे
बहुवचने सत्सु इति प्रयोगः।

गोषु आगच्छत्सु (सत्सु), धूलयः उत्तिष्ठन्ति गगने इति संकीर्णः प्रयोगः।
एवमेव, माणवकं धर्मं भाषमाणे गुरौ (सति), अतिथयः अगाताः।
गुरुणा माणवकं धर्मे भाष्यमाणे (सति), अतिथयः आगताः इति च कर्मणि सति
सप्तम्याः प्रयोगः।


>
> कृपया लिखतु भवतः देशस्य समयः तथा भारतदेशस्य समयः एतयोः मध्ये कः भेदः? कति
> होराः भेदः? वाक्यं साधु किम्? होरा एतस्मिन् शब्दे षष्टीं करणीयं किम्?

वाक्यमेव सन्दिग्धम्। सरलं वाक्यं तु भारतदेशस्य समये भेदः कः इति
साध्वेव सरलं वाक्यम्। भवतः देशस्य इति उभयोरपि भारतदेशे स्थितत्वे,
तस्यापेक्षा नास्ति। अमेरिकादेशस्य भारतदेशस्य च समये कियान् भेदः इति च
साध्वेव। समयः होरास्वेव भवति भारतीयसमयानुसारेण, अमेरिकादेशे होरागणनं
नास्तीत्यन्यदेतत्।


>
> अधुना भवान् प्रतिदिनम् अथवा दिनत्रयमेकवासरे हेंगाउट् मध्ये आगच्छेत् मम
> भाषाज्ञानवर्धनं निश्चयेन भविष्यति इति अहं भावयामि। अहं मन्ये भवान् साहय्यम्
> करिष्यते/करिष्यति। भवतः अनुकूलसमयः कः इति लिखतु। तदा अहं सिद्धा
> भविष्यामि।
>
> मम एकं विज्ञापनमस्ति। अहं यत् यत् लिखामि तत् अवधानेन पठित्वा दोषस्य
> उल्लेखनं करोतु। दोषनिवरणार्थमेव अहमधिकम् लिखामि।
>

किमस्यायमभिप्रायः, अहं दोषनिवारणार्थमधिकाधिकं दोषान् लिखामि इति वा?
तदा कदापि भाषाज्ञानवर्धनं न भवत्येव। सर्वदा भवती दोषानेवाधिकमधिकं
लिखति, तस्य परिष्कारेण अन्येषां भाषाभ्यासस्तु भवत्येव। यथा दोषा न
भवन्ति, तथा सरलवाक्यरचनाभ्यासेन भाषाभ्यासः प्रवर्धते, व्याकरणाभ्यासश्च
कर्तव्य एव, न पुनः दोषाणामेवाधिकाधिकलेखनेन अन्यैः परिष्कारेण वा। यदि
दोषाः कदाचिद् भवन्ति, तदा अवश्यमन्यैः तस्य परिष्करणं कर्तुं युज्यते। न
तु स्वयं दोषपरिहारमकृत्वा, भूयो भूयो दोषलेखने भाषाभ्यासः प्रवर्धते
कदाचित्।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Dec 9, 2013, 11:26:54 PM12/9/13
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH
हरिनारायणार्यस्य विवरणदानं सर्वदा स्पष्टताजनकम्।​


2013/12/9 Hnbhat B.R. <hnbh...@gmail.com>

समयः होरास्वेव भवति भारतीयसमयानुसारेण, अमेरिकादेशे होरागणनं
नास्तीत्यन्यदेतत्।
​कथमिव? अत्रापि समयगणना यथाभारतम्।​
 
किमस्यायमभिप्रायः, अहं दोषनिवारणार्थमधिकाधिकं दोषान् लिखामि इति वा?
तदा कदापि भाषाज्ञानवर्धनं न भवत्येव। सर्वदा भवती दोषानेवाधिकमधिकं
लिखति, तस्य परिष्कारेण अन्येषां भाषाभ्यासस्तु भवत्येव। यथा दोषा न
भवन्ति, तथा सरलवाक्यरचनाभ्यासेन भाषाभ्यासः प्रवर्धते, व्याकरणाभ्यासश्च
कर्तव्य एव, न पुनः दोषाणामेवाधिकाधिकलेखनेन अन्यैः परिष्कारेण वा।

​अत्र ​मम वैमत्यं वर्तते। पुनೲ पुनस् ते एव दोषाः न करणीयाः - दोषे ज्ञापिते तन्निवारणार्थं प्रयत्नः करणीयः एव, तत्संबद्ध-ज्ञानार्जनम् अपि कार्यम्।
सर्वदा यथोचितं भूरिशो नूतनदोषाः‌ कृत्वा, दोषज्ञानसम्पादनं साध्वेव।
न केवलं संस्कृते - "Fail fast, fail early and fail often" इति तत्त्वं वाणिज्यजगति अपि प्रसिद्धः, तत्र धीमद्भिर् अङ्गीकृतश्च।

व्याकरणमधीत्य एव प्रयोगे प्रवर्तनम् अनुचितम् इति नैव ममाभिप्रायः। अपि तु, तेन साकं स्वकल्पनाप्रेरणयापि भाषा प्रयोक्तव्या साहसिभिः कौशलवर्धनार्थम्।

उदाहरणं वच्मि। नैकदा "रामो पतति" इति वत् दुष्टप्रयोगं कृतवान् अहम्। तत्र सन्धिदोषस्य द्वित्रिवारं विज्ञापनान्तरं मम दुरभ्यासोऽपगतः, अधुना "रामೲ पतति" इति साध्वेव लिखामि।

​औपचारिक-कार्यक्रमेषु दोषान् विना वचनम् आवश्यकं बहुशः इति तु भिन्नः विचारः।​

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Dec 9, 2013, 11:27:30 PM12/9/13
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH

2013/12/9 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>

सर्वदा यथोचितं भूरिशो नूतनदोषाः‌ कृत्वा, दोषज्ञानसम्पादनं साध्वेव।

​नूतनदोषान्​

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Dec 9, 2013, 11:29:09 PM12/9/13
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH

2013/12/9 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>

न केवलं संस्कृते - "Fail fast, fail early and fail often" इति तत्त्वं वाणिज्यजगति अपि प्रसिद्धः, तत्र धीमद्भिर् अङ्गीकृतश्च।
​प्रसिद्धं … अङ्गीकृतञ्च।​

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Dec 9, 2013, 11:33:11 PM12/9/13
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH

2013/12/9 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>


2013/12/9 Hnbhat B.R. <hnbh...@gmail.com>

समयः होरास्वेव भवति भारतीयसमयानुसारेण, अमेरिकादेशे होरागणनं
नास्तीत्यन्यदेतत्।
​कथमिव? अत्रापि समयगणना यथाभारतम्।​

​यथा भारते।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Dec 9, 2013, 11:46:35 PM12/9/13
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH

2013/12/9 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>

​​
तत्र सन्धिदोषस्य द्वित्रिवारं विज्ञापनान्तरं मम दुरभ्यासोऽपगतः
​​तत्र सन्धिदोषस्य द्वित्रिवारं विज्ञापनात् अनन्तरं …​

( ​उपरि सामर्थ्याभावात् "तदनन्तरम्" इतिवत् विज्ञापनान्तरम् इति वक्तुं नार्हामीति चिन्तयामि। किमिदं साधु?​ )

Hnbhat B.R.

unread,
Dec 10, 2013, 2:23:57 AM12/10/13
to sams...@googlegroups.com
"प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्" इत्येव सर्वेषामाक्षेपानां
समाधानम्, विश्वासमहोदयस्य आक्षेपप्रत्याक्षेपानाम्।

"गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः" इति न्यायस्तु क्वाचित्के
स्खलने, न तु चक्षुर्विहीनस्यान्धस्य पदे पदे स्खलने। गमने केवलं
पदयोरेवापेक्षा, न तु चक्षोरितिवत् भूयो भूयः स्खलनं गमनाभ्यासवर्धक
इतिवत्। नापि चक्षुष्मतां चक्षुषी निमील्याभ्यासकरणे प्रवृत्तानाम्।

एवमेवात्रापि। पदानामेवापेक्षा भाषणस्य, न ज्ञानचक्षुषः प्रदीपस्य
वापेक्षा, अन्यैरेव तत्करणात् न स्वयं दोषज्ञानस्य शब्दज्ञानस्यापेक्षा
भाषणस्य शब्द-प्रयोगाधीनत्वादिति तु विश्वासयोग्या परिभाषा।

Hnbhat B.R.

unread,
Dec 10, 2013, 6:26:58 AM12/10/13
to sams...@googlegroups.com
>
>> न केवलं संस्कृते - "Fail fast, fail early and fail often" इति तत्त्वं
>> वाणिज्यजगति अपि प्रसिद्धः, तत्र धीमद्भिर् अङ्गीकृतश्च।
>>
> ​प्रसिद्धं … अङ्गीकृतञ्च।​

एष वाणिज्यव्यवहारः, यत्र लाभालाभयोर्स्तुल्यत्वे व्यवहारवर्धनं नैव
भवति, यथा लाभाधिक्यं नष्टस्य न्यूनता एव वाणिज्यवर्धनाय। न तु
वैपरीत्ये, नष्टस्याधिक्ये असकृत् आवर्तने वा वाणिज्यनाश एव संभवति। इति
मया श्रुतः न्यायः।

एष भाषाव्यवहारः, न वाणिज्यव्यवहारः। इत्येवोत्तरमत्र। भाषापरिच्छेदे,
शाब्दबोध एव फलमिति निर्णीतः,

पदज्ञानं तु करणं द्वारं तत्र पदार्थधीः।
शाब्दबोधः फलं तत्र शक्तिधीः सहकारिणी॥

इति भाषाव्यवहारन्यायः, न्यायसिद्धान्तमुक्तावल्यां प्रपञ्चितः।

शक्तिज्ञानस्य सहकारिकारणत्वं च तत्रैवोक्तम्। तदभावे अशक्तपदप्रयोग एव
संभवति। तत्र शक्तिग्राहकशिरोमणिः व्यवहार एवेति तत्रैव निर्णीतः। तथापि,
तत्र शक्तिग्राहकसाधनान्यन्यान्यपि तत्रैव संगृहीतानि ---

शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद् व्यवहारतश्च ।
वाक्यस्य शेषाद् विवृत्तेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः॥
(न्यायसिद्धांतमुक्तावली-शब्दखंड).

येषु प्रथमं व्याकरणं प्रथममुल्लिखितम्। एष भाषाव्यवहारः
वाणिज्यव्यवहाराद् भिन्न एव। अथवा तुल्य एव वा। यथा आदायस्याधिक्यं
नष्टस्य न्यूनता, वाणिज्यस्य भाषायाश्च वर्धने हेतुः, न तद्वैपरीत्यम्।
अदायमार्गाणामनेकत्वे लाभ एव, मूलधनस्य कदाचिदप्यन्यूनत्वात्, तथैव
व्याकरणोपमानकोशाप्तवाक्यानां शक्तिग्राहकसाधनानां नाधिक्यं कदापि दोषाय
भवति, किं तु दोषपरिहाराय, शब्दसाधुत्वज्ञानवर्धनाय उपकरोत्येव। न कदापि
भाषा-व्यवहारस्य बाधकं भवति, व्याकरणकोशादीनां ज्ञानम्। नापि व्यवहारः
व्याकरणानीनां ज्ञाने प्रतिबन्दक इति तटस्थन्यायः।

vasantha syamalam

unread,
Dec 10, 2013, 12:22:42 PM12/10/13
to sams...@googlegroups.com
अहं दोषनिवारणार्थम्  अधिकं लिखामि  - एतस्य अर्थः अस्ति यत् यदि अहं अधिकं लिखामि तर्हि दोषं विना लेखितुमभ्यासं प्राप्नोमि। अहं यथाछक्यं निर्दोषं वाक्यं लेखितुं प्रयत्नं करोमि। तथापि दोषमागच्छति। अतः तस्य परिहारार्थमेव अहं अधिकं लिखामि - इत्येव अर्थः। परिश्रमः एव साफल्यस्य कुञ्जिका = परिश्रम एव साफल्यस्य कुञ्जिका - साधु वा? अहं मन्ये अत्र विसर्गस्य लोपः।


2013/12/10 Hnbhat B.R. <hnbh...@gmail.com>
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To unsubscribe from this group and stop receiving emails from it, send an email to samskrita+...@googlegroups.com.
To post to this group, send email to sams...@googlegroups.com.
Visit this group at http://groups.google.com/group/samskrita.
For more options, visit https://groups.google.com/groups/opt_out.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Dec 10, 2013, 1:32:38 PM12/10/13
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH

2013/12/10 vasantha syamalam <vasantha...@gmail.com>

परिश्रम एव साफल्यस्य कुञ्जिका - साधु वा? अहं मन्ये अत्र विसर्गस्य लोपः।

​साधु​

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Dec 10, 2013, 1:53:34 PM12/10/13
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH

2013/12/10 Hnbhat B.R. <hnbh...@gmail.com>

एष वाणिज्यव्यवहारः, यत्र लाभालाभयोर्स्तुल्यत्वे व्यवहारवर्धनं नैव
भवति, यथा लाभाधिक्यं नष्टस्य न्यूनता एव वाणिज्यवर्धनाय। न तु
वैपरीत्ये, नष्टस्याधिक्ये असकृत् आवर्तने वा वाणिज्यनाश एव संभवति। इति
मया श्रुतः न्यायः।

​वाणिज्ये "fail fast" तत्वम् किमिति अत्र किञ्चित् प्रपञ्चितम् - ​


एष भाषाव्यवहारः, न वाणिज्यव्यवहारः।
​नैकासु कलासु प्रखराभ्यासो दोषान्वेषणप्रधानः (Deliberate practice) बहुप्रभावशालीति वैज्ञानिकाः -

​एवं वीणावादने वा भवतु, गणिते वा, क्रीडायां वा - प्रयोगैर् दोषान्वेषणं बहुमतम्।​
कदाचित् तादृशः प्रयोगो ऽनुचितः - यथा क्रीडास्पर्धायां क्रीडापटुषु, यज्ञ-पूजादिप्रयोगेषु संस्कृतज्ञानाम्, अष्टावधानेष्व् आशुकवीनाम्।



न्यायसिद्धांतमुक्तावली-श्लोक-दर्शनेनाहम् उपकृतः।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Dec 10, 2013, 2:27:18 PM12/10/13
to संस्कृतसन्देशश्रेणिः samskrta-yUthaH

2013/12/10 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>


एष भाषाव्यवहारः, न वाणिज्यव्यवहारः।
​नैकासु कलासु प्रखराभ्यासो दोषान्वेषणप्रधानः (Deliberate practice) बहुप्रभावशालीति वैज्ञानिकाः -

​एवं वीणावादने वा भवतु, गणिते वा, क्रीडायां वा - प्रयोगैर् दोषान्वेषणं बहुमतम्।​
कदाचित् तादृशः प्रयोगो ऽनुचितः - यथा क्रीडास्पर्धायां क्रीडापटुषु, यज्ञ-पूजादिप्रयोगेषु संस्कृतज्ञानाम्, अष्टावधानेष्व् आशुकवीनाम्।

​प्रसङ्गेऽस्मिन् इतोऽपि - http://expertenough.com/1423/deliberate-practicehttp://projects.ict.usc.edu/itw/gel/EricssonDeliberatePracticePR93.pdf

"Deliberate practice" नाम अभ्यासविधौ "This doesn’t mean repeatedly doing what you already know how to doThis means understanding your weaknesses and inventing specific tasks in your practice to address those deficiencies."​ इति विधानम्।
Reply all
Reply to author
Forward
0 new messages